यतीन्द्रमतदीपिका
श्रीः श्रीमते रामानुजाय नमः श्रीमद्वाधूलकुलतिलक-श्रीमन्महाचार्य-प्रधानशिप्य-श्रीनिवासाचार्य-विरचिता यतीन्द्रमतदीपिका प्रथमोऽवतारः उपोद्धातः श्रीवेङ्कटेशम् करिशैलनाथम् श्रीदेवराज घटिकाद्रिसिम्हम् । कृष्णेन साकं यतिराजमीडे स्वप्ने च दृष्टान् मम देशिकेन्द्रान् ।। १ ।। यतीश्वरम् प्रणम्याहम् वेदान्तायम् महागुरुम् । करोमि बालबोधार्थम् यतीन्द्रमतदीपिकाम् ।।२।। १. श्रीमन्नारायण एव चिदचिद्विशिष्टाद्वैततत्त्वम् भक्तिप्रपत्तिभ्याम् प्रसन्नः स उपायः, अप्राकृतदेशविशिष्ठ: स एव प्राप्य इति वेदान्तवावयैः प्रतिपादयताम् श्रीव्यासबोधायन-गुहदेवभारुचिब्रह्मनन्दिद्रमिडाचार्य श्रीपराङ्कुशनाथयामुनमुनियतीश्वरप्रभृतीनाम् मतानु- सारेण बालबोधार्थम् वेदान्तानुसारिणी […]