पराशरस्मृतिः द्वितीयोध्यायः
पराशरस्मृतिः द्वितीयोध्यायः अतः परं गृहस्थस्य कर्माचारं कलौ युगे । धर्मं साधारणं शक्त्या चातुर्वर्ण्याश्रमागतं ।। २.१ ।। तं प्रवक्ष्याम्यहं पूर्वं पराशरवचो यथा । षट्कर्मसहितो विप्रः कृषिकर्म च कारयेत् ।। २.२ ।। क्षुधितं तृषितं श्रान्तं बलीवर्दं न योजयेत् । हीनाङ्गं व्याधितं क्लीबं वृषं विप्रो न वाहयेत् ।। २.३ ।। स्थिराङ्गं नीरुजं तृप्तं सुनर्दं षण्ढवर्जितम् । वाहयेद्दिवसस्यार्धं पश्चात्स्नानं […]
पराशरस्मृतिः प्रथमोध्यायः
पराशरस्मृतिः प्रथमोध्यायः अथातो हिमशैलाग्रे देवदारुवनालये । व्यासं एकाग्रं आसीनं अपृच्छन्नृषयः पुरा ।। १.१ ।। मानुषाणां हितं धर्मं वर्तमाने कलौ युगे । शौचाचारं यथावच्च वद सत्यवतीसुत ।। १.२ ।। तच्छ्रुत्वा ऋषिवाक्यं तु सशिष्योऽग्न्यर्कसंनिभः । प्रत्युवाच महातेजाः श्रुतिस्मृतिविशारदः ।। १.३ ।। न चाहं सर्वतत्त्वज्ञः कथं धर्मं वदाम्यहम् । अस्मत्पितैव प्रष्टव्य इति व्यासः सुतोऽब्रवीत् ।। १.४ ।। ततस्त […]