वेदान्तकारिकावली
॥ श्रीबुच्चि वेंकटाचार्यकृता वेदान्तकारिकावली ॥ (अथ प्रत्यक्षनिरूपणं नाम प्रथमं प्रकरणम्) श्रीमद्रमाधवोपज्ञां नत्वाचार्यपरम्पराम् । कुर्वे लक्ष्मणसिद्धान्तकारिकां कारिकावलीम् ॥ १.१॥ मानमेयविभेदेन पदार्थो द्विविधो मतः । मानं प्रत्यक्षानुमानशब्दभेदात् त्रिधा भवेत् ॥ १.२॥ प्रमेयं द्विविधं प्रोक्तं द्रव्याद्रव्यविभेदतः । जडाजडत्वभिन्नेऽत्र द्रव्ये तद् द्विविधं जडम् ॥ १.३॥ प्रकृतिः काल इत्याद्या चतुर्विंशतिधा मता । कालस्तूपाधिभेदेन त्रिविधः परिकीर्त्यते ॥ १.४॥ अजडं तु पराक् […]