श्रीविष्णुपुराणम् Amsa 06 Ady 06-08

श्रीविष्णुपुराणम् अथ षष्ठांशे षष्ठोऽध्यायः श्रीपराशर उवाच स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते ॥ १ ॥ एवं तावदुपास्यभूतं भगवत्स्वरूपमुक्तम् । इदानीमुपासनपर्यायं सांगोपाङ्गं वक्तुमारभते-स्वाध्यायेति ॥ स्वाध्यायशब्देन वेदान्तद्वादशाक्षरप्रणवादीनां तत्त्वपराणां मीमांसासहितानां वाक्यानां निर्देशः । स इत्युक्तगुण-विभूतिविग्रहादिविशिष्टः पुरुषोत्तमः परामृश्यते । स्वाध्यायसंयमजनितं ब्रह्मविषयत्वाब्रह्मशब्द वाच्यम्, तदेतज्ज्ञानं न केवलं दर्शनसाधनम, अपि तु प्राप्तिसाधनं चोच्यते इत्याह-तत्प्राप्तीति । तत्प्राप्तिकारणं तदेतज्ज्ञानं ब्रह्मेति पठ्यत […]

श्रीविष्णुपुराणम् Amsa 06 Ady 01-05

श्रीविष्णुपुराणम् श्रीमते रामानुजाय नमः अथ षष्ठांशे प्रथमोऽध्यायः मैत्रेय उवाच व्याख्याता भवता सर्गवंशमन्वन्तरस्थितिः । वंशानुचरितं चैव विस्तरेण महामुने ॥ १ ॥ व्याख्यातेति ॥ प्रथमांशे सर्ग उक्तः । द्वितीयादिषु वंशमन्वन्तरवंशानुचरितरूपा स्थितिरुक्ता ॥ १ ॥ श्रोतुमिच्छाम्यहं त्वत्तो यथावदुपसंहृतिम् । महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥ २ ॥ श्रोतुमिति ॥ अथ कल्पान्ते उपसंहृति-महाप्रलयसंज्ञामुपसंहृतिं च श्रोतुमिच्छामि ॥ २ ॥ श्रीपराशर […]

श्रीविष्णुपुराणम् Amsa 05 Ady 31-38

श्रीविष्णुपुराणम् अथ पञ्चमांशे एकत्रिंशोऽध्यायः श्रीपराशर उवाच संस्तुतो भगवानित्थं देवराजेन केशवः । प्रहस्य भावगंभीरमुवाचेन्द्रं द्विजोत्तम ॥ १ ॥ संस्तुत इति । भावगंभीरं – सूचितार्थगहनम् ॥ १ ॥ श्रीकृष्ण उवाच देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते । क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ २ ॥ पारिजाततरुश्चायं नीयतामुचितास्पदम् । गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ ३ ॥ देवराज इति ॥ अपराधकृतं […]

श्रीविष्णुपुराणम् Amsa 05 Ady 21-30

श्रीविष्णुपुराणम् अथ पञ्चमांशे एकविंशोऽध्यायः श्रीपराशर उवाच तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् । देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः । मोहाय यदुचक्रस्य विततान स वैष्णवीम् ॥ १ ॥ ताविति ॥ मायां– योगमायाम् ॥ १ ॥ उवाच चांब हे तात चिरादुत्कण्ठितेन मे । भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ॥ २ ॥ कुर्वतां याति यः कालो मातापित्रोरपूजनम् । तत्खण्डमायुषो व्यर्थमसाधूनां हि […]

श्रीविष्णुपुराणम् Amsa 05 Ady 11-20

श्रीविष्णुपुराणम् अथ पञ्चमांशे एकादशोऽध्यायः श्रीपराशर उवाच मखे प्रतिहते शक्रो मैत्रेयातिरुषाऽन्वितः । संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ १ ॥ भोभो मेधा निशम्यैतद्वचनं गदतो मम । आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ २ ॥ ॥ १,२ ॥ नन्दगोपस्सुदुर्बुद्धिर्गोपैरन्यैः सहायवान् । कृष्णाश्रयबलाध्मातो मखभङ्गमचीकरत् ॥ ३ ॥ नन्दगोप इति ॥ आध्मातः – उपबृंहितः ॥ ३ ॥ आजीवो याः परस्तेषां गावस्तस्य च कारणम् […]

श्रीविष्णुपुराणम् Amsa 05 Ady 01-10

।। श्रीमते रामानुजाय नमः ।। श्रीविष्णुपुराणम् अथ पञ्चमांशे प्रथमोऽध्यायः मैत्रेय उवाच नृपाणां कथितःसर्वो भवता वंशविस्तरः । वंशानुचरितं चैव यथावदनुवर्णितम् ।। १ ।। नृपाणामिति ॥ उक्तश्चतुथेंशे लोकज्ञापकधर्मप्रवर्तकः क्षत्रवंशः ॥ १ ॥ अंशावतारो ब्रह्मर्षे योऽयं यदुकुलोद्भवः । विष्णोस्तं विस्तरेणाहं श्रोतुमिच्छामि तत्त्वतः ॥ २ ॥ अंशावतार इति ॥ विष्णोः  –  व्यापकस्य नारायणस्य, अन्तर्वहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इति […]

श्रीविष्णुपुराणम् Amsa 04 Ady 11-24

श्रीविष्णुपुराणम् चतुर्थांशे एकादशोऽध्यायः श्रीपराशर उवाच अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि  ॥ १ ॥ ।। १ ॥ यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरोरगविहगदैत्यदानवादित्यरुद्रवस्वश्विमरुद्देवर्षिभिर्मुमुक्षुभिर्धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार  ॥ २ ॥ अत्र श्लोकः  ॥ ३ ॥ यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते  । यत्रावतीर्णं कृष्णाख्यं परं ब्रह्मनराकृति  ॥ ४ ॥ सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चात्वारो यदुपुत्रा बभुवुः  ॥ ५ ॥ सहस्रजित्पुत्रश्शतजित् ॥ ६ ॥ तस्य […]

श्रीविष्णुपुराणम् Amsa 04 Ady 01-10

श्रीमते रामानुजाय नमः श्रीविष्णुपुराणम् चतुर्थांऽशेप्रथमोऽ ध्यायः श्रीमैत्रेय उवाच भगवन्यन्नरैः कार्यं साधुकर्मण्यवस्थितैः । तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ॥१॥ वर्णधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च । श्रोतुमिच्छाम्यहं वंशं राज्ञां तद् ब्रूहि मे गुरो ॥२॥ तृतीयेंऽशे भगवतस्थितिहेतुभूत मन्वादिरूप मेदानामधिकारमेद उक्तः । विशेषतश्व जगतः स्थितिहेतु-र्वर्णाश्रमधर्मः सदाचारचोक्तः। चतुर्थेशे तु तत्स्थापकधार्मिकसोमसूर्योद्भवक्षत्रवंशस्तदनुचरितं चोच्यते ॥ १,२॥ श्रीपराशर उवाच मैत्रेय श्रूयतामयमनेकयज्वशूरवीरधीरभूपालालंकृतो ब्रह्मादिर्मानवो वंशः ॥३॥ तदस्य वंशस्यानुपूर्वामशेषपापप्रक्षालनाय […]

श्रीविष्णुपुराणम् Amsa 03 Ady 18

श्रीविष्णुपुराणम् अथाष्टादशोऽध्यायः     श्रीपराशरः – तपस्यभिरतान्सोऽथ मायामोहो महासुरान् । मैत्रेय ददृशे गत्वा नर्मदातीरसंश्रितान् ॥ १॥ ततो दिगंबरो मुण्डो बर्हिपिच्छधरो द्विज । मायामोहोऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत् ॥ २॥     मायामोहः- हे दैत्यपतयो ब्रूत यदर्थं तप्यते तपः । ऐहिकार्थं नु पारत्र्यं तपसः फलमिच्छथ ॥ ३ ॥     असुरा:– पारत्र्यफललाभाय तपश्चर्या महामते । अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥ […]

श्रीविष्णुपुराणम् Amsa 03 Ady 17

श्रीविष्णुपुराणम् सप्तदशोऽध्यायः श्रीपराशर: – इत्याह भगवनौर्वस्सगराय महात्मने । सदाचारं पुरा सम्यङ् मैत्रेय परिपृच्छते ॥ १ ॥ मयाऽप्येतदशेषेण कथितं भवतो द्विज । समुल्लङ्घ्य सदाचारं कश्चिन्नाप्नोति शोभनम् ॥ २ ॥    मैत्रेयः-       षण्डापविद्धप्रमुखा (कथिता भगवंस्त्वया) विदिता भगवन्मया । उदक्याद्याश्च मे सम्यडू नग्नमिच्छामि वेदितुम् ॥ ३ ॥ को नमः किंसमाचारो नग्नसंज्ञां नरो लभेत् । नग्नस्वरूपमिच्छामि यथावत्कथितं त्वया ।  […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.