तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -अद्रव्यसरः

॥अद्रव्यसरः पञ्चमः ॥ 5॥ 4.361  तत्तद्द्रव्येषु दृष्टं नियतिमदपृथक्सिद्धमद्रव्यजातं तद्वद्विश्वं परस्य व्यवधिनियमनान्न स्वरूपेऽस्य दोषः । इत्थं निर्धार्य भाव्ये भगवति विविधोदाहृतिव्यक्तिसिद्ध्यै निर्बाधान् द्रव्यधर्मान्निरनुगतिगलद्दुर्नयान्निर्णयामः ॥ १ ॥ इत्थं द्रव्यवर्गं विचार्य अद्रव्यं विचारयिष्यंस्तद्विचारस्य प्रधानप्रयोजनमाह – तत्तदिति ॥ तेषुतेषु द्रव्येषु दृष्टं नियतिमत् – यस्य द्रव्यस्य यदुचितं तत्तत्रैव नियतमित्यर्थः । तच्च तत्रतत्रापृथक्सिद्धमद्रव्यजातम् । तद्वदेव विश्वमपि परस्यापृथक्सिद्धम् । एवं च सति विशेषणगतानां […]

तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -बुद्धिसरः

॥ बुद्धिसरः चतुर्थः ॥ 4 ॥ 4.226   धीत्वाद्वेद्मीति सिद्धा स्वयमितरमतिर्बुद्धिलक्ष्मादिधीव- द्यद्वा सर्वज्ञधीवन्न स मतियुगवान्नापि चैकोनवेदी । नो चेद्धारामतौ सा प्रथममपि सती नावबुद्धेति धीः स्यात् स्वस्यां वृत्तेर्विरोधोऽप्युपशमनमियादुक्तदृष्टान्तनीत्या ॥ १ ॥ आत्मतत्त्वं परमपरं च निरूपितम् । अथ यथोद्देशस्थणं तद्धर्मभूता बुद्धिश्चिन्त्यते । तत्र प्रथमं तत्स्वरूपस्य स्वतस्सिद्धिमाह – धीत्वादिति ॥ इतरमतिः – विप्रतिपन्ना बुद्धिः । स्वयं सिद्धा – स्वगोचरज्ञाननिरपेक्षव्यवहारानुगुणेत्यर्थः […]

तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -नायकसरः

नायकसरः तृतीयः व्याप्त्याद्यव्याकुलाभिः श्रुतिभिरधिगतो विश्वनेता स विश्वं क्रीडाकारुण्यतन्त्रः सृजति समतया जीवकर्मानुरूपम् । रोषोऽपि प्रीतये स्यात्सुनिरसविषयस्तस्य निस्सीमशक्तेः स्वेच्छा[यां]तस्सर्वसिद्धिं वदति भगवतोऽवाप्तकामत्ववादः ॥ १ ॥ तदेवं प्रत्यगर्थद्वये प्रथमोद्दिष्टो जीवश्चिन्तितः । अथेश्वरश्चिन्त्यते । तत्र तावत्प्रमाणविशेषात् सिद्धिं प्रस्तौति – व्याप्त्याद्यव्याकुलाभिरिति ॥ धर्मप्रवृत्तियुक्तसर्वदेशकालव्यापितयाऽन्यथाकरणशङ्कानर्हाभिरित्यर्थः । यद्वा अनुमान- वद्व्याप्तिपक्षधर्मतानिरूपणजनितव्यभिचारसंभवादिरहिताभिरिति । श्रुतिभिरिति भ्रमादिमूलत्वासंभवख्यापनम् । शब्दानां सिद्धे व्युत्पत्तिस्तत्र तात्पर्यं च साधयिष्यते । विश्वनेता – विश्वेषां […]

तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -जीवसरः

॥ जीवसरः द्वितीयः ॥ २ ॥ यो मे हस्तादिवर्ष्मेत्यवयवनिवहाद्भाति भिन्नस्स एकः प्रत्येकं चेतनत्वे बहुरिह कलहो वीतरागो न जातः । तत्सङ्घातातिरिक्तेऽप्यवयविनि कथं तेष्वसिद्धा मतिस्स्यात् सङ्घातत्वादिभिर्वा घट इव तदचित्स्यान्ममात्मेत्यगत्या ॥ १ ॥ अथ प्रत्यगर्थे जीवस्तावन्निरूप्यते । तत्र चार्वाकेणापि दुरपह्नवं प्रमाणमाह – य इति ॥ हस्तादिवर्ष्म – हस्तादिरूपं शरीरमित्यर्थः । मम हस्तादि मम वर्ष्मेति वा पृथगुदाहर्तव्यम् । अस्ति […]

तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -जडद्रव्यसरः

॥ श्रीरस्तु ॥ श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः। श्रीमते इयग्रीवाय नमः। श्रीमते रामानुजाय नमः। श्रीमते निगमान्तमहादेशिकाय नमः । कवितार्किकसिंहसर्वतन्त्रस्यतन्त्र श्रीमद्वेदान्तदेशिकविरचितः तत्त्वमुक्ताकलापः- सर्वार्थसिद्धिसमेतः ॥ श्रीमान्वेङ्कटनाथायः कवितार्किककेसरी। वेदान्ताचार्यवों मे संनिधत्तां सदा हृदि ॥ ॥ जडद्रव्यसरः ॥ १ 1.1          लक्ष्मीनेत्रोत्पलश्रीसततपरिचयादेष संवर्धमानो नाभीनालीकरि(ङ्ग)ङ्खन्मधुकरपटलीदत्तहस्तावलम्बः । अस्माकं संपदोघानविरलतुलसीदामसंजातभूमा कालिन्दीकान्तिहारी कलयतु वपुषः कालिमा कैटभारेः ॥ १ ॥ 1.1          जयति सकलविद्यावाहिनीजन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी । निखिलकुमतिमायाशर्वरीबालसूर्यो निगमजलधिवेलापूर्णचन्द्रो […]

तत्त्वमुक्ताकलापः अद्रव्यसरः

श्रीमन्निगमान्तमहादेशिकविरचितः तत्त्वमुक्ताकलापः  ॥ अथ अद्रव्यसरः पञ्चमः ॥ ५ ॥) तत्तद्द्रव्येषु दृष्टं नियतिमदपृथक्सिद्धमद्रव्यजातं तद्वद्विश्वं परस्य व्यवधिनियमनान्न स्वरूपेऽस्य दोषः । इत्थं निर्धार्य भाव्ये भगवति विविधोदाहृतिव्यक्तिसिद्ध्यै निर्बाधान् द्रव्यधर्मान्निरनुगतिगलद्दुर्नयान्निर्णयामः ॥ १ ॥ व्याख्यातं द्रव्यषट्कं व्यतिभिदुरमथाद्रव्यचिन्ताऽस्य सत्ताधीभेदादेः पुरोक्ता निजगदुरनुपादानतां तस्य लक्ष्म । द्रव्यादत्यन्तभिन्नं त्विदमनुपधिकं तद्विशिंष्यात् स्वभावात् दृष्टे न ह्यस्त्ययुक्तं न कथमितरथा विश्वतत्त्वापलापः ॥ २ ॥ अद्रव्यं द्रव्यसिद्धौ तदुपहिततया तच्च लक्ष्येत […]

तत्त्वमुक्ताकलापः बुद्धिसरः

श्रीमन्निगमान्तमहादेशिकविरचितः तत्त्वमुक्ताकलापः  ॥ अथ बुद्धिसरः चतुर्थः ॥ ४ ॥ धीत्वाद्वेद्मीति सिद्धा स्वयमितरमतिर्बुद्धिलक्ष्मादिधीवद्यद्वा सर्वज्ञधीवन्न स मतियुगवान्नापि चैकोनवेदी । नो चेद्धारामतौ सा प्रथममपि सती नावबुद्धेति धीः स्यात् स्वस्यां वृत्तेर्विरोधोऽप्युपशमनमियादुक्तदृष्टान्तनीत्या ॥ १ ॥ स्मृत्या शब्दानुमानप्रभृतिभिरपि धीर्वेद्यते स्वप्रकाशा धीत्वादेस्तामवेद्यामनुपधि वदतः स्वोक्तिबाधादयः स्युः । वेद्यत्वे सा जडा स्यादिति च विहतिमद्व्याप्तिभङ्गश्च नो चेच्छिष्याचार्यादिसर्वव्यवहृतिविरहाज्जातमौनं जगत्स्यात् ॥ २ ॥ बुद्धेरर्थप्रकाशादनुमितिरिति चेत्तन्न साध्याविशेषात् साध्याद्भेदेऽपि […]

तत्त्वमुक्ताकलापः नायकसरः

श्रीमन्निगमान्तमहादेशिकविरचितः तत्त्वमुक्ताकलापः नायकसरः तृतीयः ॥ ३ ॥ व्याप्त्याद्यव्याकुलाभिः श्रुतिभिरधिगतो विश्वनेता स विश्वं क्रीडाकारुण्यतन्त्रः सृजति समतया जीवकर्मानुरूपम् । रोषोऽपि प्रीतये स्यात्सुनिरसविषयस्तस्य निस्सीमशक्तेः स्वेच्छा(यां)तस्सर्वसिद्धिं वदति भगवतोऽवाप्तकामत्ववादः ॥ १ ॥ अप्रत्यक्षः परात्मा तदिह न घटते धातुरध्यक्षबाधो योग्यादृष्टेरभावान्न खलु न भवता स्वीकृतः स्वेतरात्मा । तस्मिन्देहानपेक्षे श्रुतिभिर(धिगते)वसिते देहबाधान्न बाधो वेदेभ्यो नानुमानं न च पुरुषवचस्तिष्ठते बद्धवैरम् ॥ २ ॥ वाच्यत्वं वेद्यतां […]

तत्त्वमुक्ताकलापः जीवसरः

श्रीमन्निगमान्तमहादेशिकविरचितः तत्त्वमुक्ताकलापः जीवसरः द्वितीयः ॥ २ ॥ यो मे हस्तादिवर्ष्मेत्यवयवनिवहाद्भाति भिन्नस्स एकः प्रत्येकं चेतनत्वे बहुरिह कलहो वीतरागो न जातः । तत्सङ्घातातिरिक्तेऽप्यवयविनि कथं तेष्वसिद्धा मतिस्स्यात् सङ्घातत्वादिभिर्वा घट इव तदचित्स्यान्ममात्मेत्यगत्या ॥ १ ॥ स्याद्वाऽसौ चर्मदृष्टेरयमहमिति धीर्देह एवात्मजुष्टे निष्टप्ते लोहपिण्डे हुतवहमतिवद्भेदकाख्यातिमूला । श्रुत्यर्थापत्तिभिश्च श्रुतिभिरपि च नस्सर्वदोषोज्झिताभिः देही देहान्तराप्तिक्षम इह विदितस्संविदानन्दरूपः ॥ २ ॥ बाह्याक्षेभ्योऽन्य आत्मा तदखिलविषयप्रत्यभिज्ञातुरैक्यात् कर्तुः स्मृत्यादिकार्ये […]

तत्त्वमुक्ताकलापः जडद्रव्यसरः

श्रीमन्निगमान्तमहादेशिकविरचितः तत्त्वमुक्ताकलापः जडद्रव्यसरः श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥ लक्ष्मीनेत्रोत्पलश्रीसततपरिचयादेष संवर्धमानो नाभीनालीकरि(ङ्ग)ङ्खन्मधुकरपटलीदत्तहस्तावलम्बः । अस्माकं संपदोघानविरलतुलसीदामसंजातभूमा कालिन्दीकान्तिहारी कलयतु वपुषः कालिमा कैटभारेः ॥ १ ॥ नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो वैश्वामित्रस्य पौत्रो विततमखविधेः पुण्डरीकाक्षसूरेः । श्रुत्वा रामानुजार्यात्सदसदपि ततस्तत्त्वमुक्ताकलापं व्यातानीद्वेङ्कटेशो वरदगुरुकृपालम्भितोद्दामभूमा ॥ २ ॥ प्रज्ञासूच्याऽनुविद्धः क्षतिमनधिगतः कर्कशात्तर्कशाणाच्छुद्धो नानापरीक्षास्वशिथिलविहिते मानसूत्रे निबद्धः । आतन्वानः प्रकाशं बहुमुखमखिलत्रासवैधुर्यधुर्यो धार्यो हेतुर्जयादेः स्वहृदि सहृदयैस्तत्त्वमुक्ताकलापः ॥ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.