तत्त्वदीपः-द्वयविवरणम्-द्वितीयं प्रकरणम्
श्रीमतेरामानुजायनमः अथद्वयविवरणंनामद्वितीयंप्रकरणम् अथाष्टाक्षरमन्त्रार्थतत्त्वयाथात्म्यवेदिनः। हितप्रपदनाकारोद्वयार्थस्सम्प्रदर्श्यते॥ मूलमन्त्रार्थानुसन्धानावसाने सर्वप्रकारभगवत्पारतन्त्र्ययुक्ततदेकशेषत्वरूपाऽऽत्मस्वरूपयाथात्म्यस्य स्वरूपानुरूपं हितानुष्ठानं प्रपदनरूपमाचार्यरुचिपरिगृहीतेन द्वयेन मन्त्ररत्नेनोच्यते। आचार्यरुचिपरिगृहीता हि विद्या साधुतरा तत्त्वज्ञानानुष्ठानादिमुखेन पुरुषार्थाय भवति । “आचार्यवान् पुरुषो वेद” (छा.उ. 6-14-2) “आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्” (छा.उ. 4-9-3) इति श्रुते:; “पापिष्ठः क्षत्रबन्धुश्च पुण्डरीकश्च पुण्यकृत् । आचार्यवत्तया मुक्तौ तस्मादाचार्यवान् भवेत् ॥” इति स्मृतेश्च । आचार्यः स्वयमत्यन्तभगवत्प्रत्यासन्नः स्वाङ्गीकारेणैव स्वशिष्यं ज्ञानानुष्ठानादि विकलमपि स्वानुष्ठितभगवत्प्रपत्तिवैभवात् परमपुरुषार्थं तमेव भगवन्तं […]