श्रीविष्णुपुराणम् Amsa 01 Ady 04

श्रीविष्णुपुराणम् अथचतुर्थोsध्यायः। मैत्रेयः— ब्रह्मानारायणाख्योऽसौकल्पादौभगवान्यथा।ससर्जसर्वभूतानितदाचक्ष्वमहामुने॥१॥ श्रीपराशर:– प्रजाःससर्जभगवान्ब्रह्मानारायणात्मकः।प्रजापतिपतिर्देवोयथातन्मेनिशामय॥२॥ अतीतकल्पावसानेनिशासुप्तोत्थितःप्रभुः।सत्त्वोद्रिक्तस्तदाब्रह्माशून्यंलोकमवैक्षत॥३॥ नारायणःपरोऽचिन्त्यःपरेषामपिसप्रभुः।ब्रह्मस्वरूपीभगवाननादिःसर्वसंभवः॥४॥ अथपाद्मकल्पकथाविषयाद्ब्रह्मप्रोक्तात्पाद्मपुराणादनन्तरंवाराहकल्पवृत्तान्तविषयमिदंवैष्णवंपुराणमितिदर्शयितुंप्राक्परार्द्धप्राप्तंपाद्मंकल्पमनूद्यवराहकल्पवृत्तान्तंप्रस्तौति-अतीतकल्पेति।तथोक्तंमात्स्ये*एतदेवचवैब्राह्मंपाद्मेकल्पेजगद्धितम्।सर्वभूतात्मकंयत्तत्पाद्ममित्युच्यतेबुधैः।वाराहकल्पवृत्तान्तधिकृत्यपराशरः।*   यान्प्राहधर्मानखिलांस्तदुक्तंवैष्णवंविदुः॥इति।सत्वोद्रिक्तः–भगवदनुप्रवेशातिशयात्| तस्यैववराहाद्यवतारप्रसिद्धेः॥१-४॥ इमंचोदाहरन्त्यत्रश्लोकंनारायणंप्रति।ब्रह्मस्वरूपिणंदेवंजगतःप्रभवाप्ययम्॥५॥ अत्रब्रह्मनारायणयोःस्वरूपैक्यशङ्कायांमन्वादयस्तयोर्भेदपरंनारायणविषयंश्लोकमुदाहरन्तीत्याह–इमंचेति॥५॥ आपोनाराइतिप्रोक्ताआपोवैनरसूनवः।अयनंतस्यताःपूर्वंतेननारायणःस्मृतः॥६॥ तमेवश्लोकंदर्शयतिआपइति॥ * प्रादुरासीत्तमोनुदः * इतिप्रकृतेःपरमकारणभूतोभगवानविनाशित्वेननरइत्युच्यते।तत्सृष्टाआपोनाराः।अप्छब्दःसृज्यतत्त्वान्तरप्रदर्शनपरः *नराज्जातानितत्त्वानिनाराणीतिततोविदुः।तान्येवचायनंतस्यतेननारायणःस्मृतः॥इत्यादिदर्शनात्।अस्यायनम्-अनुप्रविष्टस्यशरीरम्।*यदम्बुवैष्णवःकायः * इतिवक्ष्यति।पूर्वं–ब्रह्मसृष्टेःप्राकू।कारणभूतेभगवतिनारायणशब्दनिर्वचनात्तस्यकार्यभूताब्रह्मणोमेदइतिभावः॥६॥   तोयान्तस्स्थांमहींज्ञात्वाजगत्येकार्णवीकृते।अनुमानात्तदुद्धारंकर्तुकामःप्रजापतिः॥७॥ अकरोत्स्वतनूमन्यांकल्पादिषुयथापुरा।मत्स्यकूर्मादिकांंतद्वद्वाराहंवपुरास्थितः॥८॥ तोयान्तामिति।तोयान्तांसमहीमितिपाठान्तरम्।तोयेनान्तोनाशोयस्यास्ताम्।अनुमानात्-     * सोऽपश्यत्पुष्करपर्णमितिपुष्करपर्णलिङ्गदर्शनात्ज्ञात्वा, नारायणमूर्तरन्यांमत्स्यकूर्मादिकांस्वतनुंयथापुराsकरोत्तथावाराहरूपमास्थितस्तोयंप्रविवेशेत्यन्वयः॥७, ८॥ वेदयज्ञमयंरूपमशेषजगतःस्थितौ।स्थितःस्थिरात्मासर्वात्मापरमात्माप्रजापतिः।।९।। वेदेति॥वेदयज्ञमयंरूपं–वेदयज्ञमयत्वेननिरूपणीयम्; वेदवैदिकधर्मैर्भूर्धार्यतइतिभावः।स्थितौस्थितः –स्थितिनिमित्तमास्थितः, स्थिरात्मा-रक्षणेस्थिरचित्तः॥९॥ जनलोकगतैस्सिद्धैस्सनकाद्यैरभिष्टुतः।प्रविवेशतदातोयमात्माधारोधराधरः॥१०॥ जनलोकेति॥अमिष्टुतः–सृष्ट्यर्थमुद्बोधितमहिमा; स्तूयमानाहिदेवतावीर्येणवर्द्धतेइतिन्यायात्॥१०॥   निरीक्ष्यतदादेवीपातालतलमागतम्।तुष्टावप्रणताभूत्वाभक्तिनम्रावसुन्धरा॥११॥ श्रीपृथिव्युवाच नमस्तेपुण्डरीकाक्षशङ्खचक्रगदाधार।मामुद्धरास्मादद्यत्वंत्वत्तोऽहंपूर्वमुत्थिता॥१२॥ नमइति॥मामुद्धरअस्मात्-प्रलयाब्धेः।त्वत्तउत्थिता-उत्पन्ना॥१२॥   त्वयाऽहमुद्धृतापूर्वंत्वन्मयाऽहंजनार्दन।तथाऽन्यानिचभूतानिगगनादीन्यशेषतः॥१३॥ त्वयेति॥त्वन्मया-त्वन्मयीत्वदुपादाना॥१३॥ नमस्तेपरमात्मात्मन्पुरुषात्मन्नमोऽस्तुते।प्रधानन्यक्तभूतायकालभुतायतेनमः॥१४॥ नमइति॥परमात्मात्मन्-पुरुषादिचतूरूपविलक्षणस्वरूप !अप्ययेअनिरुद्धादयःपुरुषाच्युतसत्य- –वासुदेवाख्याः॥१४॥ त्वंकर्तासर्वभूतानांत्वंपातात्वंविनाशकृत्।संगदिषुप्रभोब्रह्मविष्णुरुद्रात्मरूपधृक्॥१५॥ त्वमिति।।ब्रह्मेत्यादि—ब्रह्मविष्णुरुद्ररूपधर !॥१५॥ संभक्षयित्वासकलंजगत्येकार्णवीकृते।शेषेत्वमेवगोविंदचिन्त्यमानोमनीषिभिः॥१६॥ भवतोयत्परं […]

श्रीविष्णुपुराणम् Amsa 01 Ady 03

श्रीविष्णुपुराणम् अथतृतीयोऽध्यायः मैत्रेयः— निर्गुणस्याप्रमेयस्यशुद्धस्याप्यमलात्मनः।कथंसर्गादिकर्तृत्वंब्रह्मणोऽभ्युपगम्यते॥१॥ लोकेरागद्वेषसत्त्वादिगुणकस्यशरीरिणःपरिच्छिन्नस्यकर्मवश्यस्यतत्संबन्धार्हस्यैवकुलालादेःकर्तृत्वंदृष्टम्।ब्रह्मणस्तद्विलक्षणस्यकथंजगत्सर्गादिकर्तृत्वमिहोच्यतेइतिचोदयति-निर्गुणस्येति॥१॥ . श्रीपराशरः— शक्तयःसर्वभावानामचिन्त्यज्ञानगोचराः।यतोऽतोब्रह्मणस्तास्तुसर्गाद्याभावशक्तयः।भवन्तितपतांश्रेष्ठपावकस्ययथोष्णता॥२॥ परिहरति-शक्तयइत्यादिसार्द्धश्लोकेन।शक्तयइति॥सर्वपदार्थानांवह्नेरौष्ण्यमिवस्वाभाविक्यः , शक्तयःतर्केरचिन्त्याःस्वसाधकप्रमाणगोचराःसन्ति।अतोब्रह्मणोऽपि*पराऽस्यशक्तिर्विविधैवश्रूयतेस्वाभाविकीज्ञानबलक्रियाच *इत्यादिश्रुतिप्रसिद्धाःजगत्सर्गादिनिमित्तभूताःभावशक्तयः-स्वाभाविकसामर्थ्यानिसन्ति।अतोलौकिककर्तृवैलक्षण्येsपिसर्गादिकर्तृत्वंयुक्तम्।सर्गाद्याइति।सृज्यतेऽनयेतिसर्गः। * अकर्त्तरिचकारके *इतिकरणेघञ्प्रत्ययः।सृष्ट्यादिकरणभूताइत्यर्थः।तपतांश्रेष्ठइतिसंबुद्धिः।अत्रब्रह्मणोऽशरीरत्व- -मभ्युपगम्यशक्तिमत्वात्कर्तृत्वमुक्तम्।परमार्थतस्तुदिव्यमंगलविग्रहवत्वमस्त्येव।यद्वालोकेसत्त्वादिगुणकं’ परिच्छिन्नंचमृदाद्युपादानंदृष्टम्।देहादियुक्तोरागादिनामलिनश्चकुलालादिर्निमित्तम्; ब्रह्मणस्तुतद्वैलक्षण्यात्कथमुपादानत्वंनिमित्तत्वंचेतिचोद्यम्।उत्तरंतुलोकेनायंनियमः।द्रव्यलक्षणेहिनिर्गुणमेवाचिद्द्रव्यंगुणानामुपादानंदृष्टम्।अपरिच्छिन्नएवाकाशादिःशब्दादेः, अशरीरएवात्मास्वशरीरप्रेरणेनिमित्तंदृष्टः।रागादिरहितएवस्खलनादौ, अयत्नएवायस्कान्तादिर्लोहभ्रमणादौहेतुर्दृष्टइत्येवंत्वदुक्तव्याप्तिभंगइत्यभिप्रायः॥सर्वभावानांस्वकार्योत्पादनशक्तयःस्वप्रमाणसिद्धत्वादन्यानन्यत्वादिविकल्पैरविचारणीयाःसन्ति।यथाग्नेर्दोहकत्वशक्तिः।एवंब्रह्मणोजगत्सर्गादिहेतवःस्वाभाविक्यःशक्तयःसन्तीति।यथाहुः–* नचपर्यनुयोगोऽस्ति।वस्तुशक्तेःकथञ्चन।अग्निर्दहतिनाकाशंकाऽत्रपर्यनुयुज्यता॥ * आर्षंधर्मोपदेशंचवेदशास्त्राविरोधिना।यस्तर्केणानुसन्धत्तेसधर्मंवेदनेतरः॥इत्यादि॥२॥ तन्निबोधयथासर्गेभगवान्सम्प्रबर्तते।नारायणाख्योभगवान्ब्रह्मालोकपितामहः॥३॥ तन्निबोधेति।।नारायणाख्यःसृष्टौनारायणोलोकपितामहोब्रह्मा-ब्रह्मरूपेण॥३॥ उत्पन्नःप्रोच्यतेविद्वन्नित्यमेवोपचारतः॥४॥ उत्पन्नइति॥उत्पन्नइत्युपचारेणोच्यते।सतुनित्यएव|. अत्रनारायणत्वंहेतुः।स्वेच्छयैवसर्वात्मकत्वरूपत्वात्तस्य।कर्माधीनशरीरपरिग्रहोहिमुख्योत्पत्तिः।यद्वारात्रौनारायणेप्रवेशेननारायणाख्योब्रह्माप्रतिकल्पमुत्पन्नइत्युपचारतउच्यते।द्विपरार्धकालस्थायित्वेननित्यत्वात्तस्यस्वेच्छागृहीतशरीरस्यापिकादाचित्कत्वसाम्यादुत्पन्नत्वोपचारः।रात्रौनारयणत्वंब्रह्मणःकौमेंउक्तम्, * ततोऽवतीर्यविश्वात्मादेहमाश्रित्य चक्रिणः।अवापवैष्णवींनिद्रामेकीभूयाथविष्णुना॥इति॥४॥ निजेनतस्यमानेनआयुर्वर्षशतंस्मृतम्।तत्पराख्यंतदर्धंचपरार्द्धमभिधीयते।।५।। निजेनेति।निजेन-ब्राह्मेणमानेन-कालपरिमाणेन।सर्वसंसार्यायुषोऽधिकत्वात्तस्यायुःपरमित्युच्यते॥५॥   कालस्वरूपंविष्णोश्चयन्मयोक्तंतवानघ।तेनतस्यनिबोधत्वंपरिमाणोपपादनम्॥६॥ कालेत्यादि।तेन–कालेन, तस्य–ब्रह्मणः, परिणामोपपादनं-नाशरूपस्यपरिणामस्योपपादनं–निर्वर्तनंनिबोध।परिमाणोपपादनमितिंपाठेब्रह्मादीनांजीवनेइयत्ताक्लृप्तिः॥६॥   अन्येषांचैवजन्तूनांचराणामचराश्चये।भूभुभ्रत्सागरादीनामशेषाणांचसत्तम।।७॥ अन्येषामिति॥अन्येषापरिणामोपपादनमितिशेषः॥७॥ काष्ठापञ्चदशाख्यातानिमेषामुनिसत्तम।काष्ठात्रिंशत्रुलात्रिंशत्कला. मौहूत्तिकोविधिः॥८॥ कालस्वरूपमाह-काष्ठेत्यादिना।।काष्ठेति।मौहूर्त्तिकोविधिः-मुहूर्त्तप्रकारः॥८॥ तावत्संख्यैरहोरात्रंमुहूर्तैर्मानुषंस्मृतम्।अहोरात्राणितावन्तिमासःपक्षद्वयात्मकः॥९॥ तैःषड्भिरयनंवर्षंद्वेऽयनेदक्षिणोत्तरे।अयनंदक्षिणंरात्रिर्देवानामुत्तरंदिनम्॥१०॥ दिव्यैर्वर्षसहस्रैस्तुकृतत्रेतादिसंज्ञितम्।चतुर्युगंद्वादशभिस्तद्विभागंनिबोधमे॥११॥ चत्वारित्रीणिद्वेचैकंकृतादिषुयथाक्रमम्।दिव्याब्दानांसहस्राणियुगेष्वाहुःपुराविदः॥१२॥ तत्प्रमाणैःशतैःसन्ध्यापूर्वातंत्राभिधीयते।सन्ध्यांशश्चैवतत्तुल्योयुगस्यानन्तरोहिसः॥१३॥ सन्ध्यासन्ध्यांशयोरन्तर्यःकालोमुनिसत्तम।युगाख्यःसतुविज्ञेयःकृतत्रेतादिसंज्ञितः॥१४॥ कृतंत्रेताद्वापरश्चकलिश्चैवचतुर्युगम्।प्रोच्यतेतत्सहस्रंचब्रह्मणोदिवसंमुने॥१५॥ ब्रह्मणोदिवसेब्रह्मन्मनवस्तुचतुर्दश।भवन्तिपरिणामंचतेषांकालकृतंशृणु॥१६॥ सप्तर्षयःसुराःशक्रोमनुस्तत्सूनवोनृपाः।एककालेहिसृज्यन्तेसंह्रियन्तेचपूर्ववत्॥१७॥ तावदिति॥यद्यपित्रिशन्मुहूर्ता: सावनोऽहोरात्र:,शुक्लकृष्णद्विपक्षात्मकश्चान्द्रोमासः, […]

श्रीविष्णुपुराणम् Amsa 01 Ady 02

श्रीविष्णुपुराणम् अथद्वितीयोध्यायः श्रीपराशरउवाच— अविकारायशुद्धायनित्यायपरमात्मने।सदैकरूपरूपायविष्णवेसर्वजिष्णवे॥१॥ तदेवंसंक्षेपतउक्तानांप्रतिवचनानांविवरणतयाऽवतार्यमाणस्यपुराणस्यारम्भमविकारयेत्यादिभि– -(स्सप्तभि)र्नवभिःश्लोकैःपुराणप्रतिपाद्यस्वाभिमतदेवतानमस्कारपूर्वकंप्रतिजानीते।तत्रकारणत्वाभिधानतःप्रसक्तंविकारित्वंनिरस्यति-अविकारायेति।अनेनाचेतनाद्व्यावृत्तिः।* नजायतेम्रियतेइत्यादिश्रुतेःक्षेत्रज्ञस्यापिसमानमविकारित्वमितितद्व्यावृत्तिमाह-शुद्धायेति।शुद्धिः–क्लेशकर्मादिराहित्यम्; * अशुद्धास्तेसमस्तास्त्वितिहिवक्ष्यति।ईदृशीशुद्धिर्मुक्तस्याप्यस्तीतितद्व्यावृत्तिमाह–नित्यायेति।शुद्धत्वाकारेणनित्याय।अविकारित्वशुद्धत्वनित्यशुद्धत्वादीनिनित्यसूरीणामपिसाधारणानीत्यतआह–परमात्मनइति।परोयस्मान्नास्तिसपरमः, अपराधीनः;नियन्तृतयासर्वस्यव्यापनादात्मा; नित्यसूरयस्तेनपरवन्तः।अतःपदचतुष्टयेनप्रधानाद्यचेतनब्रह्मसनकादिभावनायुक्तक्षेत्रज्ञमुक्तनित्यसूरिभ्योव्यावृत्तंपरमस्वरूपंशोधितम्।अथज्ञानशक्त्यादिवदसाधारणंतद्वदेवसर्वविलक्षणंस्वानुरूपंज्योतिर्मयम् * आदित्यवर्णम् *हिरण्मयःपुरुषोदृश्यते *विद्युत: पुरुषादधि* इतिउपनिषत्सिद्धंस्वरूपमाह–सदैकरूपरूपायेति।प्रथमोरूपशब्दःस्वभाववाची।अथवासदैकरूप-तुल्यप्रकारं, हेयप्रत्यनीकतयाकल्याणैकतानतयाचस्वरूपतुल्यम्।द्वितीयोरूपशब्दोविग्रहवाची।अथसर्वव्याप्तिलक्षणमैश्वरंगुणंख्यापयन्विशेष्यंनिर्दिशति-विष्णवइति।चिदचिद्व्याप्त्याप्रसक्तंदोषंपरिहरतिसर्वजिष्णवइति।जयोहिपरस्यस्ववशेस्थापनम्।ताच्छील्यप्रत्ययेनव्याप्तिजयौस्वाभाविकावितिदर्शयति॥१॥ नमोहिरण्यगर्भायहरयेशङ्र्करायच।वासुदेवायतारायसर्गस्थित्यन्तकारिणे॥२॥ ब्रह्मशिवयोस्तद्विभूतित्वमाह-नमोहिरण्यगर्भायेति॥स्वावतारचतुर्मुखरुद्ररूपेणहिसृष्ट्यादिकर्तृत्वम्।ताराय-संसारोत्तारकाय, मोक्षप्रदाय॥वासुदेवाय-वासुदेवरूपेणमोक्षप्रदत्वम्।हरिशब्देसत्यपिवासुदेवशब्दोहरेरवतारत्वज्ञापनार्थः। *तमेवविदित्वाऽतिमृत्युमेतिनान्यःपन्थाविद्यतेऽयनाय, * मामेवयेप्रपद्यन्तेमायामेतांतरन्तिते, * संसारपारंपरमीप्समानैराराधनीयोहरिरेकएव, * ब्रह्माणंशितिकण्ठंचयाश्चान्यादेवताःस्मृताः।प्रतिबुद्धानसेवन्तेयस्मात्परिमितंफलम्।। * अन्तवत्तुफलंतेषाम्* इत्यादिभिर्भगवतएवमोक्षप्रदत्वमुक्तम्।अत्रहिरण्यगर्भादिवद्धरेर्नविभूतित्वम्, * नहिपालनसामर्थ्यमृतेसर्वेश्वरंहरिम् * इत्यादिनातस्यसर्वेश्वरत्वस्योक्तत्वात्॥२॥ एकानेकखरूपायस्थूलसूक्ष्मात्मनेनमः।अव्यक्तव्यक्तरूपायविष्णवेमुक्तिहेतवे॥३॥ अव्यक्तव्यक्तयोरपितद्रूपत्वमाहएकानेकेति॥एकानेकस्वरूपाय–कारणदशायामेकसूक्ष्माव्यक्तत्वादीनि, कार्यदशायामनेकस्थूलव्यक्तत्वादीनिविष्णवेतद्व्यापिने।उभयावस्थप्रकृतेःमुक्तिहेतवे–स्ववशवर्तित्वात् — तन्मुक्तिहेतवे॥३॥ सर्गस्थितिविनाशानांजगतोयोजगन्मयः।मूलभुतोनमस्तस्मैविष्णवेपरमात्मने॥४॥ अचित्प्रसङ्गात्कालरूपत्वमाह-सर्गस्थितीति|| जगत्सर्गादिमूलभूतोहिकालः,नकालेनविनाब्रह्मासृष्टिनिष्पादकृद्भवेत् * इत्यादेः।जगन्मय:-उन्मेषनिमेषकलोन्मानसूर्यगमनादिनापदार्थावच्छेदकस्वरूपः।परमात्मने–अकालवश्याय। * काल: पचतिभूतानिसवण्येवमहात्मना।कालःपक्वोयमन्वेतियस्तंवेदसवेदवित्॥ * कलामुहूर्तादिमयश्चकालोनयद्विभूते: परिणामहेतु:* इत्यादेः॥४॥ आधारभूतंविश्वस्याप्यणीयांसमणीयसाम्।प्रणम्यसर्वभूतस्थमच्युतंपुरुषोत्तमम्।।५।। समष्टिक्षेत्रज्ञरूपत्वमाह-आधारभूतमिति॥विश्वस्यप्रकृतिपरिणामस्यजीवकर्मनिमित्तत्वेनतश्छरीरतयातदाधारत्वम्। *भूतमात्राःप्रज्ञामात्रावर्पिताः, […]

श्रीविष्णुपुराणम् Amsa 01 Ady 01

श्रीमतेरामानुजायनमः श्रीपराशरमहर्षिप्रणीत पुराणरत्नापरनामधेयं ॥श्रीविष्णुपुराणम्सव्याख्यम्॥ नारायणंनमस्कृत्यनरंचैवनरोत्तमम्। देवींसरस्वतींव्यासंततोजयमुदीरयेत्।। प्रथमांशेप्रथमोऽध्यायः श्रीसूतउवाच पराशरंमुनिवरंकृतपौर्वाह्णिकक्रियम्।मैत्रेयःपरिपप्रच्छप्रणिपत्याभिवाद्यच॥१॥ श्रीमतेरामानुजायनमः एङ्गळाळ्वानितिप्रसिद्ध– श्रीविष्णुचित्तार्यवयनुगृहीताव्याख्या (श्रीविष्णुचित्तीयाख्या)   श्रीविष्णुचित्तपदपङ्कजसङ्गमायचेतोममस्पृह्यतेकिमतःपरेण।नोचेन्ममापियतिशेखरभारतीनांभावःकथंभवितुमर्हतिवाग्विधेयः॥ प्रथमांशेप्रथमोऽध्यायः यस्मादिदंजगदजायतयत्रतिष्ठत्यन्तेसमस्तमिदमस्तमुपैतियत्र।तस्मैनमस्सदसदादिविकल्पशून्यचैतन्यमात्रवपुषेपुरुषोत्तमाय॥ विधेश्चविदुषामिष्टदायिनेतार्क्ष्ययायिने।नमस्तुरङ्गतुण्डायस्वात्मनेजगदात्मने॥अंशैष्षड्भिस्समाकीर्णमङ्गैर्वेदमिवापरम्।पुरणंवैष्णवंचक्रेयस्तंवन्देपराशरम्॥ तत्त्वेनयश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः।संदर्शयन्निरमिमीतपुराणरत्नंतस्मैनमोमुनिवरायपराशराय॥   अथभगवान्पराशरःश्रीमैत्रेयायलोकहितार्थंश्रीविष्णुपुराणंप्रणेष्यन्प्रणिपातादिभिरुपसन्नायसंच्छिष्यायसदाचारवतातत्पृष्ठेनगुरुणास्वधर्मानुष्ठानाविरुद्धेमन:प्रसादकरसमये .पुराणंव्याख्येयमितिशास्त्रदर्शनात्पुराणप्रस्तावकंतत्प्रश्नंनिबध्नाति–पराशरामितिश्लोकेन।परान्-बाह्यकुदृष्टीन्सम्यक्प्रमाणतर्केराशृणातिइतिपराशरः,तंमुनिवरं–सम्यग्ज्ञानवन्तम्,कृतपौर्वाह्णिकक्रियं– भगवत्समाराधनादिनाविशेषतोविमल -मनसम्।पूर्वाह्ननिर्देशेनचित्तस्यसत्त्वोद्रोकोदर्शितः।परिपप्रच्छ-परितःपप्रच्छ, पुराणार्थमितिशेषः।कार्त्स्न्येनअर्थविशेषानभिनिवेशेनसामान्यतो*यन्मयमित्यादिवक्ष्यमाणप्रकारेण।अतःप्रश्नानुरूपेणप्रतिवचनमपिनकचिदाग्रहेणकृतम्।तेनास्यपुराणस्यलैङ्गादिवन्नकचित्पक्षपातित्वम्॥१॥     त्वत्तोहिबेदाध्ययनमधीतमखिलंगुरो।धर्मशास्त्राणिसर्वाणितथाऽङ्गानियथाक्रमम्।।२।। अथमैत्रेयश्चतुर्दशविद्याभूषितपुराणाधिगमेत्रयोदशविद्यास्थानाधिगमलक्षणस्यात्मनोऽधिकारस्यतत्प्रसादलब्धत्वानुवादेनगुरुंस्तुवन्पुराणप्रवचनेप्रोत्साहयति-त्वत्तोहीतिद्वयेन॥खिलं-प्रहतमनाम्नातंपरिशिष्टाख्यंश्रीसूक्तादिकं, तदखिलमाम्नातमेवयथास्यात्तथावेदाध्ययनम्अधीतम्-अधिगतं, प्राप्तम्।खिल– भागस्याप्यध्ययनंत्वत्तएवप्राप्तमित्यर्थः।यद्वाअखिलं-कृत्स्नं, यथाकमम्-स्वशाखाध्ययन- पूर्वकमृगादिक्रमानतिक्रमेण, * अतःपूर्वंतुछन्दांसिशुक्लेषुनियतःपठेत्।कृष्णपक्षेतथाऽङ्गानिमासान्विप्रोऽर्धपञ्चमान्।इत्याद्युक्तक्रमानितिक्रमेणच॥२॥   त्वत्प्रसादान्मुनिश्रेष्ठमामन्येनाकृतश्रमम्।वक्ष्यन्तिसर्वशास्त्रेषुप्रायशोयेऽपिविद्विषः॥३॥ त्वत्प्रसादादिति।अन्येजनाःयेविद्विषःतेऽपिसर्वशास्त्रेषुत्वत्प्रसादादकृतश्रमंमांनवक्ष्यन्ति, किन्तुत्वत्प्रसादादेवकृतसर्वशास्त्रपरिचयंमांसमावर्तनानन्तरंवक्ष्यन्ति।अन्येनेतिपदच्छेदेमांसर्वशास्त्रेषुत्वत्प्रसादादन्येनोपायेनअकृतश्रमंवक्ष्यन्ति, किन्तुत्वत्प्रसादेनैवकृतश्रमंवक्ष्यन्तीत्यर्थः॥३॥   सोऽहमिच्छामिधर्मज्ञश्रोतुंत्वत्तोयथाजगत्।बभूवभूयश्चयथामहाभागभविष्यति।।४।। सोऽहमिति।यएवंवेदादित्रयोदशविद्यास्थानाभिज्ञःसोऽहंजगज्जन्मादिपुराणार्थंश्रोतुमिच्छामीत्यर्थः।अनेनब्रह्मयज्ञाध्ययनार्थवेदोपबृंहणार्थचपुराणस्यग्रहणादौतद्योग्यत्रैवर्णिकानामेवाधिकारउक्तोज्ञेयः|पापक्षयाद्यर्थंतुपुराणश्रवणादौस्त्रीशूद्रयोरप्यधिकारः।यथोक्तंभविष्यत्पुराणे * अध्येतव्यंनचान्येनब्राह्मणक्षत्रियौविना॥श्रोतव्यमेतच्छूद्रेणनाध्येतव्यंकदाचन।तस्माच्छूद्रैर्विनाविप्रान्नश्रोतव्यंकदाचन॥इति॥विलोमजानांतुश्रवणादौनाघिकारः।सुतादेस्तुविलोमजस्यापिपुराणवचनं-*धर्मएषतुसूतस्यसद्भिर्दृष्टःपुरातनः *।इत्यादिवचनादविरुद्धम्। * यथाजगद्बभूवेत्युपक्रम्य * आश्रमवासिनामित्यन्तेनप्रष्टव्यानर्थानाह।अत्रभगवताभाष्यकारेणब्रह्मस्वरूपविशेषतद्विभूतिमेदप्रकाराःतदाराधनरूपफलविशेषाश्चपृष्टाइतिप्रष्टव्यार्थविशेषाउक्ताः। * यथाजगत्, इत्यादि * […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.