सिद्धान्तसिद्धाञ्जनम्-नित्यविभूतिपरिच्छेदः

सिद्धान्तसिद्धाञ्जनम् अथ नित्यविभूतिर्निरूप्यते ॥       रजोरहितत्वे सति तमोरहितत्वे सति वा सत्त्ववत्त्वम्, स्वयम्प्रकाशत्वे सति सत्त्ववत्त्वम् वा, चेतनधर्मभूतज्ञानान्यत्वे सति स्वयम् प्रकाशत्वम्, धर्मभूतज्ञानान्यत्वे सति पराक्त्वम् वा तल्लक्षणम् । लक्षणत्रयेऽति प्रकृतिवारणाय सत्यन्तम्, जीवादिवारणाय विशेप्यम्; चतुर्थलक्षणे जीवेश्वरधर्मभूतज्ञानवारणाय सत्यन्तम्, कालवारणाय विशेष्यम् । व्यावृत्तिः पञ्चमेऽप्यूह्या । न्यायसिद्धाञ्जने तु –निश्शेषाविद्यानिवृत्तिदेशविजातीयान्यस्वमपि तल्लक्षणमुक्तम् । निश्शेषाविद्याध्वम्सोत्पत्तिम् प्रत्याधेयतासम्बन्धेनावच्छेदकीभूतो यो देशस्तदवृत्तिद्रव्यविभाजकोपाधिमद्भिन्नत्वे सति द्रव्यत्वम् नित्यविभूतिलक्षणमिति तदर्थः । न च […]

सिद्धान्तसिद्धाञ्जनम्-ईश्वरपरिच्छेदः

सिद्धान्तसिद्धाञ्जनम् अथेश्वरो निरूप्यते ॥      *विभुत्वे सति चेतनत्वम् तल्लक्षणम्* । जीववारणाय सत्यन्तम्, कालवारणाय विशेष्यम् । प्रमेयत्वव्यापकत्वनिरूपकत्वरूपम् सर्वस्वामित्वम्, सर्वकर्मजन्यप्रीत्याश्रयत्वरूपम् सर्वकर्म- समाराध्यत्वम्, सर्वकर्मफलोत्पादकसङ्कल्पवत्त्वरूपम् सर्वफलप्रदत्वम्, सर्वद्रव्यपतनप्रतिबन्धक सङ्कल्पवत्त्वरूपसर्वाधारत्वम् च – तल्लक्षणम् । न च – ईश्वरस्य विभुत्वे *अनुप्रविश्य नामरूपे व्याकरवाणि* इत्यादिश्रुत्युक्तमनुप्रवेशादिकम् नोपपद्यत इति – वाच्यम्; विलक्षणसम्योगस्यैवानुप्रवेशशब्दार्थत्वात् । न च -भगवन्निरूपितस्वत्वस्य सर्वत्र सिद्धत्वे अग्नये स्वाहेत्यादावग्निपदस्याग्न्यन्तर्यामिपरत्वानुपपत्तिः, हविर्निष्ठस्वत्वरूपफलावच्छिन्नस्वस्वत्वध्वम्सानुकूलव्यापारस्यैव स्वाहापदार्थत्वात्तत्र स्वत्वरूपफलेऽन्तर्यामिनिरूपितत्वासम्भवादिति-वाच्यम्; तत्र विशेषणीभूताग्निनिरूपितत्वस्यैव […]

सिद्धान्तसिद्धाञ्जनम्-जीवपरिच्छेदः

सिद्धान्तसिद्धाञ्जनम् अथ जीवो निरूप्यते ॥ अणुत्वे सति ज्ञानाश्रयत्वम्, स्वव्यधिकरणसङ्कल्पजन्यकृतिमत्त्वम् न – तल्लक्षणम् । लक्षणद्वयेऽपीश्वरवारणाय सत्यन्तम् जन्यान्तम् च । जीवकृतिसामान्यस्य स्वव्यधिकरणेश्वरसङ्कल्पजन्यत्वाल्लक्षणसङ्गतिः । न च – *नित्यस्सर्वगतः* इति स्मृत्या जीवस्य विभुत्वबोधनाच्छरीरस्य देशान्तरगमनेऽपि ज्ञानसुखाद्युत्पत्तिदर्शना- त्तन्निर्वाहायात्मनोऽपि गमनागमनादिकल्पने गौरवाच्च विभुत्वकल्पनमेवोचितमित्यणुत्वघटितलक्षणासम्भव इति – वाच्यम् । *एषोऽणुरात्मा चेतसा वेदितव्यो बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्नमात्रो ह्यवरोऽपि दृष्टः*, *वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयः*- […]

सिद्धान्तसिद्धाञ्जनम्-जडपरिच्छेदः

श्रीः श्रीमते रामानुजाय नमः सिद्धान्तसिद्धाञ्जनम् श्रीमन्महीशूरमहाराजाधिराजा महास्थान सभा भूषणैः शेषाचार्य वंशमुक्ताफलैः श्रीयादवाद्रि निवासरसिकैः पण्डितमण्डलीसार्वभौमैः श्री. उ. मं. अ. अनन्तार्यवर्यैः विरचितम्   श्रीयादवाद्रिनिलयम् श्रितकल्पवृक्ष नारायणम् निखिललोकनिदानभूतम् । निस्सीमनिर्मलगुणम् निरवद्यरूपम् नित्यम् नमामि शिरसा सकलार्थसिद्ध्यै ॥ जयन्तु श्रीमन्तः श्रुतिशिखरसारस्यमधुराः सुधासध्रीचीनाः कुटिलमतकोलाहलमुषः । स्फुरद्युक्त्यासक्त्या द्रुहिणरमणीश्लाघ्यविभवाः यतिक्षोणीभर्तुर्निरुपमवचोगुम्भविसराः ॥ शेषार्यवम्शाम्बुधिशीतरश्मिस्सुधीरनन्तार्य इति प्रतीतः । सिद्धान्तसिद्धाञ्जननामधेयम् प्रबन्धमेनम् प्रकटीकरोति ॥ येऽर्था दुर्बोधताम् प्राप्ता गम्भीराचार्यसूक्तिषु […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.