परतत्त्वनिर्णयः
|| श्रीः ।। ।।परतत्त्वनिर्णयः।। ।। वत्सकुलतिलकेन वरदाचार्येण कृतः ।। श्रीमद्रामानुजमुनिवरैर्याममुनाद्यैर्मुनीन्द्रै– रप्याचार्यैर्बहुभिरपरैविस्तरेणाभ्यधायि। विष्णुस्तत्त्वं परमिति परन्यायमन्वादिवाक्यै– र्व्यक्तार्थाभिः श्रुतिविततिभिस्तद्वयं संक्षिपामः ।। अत्रेदं साध्यते “नारायणः परं ब्रह्मे” ति। तत्र पूर्वपक्षी मन्यते-रुद्र एव सर्वस्मात्पर इति। तथाहि यतो वा इमानी त्यादिना जगत्कारणमेव परं तत्त्वमित्यवगम्यते। तच्च कारणं किमित्यपेक्षायां, छान्दोग्ये ‘सदेव सोम्येदमग्र आसीदि’ त्यनेन जगत्कारणं सच्छब्दवाच्यमिति प्रतीयते । वाजसनेयके च ‘ब्रह्म वा इदमेकमेवाग्र […]