12 द्वादशस्कन्धः-अध्यायः 01-13
श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ द्वादशस्कन्धः ॥ ॥ प्रथमोऽध्यायः – १ ॥ राजोवाच स्वधामानुगते कृष्णे यदुवंशविभूषणे । कस्य वंशोऽभवत्पृथ्व्यामेतदाचक्ष्व मे मुने ॥ १॥ श्रीशुक उवाच योऽन्त्यः पुरञ्जयो नाम भाव्यो बार्हद्रथो नृप । तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम् ॥ २॥ प्रद्योतसंज्ञं राजानं कर्ता यत्पालकः सुतः । विशाखयूपस्तत्पुत्रो भविता राजकस्ततः ॥ ३॥ नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना […]
11 एकादशस्कन्धः-अध्यायः 16-31
श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ एकादशस्कन्धः ॥ ॥ षोडशोऽध्यायः – १६ ॥ उद्धव उवाच त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् । सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः ॥ १॥ उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः । उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ २॥ येषु येषु च भावेषु भक्त्या त्वां परमर्षयः । उपासीनाः प्रपद्यन्ते संसिद्धिं तद्वदस्व मे ॥ ३॥ गूढश्चरसि भूतात्मा […]
11 एकादशस्कन्धः-अध्यायः 01-15
श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ एकादशस्कन्धः ॥ ॥ प्रथमोऽध्यायः – १ ॥ श्रीबादरायणिरुवाच कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः । भुवोऽवतारयद्भारं जविष्ठं जनयन् कलिम् ॥ १॥ ये कोपिताः सुबहुपाण्डुसुताः सपत्नै- र्दुर्द्यूतहेलनकचग्रहणादिभिस्तान् । कृत्वा निमित्तमितरेतरतः समेतान् हत्वा नृपान् निरहरत्क्षितिभारमीशः ॥ २॥ भूभारराजपृतना यदुभिर्निरस्य गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः । मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं यद्यादवं कुलमहो अविषह्यमास्ते ॥ […]
10 दशमस्कन्धः उत्तरार्धं-अध्यायः 71-90
श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ दशमस्कन्धः उत्तरार्धं ॥ ॥ एकसप्ततितमोऽध्यायः – ७१ ॥ श्रीशुक उवाच इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत् । सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः ॥ १॥ उद्धव उवाच यदुक्तमृषिणा देव साचिव्यं यक्ष्यतस्त्वया । कार्यं पैतृष्वसेयस्य रक्षा च शरणैषिणाम् ॥ २॥ यष्टव्यं राजसूयेन दिक्चक्रजयिना विभो । अतो जरासुतजय उभयार्थो मतो मम ॥ ३॥ अस्माकं […]
10 दशमस्कन्धः उत्तरार्धं-अध्यायः 01-70
श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ दशमस्कन्धः उत्तरार्धं ॥ ॥ पञ्चाशत्तमोऽध्यायः – ५० ॥ श्रीशुक उवाच अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ । मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान् ॥ १॥ पित्रे मगधराजाय जरासन्धाय दुःखिते । वेदयाञ्चक्रतुः सर्वमात्मवैधव्यकारणम् ॥ २॥ स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप । अयादवीं महीं कर्तुं चक्रे परममुद्यमम् ॥ ३॥ अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि […]
10 दशमस्कन्धः पूर्वार्धं-अध्यायः 35-49
श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ दशमस्कन्धः पूर्वार्धं ॥(Continued) ॥ पञ्चत्रिंशोऽध्यायः – ३५ ॥ श्रीशुक उवाच गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः । कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १॥ गोप्य ऊचुः वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम् । कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः ॥ २॥ व्योमयानवनिताः सहसिद्धै- र्विस्मितास्तदुपधार्य सलज्जाः । काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ॥ ३॥ हन्त चित्रमबलाः शृणुतेदं […]
10 दशमस्कन्धः पूर्वार्धं-अध्यायः 15-34
श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ दशमस्कन्धः पूर्वार्धं ॥(Continued) ॥ पञ्चदशोऽध्यायः – १५ ॥ श्रीशुक उवाच ततश्च पौगण्डवयः श्रितौ व्रजे बभूवतुस्तौ पशुपालसम्मतौ । गाश्चारयन्तौ सखिभिः समं पदैः वृन्दावनं पुण्यमतीव चक्रतुः ॥ १॥ तन्माधवो वेणुमुदीरयन् वृतो गोपैर्गृणद्भिः स्वयशो बलान्वितः । पशून् पुरस्कृत्य पशव्यमाविश- द्विहर्तुकामः कुसुमाकरं वनम् ॥ २॥ तन्मञ्जुघोषालिमृगद्विजाकुलं महन्मनःप्रख्यपयःसरस्वता । वातेन जुष्टं शतपत्रगन्धिना […]
10 दशमस्कन्धः पूर्वार्धं-अध्यायः 01-14
श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ दशमस्कन्धः पूर्वार्धं ॥ ॥ प्रथमोऽध्यायः – १ ॥ राजोवाच कथितो वंशविस्तारो भवता सोमसूर्ययोः । राज्ञां चोभयवंश्यानां चरितं परमाद्भुतम् ॥ १॥ यदोश्च धर्मशीलस्य नितरां मुनिसत्तम । तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस नः ॥ २॥ अवतीर्य यदोर्वंशे भगवान् भूतभावनः । कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ ३॥ निवृत्ततर्षैरुपगीयमाना- द्भवौषधाच्छ्रोत्रमनोभिरामात् […]
09 नवमस्कन्धः-अध्यायः 01-24
श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ नवमस्कन्धः ॥ ॥ प्रथमोऽध्यायः – १ ॥ राजोवाच मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे । वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ १॥ योऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वरः । ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २॥ स वै विवस्वतः पुत्रो मनुरासीदिति श्रुतम् । त्वत्तस्तस्य सुताश्चोक्ता इक्ष्वाकुप्रमुखा नृपाः ॥ ३॥ तेषां वंशं पृथग्ब्रह्मन् […]
08 अष्टमस्कन्धः-अध्यायः 01-24
श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ अष्टमस्कन्धः ॥ ॥ प्रथमोऽध्यायः – १ ॥ राजोवाच स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः । यत्र विश्वसृजां सर्गो मनूनन्यान् वदस्व नः ॥ १॥ यत्र यत्र हरेर्जन्म कर्माणि च महीयसः । गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् ॥ २॥ यद्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः । कृतवान् कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा ॥ […]