याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः संविद्व्यतिक्रमप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः संविद्व्यतिक्रमप्रकरणम् राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु । त्रैविद्यं वृत्तिमद्ब्रूयात्स्वधर्मः पाल्यतां इति । । २.१८५ । । निजधर्माविरोधेन यस्तु समयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः । । २.१८६ । । गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः । सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् । । २.१८७ । । कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः अभ्युपेत्याशुश्रूषाप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः अभ्युपेत्याशुश्रूषाप्रकरणम् बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणप्रदो भक्त त्यागात्तन्निष्क्रयादपि । । २.१८२ । । प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् । वर्णानां आनुलोम्येन दास्यं न प्रतिलोमतः । । २.१८३ । । कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे । अन्तेवासी गुरुप्राप्त भोजनस्तत्फलप्रदः । । २.१८४ । । ******

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः क्रीतानुशयप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः क्रीतानुशयप्रकरणम् दशैकपञ्चसप्ताह मासत्र्यहार्धमासिकम् । बीजायोवाह्यरत्नस्त्री दोह्यपुंसां परीक्षणम् । । २.१७७ । । अग्नौ सुवर्णं अक्षीणं रजते द्विपलं शते । अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि । । २.१७८ । । शते दशपला वृद्धिरौर्णे कार्पाससौत्रिके । मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता । । २.१७९ । । कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः दत्ताप्रदानिकप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः दत्ताप्रदानिकप्रकरणम् स्वं कुटुम्बाविरोधेन देयं दारसुतादृते । नान्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् । । २.१७५ । । प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः । देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत्पुनः । । २.१७६ । । *********

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः अस्वामिविक्रयप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः अस्वामिविक्रयप्रकरणम् स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः । । २.१६८ । । नष्टापहृतं आसाद्य हर्तारं ग्राहयेन्नरम् । देशकालातिपत्तौ च गृहीत्वा स्वयं अर्पयेत् । । २.१६९ । । विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यं अवाप्नोति तस्माद्यस्तस्य विक्रयी । । २.१७० । । आगमेनोपभोगेन नष्टं भाव्यं अतोऽन्यथा । पञ्चबन्धो दमस्तस्य […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः स्वामिपालविवादप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः स्वामिपालविवादप्रकरणम् माषानष्टौ तु महिषी सस्यघातस्य कारिणी । दण्डनीया तदर्धं तु गौस्तदर्धं अजाविकम् । । २.१५९ । । भक्षयित्वोपविष्टानां यथोक्ताद्द्विगुणो दमः । समं एषां विवीतेऽपि खरोष्ट्रं महिषीसमम् । । २.१६० । । यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् । गोपस्ताड्यश्च गोमी तु पूर्वोक्तं दण्डं अर्हति । । २.१६१ । । पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः सीमाविवादप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः सीमाविवादप्रकरणम् सींनो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः । गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः । । २.१५० । । नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः । सेतुवल्मीकनिंनास्थि चैत्याद्यैरुपलक्षिताम् । । २.१५१ । । सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा । रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः । । २.१५२ । । अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । अभावे ज्ञातृचिह्नानां राजा […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः दायविभागप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः दायविभागप्रकरणम् विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः । । २.११४ । । यदि कुर्यात्समानंशान्पत्न्यः कार्याः समांशिकाः । न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा । । २.११५ । । शक्तस्यानीहमानस्य किंचिद्दत्त्वा पृथक्क्रिया । न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः । । २.११६ । । विभजेरन्सुताः पित्रोरूर्ध्वं रिक्थं ऋणं […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः दिव्यप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः दिव्यप्रकरणम् तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि । । २.९५ । । रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः । विनापि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके । । २.९६ । । सचैलं स्नातं आहूय सूर्योदय उपोषितम् । कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ । । २.९७ । । तुला स्त्रीबालवृद्धान्ध पङ्गुब्राह्मणरोगिणाम् । अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य वा । । […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः लेख्यप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः लेख्यप्रकरणम् यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यं तु साक्षिमत्कार्यं तस्मिन्धनिकपूर्वकम् । । २.८४ । । समामासतदर्धाहर् नामजातिस्वगोत्रकैः । सब्रह्मचारिकात्मीय पितृनामादिचिह्नितम् । । २.८५ । । समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् । । २.८६ । । साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । अत्राहं अमुकः साक्षी लिखेयुरिति ते समाः । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.