प्रपन्नपारिजातः
श्री: श्रीप्रणतार्तिहरवरदपरब्रह्मणे नमः . श्रीमते रामानुजाय नमः श्रीमते वात्स्य वरदार्यमहागुरवे नमः वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानात् यः सञ्जीवयति मामपि ।। प्रपन्नपारिजातः (1) आचार्यार्यमपादेभ्यो नमस्यासन्ततिं दधे । यदासङ्गवशात् पुंसां मन:पद्मं प्रबुध्यते ।। (2) अभङ्गुरकलादानस्थूललक्षत्वमीयुषे । तुङ्गाय महसे (ते) तस्मै तुरङ्गाय मुखे नमः ।। (3) लक्ष्मीचक्षुरनुध्यानात् तत्सारूप्यमुपेयुषे । नमोऽस्तु मीनवपुषे वेदवेदिविपन्मुषे ।। (4) रजो रजःप्रशमनं प्रपद्य […]