याज्ञवल्क्यस्मृतिः आचाराध्यायः राजधर्मप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः राजधर्मप्रकरणम् महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः । विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः । । १.३०९ । । अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा । धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् । । १.३१० । । स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च । विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः । । १.३११ । । स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिरान्शुचीन् । तैः सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः ग्रहशान्तिप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः ग्रहशान्तिप्रकरणम् श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि । । १.२९५ । । सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः । । १.२९६ । । ताम्रकात्स्फटिकाद्रक्त चन्दनात्स्वर्णकादुभौ । राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् । । १.२९७ । । स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा । यथावर्णं प्रदेयानि वासांसि […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः गणपतिकल्पप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः गणपतिकल्पप्रकरणम् विनायकः कर्मविघ्न सिद्ध्यर्थं विनियोजितः । गणानां आधिपत्ये च रुद्रेण ब्रह्मणा तथा । । १.२७१ । । तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति । । १.२७२ । । काषायवाससश्चैव क्रव्यादांश्चाधिरोहति । अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते । । १.२७३ । । व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः । विमना विफलारम्भः संसीदत्यनिमित्ततः । । १.२७४ । […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः श्राद्धप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः श्राद्धप्रकरणम् अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः । । १.२१७ । । व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैते श्राद्धकालाः प्रकीर्तिताः । । १.२१८ । । अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा । वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः । । १.२१९ । । स्वस्रीयर्त्विज्जामातृ याज्यश्वशुरमातुलाः । त्रिणाचिकेतदौहित्र शिष्यसंबन्धिबान्धवाः । । १.२२० । । कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः । […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः दानप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः दानप्रकरणम् सौवर्णराजताब्जानां ऊर्ध्वपात्रग्रहाश्मनाम् । शाकरज्जुमूलफल वासोविदलचर्मणाम् । । १.१८२ । । पात्राणां चमसानां च वारिणा शुद्धिरिष्यते । चरुस्रुक्स्रुवसस्नेह पात्राण्युष्णेन वारिणा । । १.१८३ । । स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् । प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् । । १.१८४ । । तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् । मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । । १.१८५ । । सोषरोदकगोमूत्रैः […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः द्रव्यशुद्धिप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः द्रव्यशुद्धिप्रकरणम् सौवर्णराजताब्जानां ऊर्ध्वपात्रग्रहाश्मनाम् । शाकरज्जुमूलफल वासोविदलचर्मणाम् । । १.१८२ । । पात्राणां चमसानां च वारिणा शुद्धिरिष्यते । चरुस्रुक्स्रुवसस्नेह पात्राण्युष्णेन वारिणा । । १.१८३ । । स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् । प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् । । १.१८४ । । तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् । मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । । १.१८५ । । सोषरोदकगोमूत्रैः […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः भक्ष्याभक्ष्यप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः भक्ष्याभक्ष्यप्रकरणम् अनर्चितं वृथामांसं केशकीटसमन्वितम् । शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् । । १.१६७ । । उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् । गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः । । १.१६८ । । अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । अस्नेहा अपि गोधूम यवगोरसविक्रियाः । । १.१६९ । । संधिन्यनिर्दशावत्सा गोपयः परिवर्जयेत् । औष्ट्रं ऐकशफं स्त्रैणं आरण्यकं […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः स्नातकधर्मप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः स्नातकधर्मप्रकरणम् न स्वाध्यायविरोध्यर्थं ईहेत न यतस्ततः । न विरुद्धप्रसङ्गेन संतोषी च भवेत्सदा । । १.१२९ । । राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा । दम्भिहैतुकपाखण्डि बकवृत्तींश्च वर्जयेत् । । १.१३० । । शुक्लाम्बरधरो नीच केशश्मश्रुनखः शुचिः । न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः । । १.१३१ । । न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् । नाहितं नानृतं चैव न […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः गृहस्थधर्मप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः गृहस्थधर्मप्रकरणम् कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही । दायकालाहृते वापि श्रौतं वैतानिकाग्निषु । । १.९७ । । शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः । प्रातःसंध्यां उपासीत दन्तधावनपूर्वकम् । । १.९८ । । हुत्वाग्नीन्सूर्यदैवत्यान्जपेन्मन्त्रान्समाहितः । वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च । । १.९९ । । उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये । स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा । । १.१०० । । वेदाथर्वपुराणानि […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः वर्णजातिविवेकप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः वर्णजातिविवेकप्रकरणम् सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः । । १.९० । । विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा । । १.९१ । । वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः । । १.९२ । । ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.