सिद्धान्ततूलिका
॥ श्रीः ॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीमते रम्यजामातृमनये नमः ॥ ॥ श्रीमन्महागुरवे नमः ॥ ॥ श्रीमद्वेङ्कटलक्ष्मणार्य सम्यमिने नमः ॥ श्रीमद्वेङ्कटलक्ष्मणार्यसम्यमीन्द्रैः अनुगृहीता सिद्धान्ततूलिका प्रथमः परिच्छेदः वरवरमुनिवरचरणो तरुणसरोजातजठरकमनीयौ । अपि मम शिरस्यकस्मात् करुणापरिणामदापितौ कलये ॥ मुमुक्षोः मोक्षार्थ प्रमाणसारेण प्रमेयसारनिर्णयः कर्तव्यः । तत्र धर्मज्ञसमय एव सारभूतम् प्रमाणम् । स्वतः प्रमाणस्य वेदस्यापि तत्सापेक्षत्वात् । तदुक्त-मापस्तम्बेन – *धर्मज्ञसमयः […]