शतदूषणी विविदिषासाधनत्वभङ्गवादः(6)

शतदूषणी ।।अथ विविदिषासाधनत्वभङ्गवादः षष्ठः ।।6।। दृष्टानुश्रविकार्थजातविमुखान् पुंसोऽधिकृत्य श्रुतौ यज्ञादिर्यदुपास्तिसाधनतया साक्षाद्विधिं प्राप्नुते ।  लीलाभोगविभूतियुग्मभरितस्वात्मप्रदानोन्मुखः श्रीमानस्तु स मे समस्तदुरितोत्ताराय नारायणः ।। यदुच्यते, “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” (बृह-6-4-22) इत्यत्र यज्ञादिकं विविदिषासाधनत्वेन विधीयते, न तु वेदनसाधनत्वेन, वस्तुविरोधात्; श्रुत्यक्षरपर्यालोचनाच्च । विविदिषन्तीति हि श्रूयते; न पुनः विदन्तीति । तत्र ब्रूमः,कोऽसौ वस्तुविरोधस्तावत्? किं ज्ञानस्य यज्ञादिभिस्साधयितुमशक्यत्वम्? उत तेषां ज्ञानाङ्गभूतशमादिप्रत्यनीकात्मत्वम्? यद्वा […]

शतदूषणी बाधितानुवृत्तिभङ्गवादः(5)

शतदूषणी ।।अथ बाधितानुवृत्तिभङ्गवादः पञ्चमः ।। 5 ।। नानुवर्तेत संसारो यत्प्रसादैकबाधितः । प्रसीदतु स मे देवः प्रथमाञ्जलिकिङ्करः ।। यदुच्यते तत्त्वमस्यादि (छां-6-8-7)वाक्यात्तत्त्वज्ञाने जातेऽपि ब्रह्मविदां बाधितानुवृत्त्या भेदप्रतिभासादेराशरीरमनुवृत्तिः, तदनुवृत्तावपि छिन्नमूलतया दग्धपटादिवदबन्धकत्वं चेति; तत्र पृच्छामः, बाधितत्वे कथमनुवृत्तिर्भवता वक्तव्या । तस्यां वा तत् कथम्। प्रमाणबलात् मिथ्यात्वाध्यवसायेऽपि द्विचन्द्रादिष्विव दोषमहिम्ना प्रतिभासानुवृत्तिरिति न विरोध इति चेत् समस्तद्वैतकुक्षिम्भरिणाऽप्यद्वैतज्ञानेनाबाधितः कोऽसौ दोषः । अविद्यैवेति चेत् कथं तर्ह्यविद्यानिवृत्तिः? […]

शतदूषणी अविधेयज्ञानभङ्गवादः(4)

शतदूषणी ।। अथ अविधेयज्ञानभङ्गवादश्चतुर्थः ।।4।। विधित्रस्तैर्यत्तत्कथितमविधेयश्रुतिपथैर्विधत्ते दुखाब्धेर्विलयमविधेया मतिरिति । तदुद्ध्योपायं भगवदुपसत्तिं प्रथयते नमस्यामस्यामो यतिपरिबृढाय प्रतिकलम् ।। यदेतद्भ्रान्तजनजल्पितम्; समूलस्य संसारस्य संविन्मात्रे परस्मिन्ब्रह्मण्यारोपितत्वादलीककलधौतादेरिवाधिष्ठान याथात्म्याध्यवसायादेव विलयः; नपुनः कर्मणोपासनेन वा विहितेनादृष्टद्वारा । आहुश्च – “मणिमन्त्रौषधादिभ्यो दण्डघातादिनाऽपि वा । क्रियते नैव केनापि मायाकुण्डलिखण्डनम्” इति । यत्पुनरुन्मत्तान्प्रति भिषज्यते; तदपि तत्रानारोपितत्वाभिमतदोषविशेषमोक्षणायैव, न पुनस्तदधीनधीविशेषमात्र सिद्धमिथ्यापदार्थनिवर्तनाय । दोषे तु शममुपेयुषि स्वरसवाहितत्त्वज्ञानादेव तन्निवृत्तिः । अत्राप्याहुः- […]

शतदूषणी ऐकशास्त्र्यसमर्थनवादः(3)

शतदूषणी ।। अथ ऐकशास्त्र्यसमर्थनवादस्तृतीयः ।।3।। त्रय्यन्ताः कर्मभागेन सौहार्दं समधिश्रिताः । मुक्तिं यद्भजनादाहुस्तमनन्तमुपास्महे ।। स्थितं तावदध्ययनविधिनाऽध्यापनविधिना वा प्रयुक्तमध्ययनं साङ्गसशिरस्ककृत्स्नस्वाध्याय विषयमिति । रागतो विधितो वा प्रयुक्तस्तदर्थविचारोऽपि कृत्स्नगोचरः, तयोस्संकोचकाभावात् । ननु विधिप्रयुक्तौ माभूत्सङ्कोचः, रागप्रयुक्तौ तु स्यात्, यावद्रागं प्रवृत्त्युपपत्तेः, मैवम्; विकल्पासहत्वात् । किं ब्रह्मणि विचारसङ्कोचः किं वा कर्मणि? नाद्यः पुरुषस्य चतुर्ष्वपि पुरुषार्थेषु रागसम्भवात्, क्रमेण भोगसम्भवे विरोधाभावाच्च । सन्ति ह्युभयभावनास्तथाविधाः […]

शतदूषणी जिज्ञासानुपपत्तिवादः(2)

शतदूषणी ।। अथ जिज्ञासानुपपत्तिवादो द्वितीयः ।।2।। अथ स्वात्मैकभासस्य निर्विशेषस्य दुष्यतः । विशुद्धस्यापि जिज्ञासा परेष्टा प्रतिषिध्यते ।। यदाहुः -ब्रह्मशब्दनिर्दिष्टं विचार्यम्, अनुदितानस्तमितस्वरूपैकप्रकाशमशेषविशेषशून्यमनाद्य विद्यान्धकारितं नित्युशुद्धं चेति । तत्र विचित्रो व्याघातः । यद्धि न वित्तिकर्म, कथं तत्र जिज्ञासा सामान्यतो विदिते विशेषतश्च वेदितव्ये तत्प्रवृत्तेः । अन्यथा हेतुप्रयोजनविरहे तदयोगात् । नच ब्रह्मणि तथाविधवेदनद्वयविषयत्वं परैरिष्यते । जिज्ञासापूर्वकं परीक्षणमत्र प्रक्रम्यते । तच्च तत्र […]

शतदूषणी ब्रह्मशब्दवृत्त्यनुपपत्तिवादः(1)

श्रीकवितार्किकसिंहेन सर्वतन्त्रस्वतन्त्रेण श्रीमद्वेङ्कटनाथेन वेदान्तचार्येण विरचिता शतदूषणी ।। अथ ब्रह्मशब्दवृत्त्यनुपपत्तिवादः प्रथमः ।।1।। समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादर्पक्षुभ्यत्कलिकथककोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ।।1।। इदंप्रथमसम्भवत्कुमतिजालकूलङ्कषा मृषामतविषानलज्वलितजीवजीवातवः । क्षरन्त्यमृतमक्षरं यतिपुरन्दरस्योक्तयश्चिरन्तनसरस्वतीचिकुरबन्धसैरन्ध्रिकाः ।।2।। प्राचीमुपेत्य पदवीं यतिराजदृष्टां तत्सन्निकृष्टमपि वा मतमाश्रयन्तः । प्राज्ञा यथोदितमिदं शुकवत्पठन्तः प्रच्छन्नबौद्धविजये परितो यतध्वम् ।।3।। वादाहवेषु निर्भेत्तुं वेदमार्गविदूषकान् । प्रयुज्यतां शरश्रेणी निशिता शतदूषणी ।।4।। तत्र तावच्छास्त्रारम्भे – […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.