श्रीविष्णुपुराणम् Amsa 03 Ady 11

श्रीविष्णुपुराणम् एकादशोऽध्यायः      सगरः- गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने। लोकादस्मात्परस्माच्च यमातिष्ठन्न हीयते ॥ १ ॥      और्वः — श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् । सदाचारवता पुंसा जितौ लोकावुभावपि ॥ २ ॥ साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदाचारस्स उच्यते ॥ ३ ॥ सप्तर्षयोऽध मनवः प्रजानां पतयस्तथा । सदाचारस्य वक्तारः कर्तारश्च महीपते ॥ ४ ॥  ॥१-४॥ ब्राझे […]

श्रीविष्णुपुराणम् Amsa 03 Ady 10

श्रीविष्णुपुराणम् अथ दशमोऽध्यायः     सगरः – कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा । पुंसः क्रियामहं श्रोतमिच्छामि द्विजसत्तम ॥१॥ नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः॥२॥          कथितमिति ॥ पुसः क्रियां— षोडशसंस्काररूपाम् । गर्भाधानपुंसवनसीमन्तोन्नयन–         –विष्णुबलिजातकर्मनामकरणोपनिष्क्रमणान्नप्राशनचूडोपनयनवेदव्रतचतुष्टयसमावर्तनविवाहाः षोडशसंस्काराः ॥ १,२ ॥ और्वः — यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् । तदहं कथयिष्यामि शृणुष्वैकमना मम ॥३॥           यदेतदिति ॥ नित्यनैमित्तिकाश्रयमिति काम्यस्याप्युपलक्षणम् […]

श्रीविष्णुपुराणम् Amsa 02 Ady 16

श्रीविष्णुपुराणम् षोडशोऽध्यायः ब्राह्मण: – ऋभुर्वर्षसहस्रे तु समतीते नरेश्वर । निदाघज्ञानदानाय तदेव नगरं ययौ ॥१॥ नगरस्य बहिस्सोऽथ निदाघं ददृशे मुनिः । महाबलपरीवारे पुरं विशति पार्थिवे ॥२॥ दूरे स्थितं महामार्ग जनसम्मर्दवर्जकम् । क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम् ॥३॥ दृष्ट्वा निदाघं स ऋभुरुपगम्याभिवाद्य च । उवाच कस्मादेकान्ते स्थीयते भवता द्विज ॥४॥ निदाघः- भो विप्र जनसम्मर्दो महानेष नरेश्वरः । प्रविविक्षुः पुरं रम्यं तेनात्र […]

श्रीविष्णुपुराणम् Amsa 02 Ady 15

श्रीविष्णुपुराणम् पञ्चदशोऽध्यायः       श्रीपराशरः – इत्युक्ते मौनिनं भूयश्चिन्तयानं महीपतिम् । प्रत्युवाचाथ विप्रोऽसावद्वैतान्तर्गतां कथाम् ॥१॥       ब्राह्मणः- श्रूयतां नृपशार्दूल यद्गीतमृभुणा पुरा । अवबोध जनयता निदाघस्य महात्मनः ॥२॥ ऋभुर्नामाऽभवत्पुत्रो ब्रह्मणः परमेष्ठिनः । विज्ञाततत्त्वसद्भावो निसर्गादेव भूपते ॥३॥ तस्य शिष्यो निदाघोऽभूत्पुलस्त्यतनयः पुरा । प्रादादशेषविज्ञानं स तस्मै परया मुदा ॥४॥              इत्युक्त इति ॥ इत्युक्ते—एवमात्मनो वैषम्याभाव उक्ते । क्षुत्पिपासादिधर्मकत्वभ्रान्त्या आत्मनो […]

श्रीविष्णुपुराणम् Amsa 03 Ady 09

श्रीविष्णुपुराणम् नवमोऽध्यायः   और्व उवाच:- बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥१॥           शौचाचारवता तत्र कार्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥२॥            उमे संध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत्तथा कुर्याद्गुरोरप्यभिवादनम् ॥ ३॥           शौचाचारवतेति ॥ व्रतानि–प्राजापत्यादीनि मधुमांसादिवर्जनादीनि च । कृतबुद्धिना-अवहितबुद्धिना ॥ २-३॥ स्थिते तिष्ठेद्व्रजेद्याते नीचैरासीत चासति । शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं […]

श्रीविष्णुपुराणम् Amsa 03 Ady 08

श्रीविष्णुपुराणम् अष्टमोऽध्यायः मैत्रेयः- भगवन्भगवान्देवः संसारविजिगीषुभिः। समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥१॥ आराधिताच्च गोविन्दादाराधनपरैर्नरैः । यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥२॥ श्रीपराशर:- यत्पृच्छति भवानेतत्सगरेण महात्मना । और्वः प्राह यथा पृष्टस्तन्मे निगदतश्शृणु ॥३॥ सगरः प्रणिपत्यैनमौर्वं पप्रच्छ भार्गवम् । विष्णोराराधनोपायसंबन्धं मुनिसत्तम ॥ ४ ॥ फलं चाराधिते विष्णौ यत्पुंसामभिजायते । स चाह पृष्टो यत्तेन तस्मै तन्मेऽखिलं शृणु ॥ ५॥ और्व:- […]

श्रीविष्णुपुराणम् Amsa 03 Ady 07

श्रीविष्णुपुराणम् अथ सप्तमोऽध्यायः मैत्रेय:- यथावत्कथितं सर्वं यत्पृष्टोऽसि मया गुरो । श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥१॥ सप्त द्वीपानि पातालवीथयश्च महामुने । सप्तलोकाश्च येऽन्तस्था ब्रह्माण्डस्यास्य सर्वतः ॥२॥ स्थूलैस्सूक्ष्मैस्तथा सूक्ष्मसूक्ष्मैस्सूक्ष्मतरैस्तथा । स्थूलात्स्थूलतरैश्चैव सर्वं प्राणिभिरावृतम् ॥३॥ अङ्गुलस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥४॥ सर्वे चैते वशं यान्ति यमस्य भगवन् किल । आयुषोऽन्ते तथा यान्ति यातनास्तत्प्रचोदिताः […]

श्रीविष्णुपुराणम् Amsa 03 Ady 06

श्रीविष्णुपुराणम्प ष्ठोऽध्यायः      श्रीपराशरः- सामवेदतरोश्शाखा व्यासशिष्यस्स जैमिनिः । क्रमेण येन मेत्रेय बिभेद शृणु तं मम ॥१॥     सुमन्तुस्तस्य पुत्रोऽभूत्सुत्वा तस्याप्यभूत्सुतः । अधीतवन्तौ चैकैकां संहितां तौ महामती ॥२॥           सुमन्तुरिति ॥ तां जैमिनिसंहितां तत्पुत्रपौत्रावेकैकावयौगपद्येन स्वस्वपितुरधीतयन्तौ ॥२॥ सहस्रसंहिताभेदं सुकर्मा तत्सुतस्ततः । चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ ॥३॥                 सहस्रेति ॥ एवं सुत्वनः पुत्रः सुकर्माऽपि स्वपितुरधीत्य सहस्रं संहिताभेदं […]

श्रीविष्णुपुराणम् Amsa 03 Ady 05

श्रीविष्णुपुराणम् अथ पञ्चमोऽध्यायः      श्रीपराशर:- यजुर्वेदतरोश्शाखास्सप्तविंशन्महामुनिः। वैशंपायननामाऽसौ व्यासशिष्यश्चकार वै ॥१॥ शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात् ॥२॥ याज्ञवल्क्यस्तु तत्राभूद्ब्रह्मरातसुतो द्विज । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरस्सदा ॥३॥        यजुर्वेदतरोरिति ॥ सप्तविंशति यजुषः प्रधानशाखाः । ब्रह्माण्डोक्तः षडशीतिपक्षः तत्प्रतिशाखा- -विवक्षया। ताश्च काण्वादिशुक्लयजु पञ्चदशकं च संहत्येकशतमध्वर्युशाखाः आपस्तंबोक्तास्स्युः ॥१-३॥ ऋषिर्योऽद्य महामेरोः समाजे नागमिष्यति । तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति ॥४॥ पूर्वमेवं मुनिगणैस्समयो यः […]

श्रीविष्णुपुराणम् Amsa 03 Ady 04

श्रीविष्णुपुराणम् अथ चतुर्थोऽध्यायः श्रीपराशर:- आद्यो वेदश्चतुष्पादः शतसाहस्रसम्मितः । ततो दशगुणः कृत्स्नो यज्ञोऽयं सर्वकामधुक् ॥१॥       आद्य इति ॥ आद्य: सर्गादौ चतुर्मुखेनाविभक्तः पठितः । चतुष्पादः ऋगादिरूपेण। शतसाहस्रेति अनन्तशाखासमुदायरूपः । ततः–तस्माद्दशगुणो यज्ञः प्रावर्तत । दशगुणो-दशविधः, स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धः सोम इति। तथा *पञ्च वा एते महायज्ञाः, इत्युपक्रम्य * देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः इति […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.