श्रीविष्णुपुराणम् Amsa 06 Ady 06-08

श्रीविष्णुपुराणम् अथ षष्ठांशे षष्ठोऽध्यायः श्रीपराशर उवाच स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते ॥ १ ॥ एवं तावदुपास्यभूतं भगवत्स्वरूपमुक्तम् । इदानीमुपासनपर्यायं सांगोपाङ्गं वक्तुमारभते-स्वाध्यायेति ॥ स्वाध्यायशब्देन वेदान्तद्वादशाक्षरप्रणवादीनां तत्त्वपराणां मीमांसासहितानां वाक्यानां निर्देशः । स इत्युक्तगुण-विभूतिविग्रहादिविशिष्टः पुरुषोत्तमः परामृश्यते । स्वाध्यायसंयमजनितं ब्रह्मविषयत्वाब्रह्मशब्द वाच्यम्, तदेतज्ज्ञानं न केवलं दर्शनसाधनम, अपि तु प्राप्तिसाधनं चोच्यते इत्याह-तत्प्राप्तीति । तत्प्राप्तिकारणं तदेतज्ज्ञानं ब्रह्मेति पठ्यत […]

श्रीविष्णुपुराणम् Amsa 06 Ady 01-05

श्रीविष्णुपुराणम् श्रीमते रामानुजाय नमः अथ षष्ठांशे प्रथमोऽध्यायः मैत्रेय उवाच व्याख्याता भवता सर्गवंशमन्वन्तरस्थितिः । वंशानुचरितं चैव विस्तरेण महामुने ॥ १ ॥ व्याख्यातेति ॥ प्रथमांशे सर्ग उक्तः । द्वितीयादिषु वंशमन्वन्तरवंशानुचरितरूपा स्थितिरुक्ता ॥ १ ॥ श्रोतुमिच्छाम्यहं त्वत्तो यथावदुपसंहृतिम् । महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥ २ ॥ श्रोतुमिति ॥ अथ कल्पान्ते उपसंहृति-महाप्रलयसंज्ञामुपसंहृतिं च श्रोतुमिच्छामि ॥ २ ॥ श्रीपराशर […]

श्रीविष्णुपुराणम् Amsa 05 Ady 31-38

श्रीविष्णुपुराणम् अथ पञ्चमांशे एकत्रिंशोऽध्यायः श्रीपराशर उवाच संस्तुतो भगवानित्थं देवराजेन केशवः । प्रहस्य भावगंभीरमुवाचेन्द्रं द्विजोत्तम ॥ १ ॥ संस्तुत इति । भावगंभीरं – सूचितार्थगहनम् ॥ १ ॥ श्रीकृष्ण उवाच देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते । क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ २ ॥ पारिजाततरुश्चायं नीयतामुचितास्पदम् । गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ ३ ॥ देवराज इति ॥ अपराधकृतं […]

श्रीविष्णुपुराणम् Amsa 05 Ady 21-30

श्रीविष्णुपुराणम् अथ पञ्चमांशे एकविंशोऽध्यायः श्रीपराशर उवाच तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् । देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः । मोहाय यदुचक्रस्य विततान स वैष्णवीम् ॥ १ ॥ ताविति ॥ मायां– योगमायाम् ॥ १ ॥ उवाच चांब हे तात चिरादुत्कण्ठितेन मे । भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ॥ २ ॥ कुर्वतां याति यः कालो मातापित्रोरपूजनम् । तत्खण्डमायुषो व्यर्थमसाधूनां हि […]

श्रीविष्णुपुराणम् Amsa 05 Ady 11-20

श्रीविष्णुपुराणम् अथ पञ्चमांशे एकादशोऽध्यायः श्रीपराशर उवाच मखे प्रतिहते शक्रो मैत्रेयातिरुषाऽन्वितः । संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ १ ॥ भोभो मेधा निशम्यैतद्वचनं गदतो मम । आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ २ ॥ ॥ १,२ ॥ नन्दगोपस्सुदुर्बुद्धिर्गोपैरन्यैः सहायवान् । कृष्णाश्रयबलाध्मातो मखभङ्गमचीकरत् ॥ ३ ॥ नन्दगोप इति ॥ आध्मातः – उपबृंहितः ॥ ३ ॥ आजीवो याः परस्तेषां गावस्तस्य च कारणम् […]

श्रीविष्णुपुराणम् Amsa 05 Ady 01-10

।। श्रीमते रामानुजाय नमः ।। श्रीविष्णुपुराणम् अथ पञ्चमांशे प्रथमोऽध्यायः मैत्रेय उवाच नृपाणां कथितःसर्वो भवता वंशविस्तरः । वंशानुचरितं चैव यथावदनुवर्णितम् ।। १ ।। नृपाणामिति ॥ उक्तश्चतुथेंशे लोकज्ञापकधर्मप्रवर्तकः क्षत्रवंशः ॥ १ ॥ अंशावतारो ब्रह्मर्षे योऽयं यदुकुलोद्भवः । विष्णोस्तं विस्तरेणाहं श्रोतुमिच्छामि तत्त्वतः ॥ २ ॥ अंशावतार इति ॥ विष्णोः  –  व्यापकस्य नारायणस्य, अन्तर्वहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इति […]

श्रीविष्णुपुराणम् Amsa 04 Ady 11-24

श्रीविष्णुपुराणम् चतुर्थांशे एकादशोऽध्यायः श्रीपराशर उवाच अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि  ॥ १ ॥ ।। १ ॥ यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरोरगविहगदैत्यदानवादित्यरुद्रवस्वश्विमरुद्देवर्षिभिर्मुमुक्षुभिर्धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार  ॥ २ ॥ अत्र श्लोकः  ॥ ३ ॥ यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते  । यत्रावतीर्णं कृष्णाख्यं परं ब्रह्मनराकृति  ॥ ४ ॥ सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चात्वारो यदुपुत्रा बभुवुः  ॥ ५ ॥ सहस्रजित्पुत्रश्शतजित् ॥ ६ ॥ तस्य […]

श्रीविष्णुपुराणम् Amsa 04 Ady 01-10

श्रीमते रामानुजाय नमः श्रीविष्णुपुराणम् चतुर्थांऽशेप्रथमोऽ ध्यायः श्रीमैत्रेय उवाच भगवन्यन्नरैः कार्यं साधुकर्मण्यवस्थितैः । तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ॥१॥ वर्णधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च । श्रोतुमिच्छाम्यहं वंशं राज्ञां तद् ब्रूहि मे गुरो ॥२॥ तृतीयेंऽशे भगवतस्थितिहेतुभूत मन्वादिरूप मेदानामधिकारमेद उक्तः । विशेषतश्व जगतः स्थितिहेतु-र्वर्णाश्रमधर्मः सदाचारचोक्तः। चतुर्थेशे तु तत्स्थापकधार्मिकसोमसूर्योद्भवक्षत्रवंशस्तदनुचरितं चोच्यते ॥ १,२॥ श्रीपराशर उवाच मैत्रेय श्रूयतामयमनेकयज्वशूरवीरधीरभूपालालंकृतो ब्रह्मादिर्मानवो वंशः ॥३॥ तदस्य वंशस्यानुपूर्वामशेषपापप्रक्षालनाय […]

श्री विष्णुधर्मः अध्यायः 101-109

श्री विष्णुधर्मः अध्यायः 101-109 एकाधिकशततमोऽध्यायः पापक्षयः शतानीक उवाच आख्यातम् भगवन् सम्यक् परम् ब्रह्म त्वया मम | विष्णुरेव जगद्धाता योगिनाम् वर्तते यतः || १ || उपायस्तस्य यः प्राप्तो विष्णोरीशस्य भार्गव | अद्वैतद्वैतरूपस्य तन्मे विस्तरतो वद || २ || येन जन्मजरामृत्युमहाग्राहभवार्णवम् | त्वद्वाक्यनावमारुह्य मुक्तितीरमवाप्नुयाम् || ३ || तन्मम ब्रूहि तत्त्वेन प्राप्नुयाम् येन तत्पदम् | शौनक उवाच – […]

श्री विष्णुधर्मः अध्यायः 91-100

श्री विष्णुधर्मः अध्यायः 91-100 एकनवतिततमोऽध्यायः पुद्गलगाथा or घृतधेनुकल्पः वसिष्ठ उवाच – जलधेनुम् प्रवक्ष्यामि प्रीयते दत्तया यया | देवदेवो हृषीकेशः सर्वेशः सर्वभावनः || १ || जलकुम्भम् नरव्याघ्र सुवर्णरजतान्वितम् | रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः समन्वितम् || २ || सितवस्त्रयुगच्छन्नम् दूर्वापल्लवशोभितम् | कुष्ठ माम्सीमुशीरम् च वालकामलकैर्युतम् || ३ || कोष्ठचन्दनकौशीरैरेलकालवकैर्युतम् प्रियङ्गुपात्रसहितम् सितयज्ञोपवीतिनम् | सच्छत्त्रम् सौपानत्कम् दर्भविस्तरसम्स्थितम् || ४ || स्वधितम् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.