श्री कैशिकपुराणं
श्री: श्रीमते रामानुजाय नमः । श्री कैशिकपुराणं शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् | प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये || यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् | विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये || एतत् त्रैलोक्य निर्माण त्राण संहार कारणम् | श्रीमत् श्रीरङ्गनाथस्य शासनं शाश्वतं परम् || श्रीमत् श्रीरङ्गनायक्याः श्रियस्त्रैलोक्यमङ्गलम् | परावरेस्वश्वर शिरः चूडासञ्चारि शासनम् || रामानुज दयापात्रं ज्ञानवैराग्य भूषणम् | श्रीमद्वेङ्कटनाथार्य […]