Atma Vivaham of Swami Namjeer
ஸ்ரீமதே ராமாநுஜாய நம: ஆத்ம விவாஹம் ஶ்ரிய:பதியாகிற காளமேகத்திலும் ஸௌஹார்த்தம் என்கிறதொரு பாட்டம் மழை விழுந்து க்ருபை ஆகிற நிலத்திலே ஜீவனாகிற ஓஷதி4 முளைத்து ஆசார்யனாகிற பிதா விரஹம் என்கிற சங்கமத்தாலே பெண்பிள்ளை பிறக்க ருசியாகிற ஜீவநத்தையிட்டு வளர்த்துக்கொண்டு போந்து விவேகமாகிற பக்வம் பிறந்தவாறே பரம சேஷிகளாகிற ஸ்ரீ வைஷ்ணவர்கள் திரளைச் சேர்த்து எம்பெருமானாகிற வரன் கையில் ஸ்வரூப ஜ்ஞாநம் என்கிற தா4ரையை வார்த்துக் கொடுக்க அவனும் சேஷமாகிற மந்த்ரவாஸஸ்ஸை உடுத்தி சேஷ வ்ருத்தியாகிற மங்கள கையைப்பிடித்துக்கொண்டுபோந்து […]
Thiruppavai 3000Padi Vyakya
– ஸ்ரீமதே ராமாநுஜாய நம: பெரியவாச்சான்பிள்ளை அருளிச் செய்த மூவாயிரப்படி வ்யாக்யானம் திருப்பாவை – முதற்பாட்டு மார்கழித்திங்கள் மதிநிறைந்த நன்னாளால் நீராடப்போதுவீர் போதுமினோ நேரிழையீர்* சீர்மல்கு மாய்ப்பாடிச் செல்வச் சிறுமீர்காள் கூர்வேற் கொடுந்தொழிலன் நந்தகோபன் குமரன்* ஏரார்ந்த கண்ணி யசோதை யிளஞ்சிங்கம்* கார்மேனிச் செங்கண் கதிர்மதியம் போல்முகத்தான்* நாராயணனே நமக்கே பறைதருவான்* பாரோர் புகழப் படிந்தேலோ ரெம்பாவாய். அவதாரிகை – முதற்பாட்டில் இந்நோன்புக்கு ஒரு காலம் நேற்படுவதே! […]
यादवाभ्युदयः सर्गः-24
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ चतुर्विंशस्सर्गः 24.01 अथ निजविभवादजातशत्रौ प्रशमितशत्रुबले निवेश्य भूमिम् । परिचरणफलं प्रभुः प्रयच्छन्नमितगुणाभिररंस्त वल्लभाभिः ॥1॥ 24.02 क्रतुविधिनियतोऽप्यकर्मवश्यः परिचितकामरसोऽपि वीतरागः । नगरवसतिरप्यशेषवासः कथमिव केन विभुः स वर्णनीयः ।।2।। 24.03 अनुगमितमिदं स्वदाररक्षामनघमनोभवतन्त्रमाननीयम् । निरुपाधिकरस्य नेतुरासीत् नृपतिमहर्षिभिरञ्चितं चरित्रम् ॥3॥ 24.04 श्रुतिशतमहिते पदे परस्मिन् सितजलधौ रविमण्डले च सिद्धाम् । बहुमतिमतिशय्य सा बभासे नरकरिपोरवरोधभूमिरग्र्या ।।4।। […]
यादवाभ्युदयः सर्गः-23
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ त्रयोविंशः सर्गः 23.1 अथाधिकारच्यवनात् य इन्द्राः पञ्चाभवन् पाण्डुसुताः पृथिव्याम्। जयार्थिनस्ते जगदेकनाथं प्रपेदिरे सत्त्वधनाः सदाराः।। 23.2 तमोपहैस्तत्त्वविदामृषीणां वाक्यैस्त्रिवेदीमनुसञ्जिहानैः। कृष्णं यथावत् कृतिनो विदन्तः तस्याभवन् प्राणसमाः सखायः।। 23.3 तदाश्रयास्तत्प्रणिधेयकृत्याः तेनैव नाथेन सदा सनाथाः। अपारयन् योगिभिरप्यजय्यान् बाह्यान्तरान् जेतुमरातिवर्गान्।। 23.4 प्रतिक्रियाः प्राग्भवदुष्कृतानां प्राणोपरोधेपि निरुद्धपापाः। धीरास्त्रिलोकीसुहृदः प्रसादात् विपाकरम्या विपदः प्रसेहुः।। 23.5 अलङ्घयन् विश्वपतेः प्रसादात् […]
यादवाभ्युदयः सर्गः-22
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ द्वाविंशः सर्गः 22.1 अथ देवानिवाहूतान् नरदेवान् अभाषत। देवदानवसामान्यदैवतं देवकीसुतः।। 22.2 एष वः क्ष्मापतिः शास्ति विधातेव प्रजापतीन्। महेन्द्रः हव धर्मेण सुधर्मामास्थितः स्वयम्।। 22.3 शेखरीकृतभूभारः शेषत्वेन विभोः स्थितः। वेदयत्ययमार्योपि मित्रभूतान् अमित्रजित् ।। 22.4 वयं भवन्तो ये चान्ये महान्तः सर्व एव ते । विश्वगुप्तौ जगत्कर्त्रा विनियुक्ता विभूतयः।। 22.5 तदस्माभिरवस्थेयं धर्मवर्त्मनि शाश्वते।बिभ्यद्भिरनघादेशात् […]
यादवाभ्युदयः सर्गः-21
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ एकविंशः सर्गः 21.1 वासुदेव इति नाम दधानः पौण्ड्रकस्तदनु भूरिमदान्धः। मानुषत्वकवचान्तरितेन स्पर्धते स्म हरिणा हतचित्तः।। 21.2 हेतिपञ्चकमधारयत श्रीवत्सकौस्तुभमुखानि च मूढः। ऐश्वराणि चरितानि च पूर्वाणयात्मनः स्वयमजूघुषदाप्तैः।। 21.3 इन्द्रजालकुहनादिषु दाक्ष्यात् ईश एष इति मोहितलोकः। अध्यशेत भुजगेश्वरशय्यां आरुरोह विहगेन्द्रविवर्तम् ।। 21.4 अन्वहं च महतीं वनमालां माल्यकृद्भिरुपकल्प्य बभार। नामधेयमदिशत् सचिवानां नाकनायकविशेषनिरूढम् ।। 21.5 […]
यादवाभ्युदयः सर्गः-20
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ विंशस्सर्गः 20.1 अथोपहूतैः पुरुहूतजेता सेनेश्वरैरप्रतिमानवीर्यैः। अभीषुभिः सूर्य इवाभिदीप्तः कुबेरगुप्तां ककुभं प्रतस्थे ।। 20.2 प्रयाणतूर्णतूर्यध्वनिरस्य भूयान् घर्मान्तजीमूतरवानुकारी। अनर्तयद्धर्ममयूरमाद्यं प्राप्तस्थितिं पादयुगेन भूम्याम् ।। 20.3 नभः पृथिव्योरुपदिष्टकम्पे नाथस्य यात्रापटहप्रणादे । उषेतरासां नयनं चकम्पे वामेतरं बाणपुराङ्गनानाम्।। 20.4 तस्येन्दुबिम्बं सितमातपत्रं भास्वान् मणीन्द्रो महनीयतेजाः। ताराश्च मुक्तावलया विरेजुः शिखी रथाङ्गाकृतिरात्मधाम्नः।। 20.5 अग्रे मुकुन्दस्य तदग्रजन्मा दैत्यैस्समं […]
यादवाभ्युदयः सर्गः-19
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ एकोनविंशः सर्गः 19.1 नित्यप्रबुद्धमपि निर्मलया स्वदृष्ट्या निद्राणवत् दरनिमीलितनेत्रपद्मम्। प्राबोधिकीभिरुपसेदुरितीव वाग्भिः स्वाधीनमर्त्यतनयं श्रुतिवन्दिनस्तम् ।। 19.2 यामिन्यपैति यदुनाथ विमुञ्च निद्रां उन्मेषमृच्छति तवोन्मिषितेन विश्वम् । जातः स्वयं खलु जगद्धितमेव कर्तुं धर्मप्रवर्तनधिया धरणीतले त्वम् ।। 19.3 अश्रान्तसन्ततिभिराभरणप्रकाशैः आरात्रिकं प्रमुखयन्त्य इवोपचारम्। इच्छन्ति ते प्रथमदृष्टिमनन्यलभ्यां पद्माननाः पदनिवेशनधन्यहस्ताः।। 19.4 वृद्धाः कथञ्चिदररं व्यतिभिद्य हैमं दौवारिकास्तव गृहीतसुजातवेत्राः। […]
यादवाभ्युदयः सर्गः-18
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ अष्टादशस्सर्गः 18.1 अथात्मचिन्तानुचरेण यास्यन् विहङ्गराजेन विभुः पुरीं स्वाम् । उवाच पत्नीं दशनांशुलक्षात् वमन्निवानन्दममान्तमन्तः।। 18.2 सत्ये समीक्षस्व विपारिजातां वृत्तेन हीनामिव वेदविद्याम् । निशामिव प्रोषितशीतभानुं नारीमनाथामिव नाकलक्ष्मीम् ।। 18.3 आलम्बिता नम्रमुखी भवत्या हस्तेन रक्ताङ्गुलिपल्लवेन। वदान्यवृक्षस्य विभाति शाखा वक्तुं वयस्येव रहः प्रवृत्ता।। 18.4 सुपर्णवेगानिलविप्रकीर्णैः सुरद्रुमैरन्तरितः सुमेरुः। आलक्ष्यते कालवशेन भूयः प्ररूढलूनैरिव पक्षजालैः।। […]
यादवाभ्युदयः सर्गः-17
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ सप्तदशः सर्गः 17.1 आतपत्रमथ तत् प्रचेतसो मन्दरस्य मणिशृङ्गमुन्नतम्। सावरोघमपि सात्त्वतां पतिं लीलयैव गरुडो वहन् ययौ।। 17.2 तं क्षिपन्तमधिकेन रंहसा मारुतस्य मनसोपि शीघ्रताम्। वालखिल्यसुकृतं विपक्त्रिमं प्राणमैक्षत बहिश्चरं प्रभुः।। 17.3 लोकतः खगरथेन मध्यमादुत्पतन्तमवनम्य माधवम्। निर्जराः स्तुतिभिरभ्यपूजयन् पुष्कलाभिरपि पुष्पवृष्टिभिः।। 17.4 पाञ्चजन्यनिनदोपहूतया पर्यचारि परितोषनिघ्नया। भक्तिभारनतया सदोन्नतः स्वर्गिणां परिषदा यदूद्वहः।। 17.5 प्राप्य यादवपतिस्त्रिविष्टपं […]