ஜீயர்படி திருவாராதனக்ரமம்
ஜீயர்படி திருவாராதனக்ரமம் ஶ்ரீவைஷ்ணவர்கள் அநுதினமும் எம்பெருமானுக்குச் செய்யவேண்டிய திருவாராதனத்தைப் பற்றி எம்பெருமானார், வங்கிபுரத்து நம்பி, ஶ்ரீபராஶரபட்டர் ஆகியோர் திருவாராதனக்ரம நூல்களை அருளிச் செய்துள்ளனர். அவை அனைத்தும் ஸம்ஸ்க்ருத மொழியில் மிக விரிவாக அமைந்துள்ளன. அவற்றைப் புரிந்துகொண்டு அநுஷ்டிப்பது மிகவும் ஶ்ரமமானது என்பதனால், நம் போன்றவர்களிடம் மிகவும் கருணை கொண்டு மணவாளமாமுனிகள் மணிப்ரவாளத்தில் ஒரு திருவாராதனக்ரமத்தை அருளிச் செய்துள்ளார். “ஜீயர்படி” என்று ப்ரஸித்தமான அந்தத் திருவாராதனக்ரமம் மிகவும் எளிய நடையில் அமைந்துள்ளது. திருவாராதனம் செய்யும்போது நாம் விண்ணப்பிக்க […]
नित्यग्रन्थः-श्री गोविन्दार्य
श्रियै नमः श्रीमते रामानुजाय नमः श्रीमद्गोविन्दार्य महादेशिकाय नमः श्री ऎम्बाराख्यात गोविन्दार्यमहादेशिकविरचित नित्यग्रन्थः रामानुजपदच्छाया गोविन्दाह्वानपायनी। तदा यत्त स्वरूपा सा जीया न्मद्विश्रमस्थली॥ १. अथ वक्ष्ये प्रपन्नानां हरे राराधनक्रमम्। आदौ शौचविधिं कृत्वा स्नानं कृत्वा यथाविधि॥ २. तत्तन्मन्त्रेणोर्ध्वपुण्ड्रान् धारयित्वा विधानतः। नित्यकर्माणि कृत्वाऽथ यागभूमिं प्रविश्य च॥ ३. उपविश्यासने चाथ प्राणानायम्य च त्रिधा। रेचके प्रणवानष्टौ पूरके षोडश क्रमात्॥ ४. द्वात्रिंश त्कुम्भके […]
नित्याराधनविधि-श्रीवादिभीकरार्य
श्रियै नमः श्रीमते रामानुजाय नमः श्रीवादिभीकरार्य विरचिता नित्याराधनविधिः १. श्रीमत्त्रयीमकुटदेशिकपादपद्म- भृङ्गायमाणवरदार्यदयैकपात्रम्। तत्सूक्तिलेश विभवात्त समस्ततत्वं भक्त्या भजामि परवादिभयङ्करार्यम्॥ २. वेदान्तदेशिककटाक्ष विवृद्धबोधं कान्तोपयन्तृयमिनः करुणैकपात्रम्। वत्सान्ववाय मनवद्यगुणैरुपेतं भक्त्या भजामि परवादिभयङ्करार्यम्॥ १. प्रातस्स्नात्वा नित्यकर्म कृत्वा पादद्वयं करौ। प्रक्षाल्याचम्य पुरतो विष्णो र्गुरुपरम्पराम्॥ २. ध्यात्वानुमूलमन्त्रं च द्वयं च शरणागतिम्। प्रणम्य दक्षिणे पार्श्वे स्थित स्स्वाचार्यचोदितः॥ ३. आराधने प्रवृत्तोस्मी त्यनुसन्धाय सादरम्। कूर्मादीनिति यत्पद्यं […]
क्रियादीपः-श्री पराशरभट्टारक
श्रियै नमः श्रीमते रामानुजाय नमः श्रीमते श्री पराशर–भट्टारक–महादेशीकाय नमः श्रीपराशरभट्टारक–विरचित–क्रियादीपः श्री पराशर भट्टार्य श्री रङ्गेश पुरोहितः । श्रीवत्सांक-नुतश्श्रीमान् श्रेयसे मेऽस्तु भूयसे ।। पुंसे परस्मै लक्ष्म्यै च नमस्ते भरितां स्तुतिम् । कुर्महेऽहं क्रियालब्ध-संसाराब्धि-तितीर्षया ।। (१) पूर्वाचार्यान् नमस्तोमैरर्चयेद्भक्तिभावितैः । यत्पादभक्तिर्वैकुण्ठपदप्राप्त्यधिरोहिणी ।। (२) विष्णोर्नित्यार्चनविधिं भुक्ति-मुक्ति-प्रदायकम् । सारतः संप्रवक्ष्यामि सर्वेषां सुग्रहाय च ।। (३) काल्ये समुत्थाय हरिं चिन्तयेत् प्रणमेद्वदेत् […]
आह्निककारिका:
।। श्रीः ॥ || श्रीमते रामानुजायनम: || || श्रीवङ्गिवंशेश्वरमहादोशिकायनमः || || श्रीवङ्गीशेश्वरविरचिताः आह्निककारिका: || मातरं रङ्गराजस्य शौरिराज (शबरीश) पुरोहितम् । गुरुं वरदराजस्य वन्दे वङ्गिपुराधिपम् ।। 1 ।। || प्रातर्निर्वेदकारिकाः || ब्राह्मे मुहूर्ते सम्प्राप्ते त्यक्त्वा निद्रां प्रसन्नधीः । हरिर्हरिर्हरिरिति व्याहरेद्वैष्णवः पुमान् ॥ 2 उत्थाय शयने तस्मिन्नासीनो नियतेन्द्रियः । त्रस्तनिर्विण्णहृदयो व्यर्थं वीक्ष्य गतं वयः ॥ 3 तापत्रयेण […]
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः रहस्यप्रायश्चित्तम्
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः रहस्यप्रायश्चित्तम् अनभिख्यातदोषस्तु रहस्यं व्रतं आचरेत् । । ३.३०० । । त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् । । ३.३०१ । । लोमभ्यः स्वाहेत्यथ वा दिवसं मारुताशनः । जले स्थित्वाभिजुहुयाच्चत्वारिंशद्घृताहुतीः । । ३.३०२ । । त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर्घृतं शुचिः । ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः । । ३.३०३ । […]
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः प्रायश्चित्तप्रकरणम्
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः प्रायश्चित्तप्रकरणम् महापातकजान्घोरान्नरकान्प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह । । ३.२०६ । । मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिं ऋच्छति । खरपुल्कसवेनानां सुरापो नात्र संशयः । । ३.२०७ । । कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः । । ३.२०८ । । ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः । हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः । । ३.२०९ । । […]
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः यतिधर्मप्रकरणम्
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः यतिधर्मप्रकरणम् वनाद्गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् । प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि । । ३.५६ । । अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् । शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा । । ३.५७ । । सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकारामः परिव्रज्य भिक्षार्थी ग्रामं आश्रयेत् । । ३.५८ । । अप्रमत्तश्चरेद्भैक्षं सायाह्नेऽनभिलक्षितः । रहिते भिक्षुकैर्ग्रामे यात्रामात्रं अलोलुपः । । ३.५९ । […]
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः वानप्रस्थधर्मप्रकरणम्
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः वानप्रस्थधर्मप्रकरणम् सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् । । ३.४५ । । अफालकृष्तेनाग्नींश्च पितॄन्देवातिथीनपि । भृत्यांश्च तर्पयेत्श्मश्रु जटालोमभृदात्मवान् । । ३.४६ । । अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा । अर्थस्य संचयं कुर्यात्कृतं आश्वयुजे त्यजेत् । । ३.४७ । । दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् । स्वाध्यायवान्दानशीलः सर्वसत्त्वहिते रतः । । […]
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः आपद्धर्मप्रकरणम्
याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः आपद्धर्मप्रकरणम् क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः । निस्तीर्य तां अथात्मानं पावयित्वा न्यसेत्पथि । । ३.३५ । । फलोपलक्षौमसोम मनुष्यापूपवीरुधः । तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् । । ३.३६ । । शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः । मृच्चर्मपुष्पकुतप केशतक्रविषक्षितिः । । ३.३७ । । कौशेयनीललवण मांसैकशफसीसकान् । शकार्द्रौषधिपिण्याक पशुगन्धांस्तथैव च । । ३.३८ । । […]