अष्टश्लोकी – प्रतिवादिभयङ्कराण्णङ्गरार्यविरचितव्याख्या
श्रीमते रामानुजाय नमः ।। श्रीपराशरभट्टार्यविरचिता अष्टश्लोकी प्रतिवादिभयङ्कराण्णङ्गरार्यविरचितव्याख्या वेदान्तदेशिककटाक्षविवृद्धबोधं ।। कान्तोपयन्तृमुनिनः करुणैकपात्रम् । वत्सान्ववायमनवद्यगुणैरुपेतं भक्त्या भजामि परवादिभयङ्करार्यम् ॥ श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥ वन्देऽहं घटिकाद्रीशं श्रीनिधिं करुणानिधिम् । वाधूलकुलदैवं तं सतामनवधिं निधिम् ॥ अखिलचिदचिदीशः श्रीनिवासो दयालुः स्वपदकमलयुग्मप्रापकः संश्रितानाम् । निगमशिखरगम्यो नित्यमव्याजबन्धु- विलसतु मम चित्ते वेङ्कटेशो मुकुन्दः ॥ प्रणम्य देशिकान् सर्वानष्टश्लोक्या यथाश्रुतम् । […]