तत्त्वदीपः-चरमश्लोकविवरणं-तृतीयं प्रकरणम्
श्री: श्रीमते रामानुजाय नमः वादिकेसरिसुन्दरजामातृमुनिविरचिततत्त्वदीपे चरमश्लोकविवरणं नाम तृतीयं प्रकरणम् आरभ्यते अथ प्रपत्तिरूपस्य हितस्य विधितस्स्वयम् । शरण्याभिमतत्वात्मश्लोकवर्यार्थ उच्यते ॥ अस्य प्रपदनविधायकस्य “सर्वधर्मान्” इति श्लोकस्य शरण्याभिमतिप्रकाशकत्वम्, भक्तेरपि प्रपत्तेश्- शरण्याभिमततरत्वञ्च स्वयमेव सर्वपापविमोचनोक्त्या सिद्धमिति मूलमन्त्रोपोद्धाते प्रदर्शितम् । इदानीं श्लोकस्य वाचनिकार्थः प्रदर्श्यते । 1 ஶ்ரீ: ஸ்ரீமதே ராமாநுஜாய நம: வாதி3கேஸரி அழகியமணவாளச்சீயர் அருளிச்செய்த தீ3பப்ரகாஶத்தில் மூன்றாவதான சரமஶ்லோகப்ரகரணம்அத2 ப்ரபத்திரூபஸ்ய ஹிதஸ்ய விதி4தஸ்ஸ்வயம் । ஶரண்யாபி4 மதத்வாத்மஶ்லோகவர்யார்த்த2 […]