याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः विक्रीयासंप्रदानप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः विक्रीयासंप्रदानप्रकरणम् गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति । सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते । । २.२५४ । । विक्रीतं अपि विक्रेयं पूर्वक्रेतर्यगृह्णति । हानिश्चेत्क्रेतृदोषेण क्रेतुरेव हि सा भवेत् । । २.२५५ । । राजदैवोपघातेन पण्ये दोषं उपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः । । २.२५६ । । अन्यहस्ते च विक्रीय दुष्टं वादुष्टवद्यदि । विक्रीणीते दमस्तत्र […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः साहसप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः साहसप्रकरणम् सामान्यद्रव्यप्रसभ हरणात्साहसं स्मृतम् । तन्मूल्याद्द्विगुणो दण्डो निह्नवे तु चतुर्गुणः । । २.२३० । । यः साहसं कारयति स दाप्यो द्विगुणं दमम् । यश्चैवं उक्त्वाहं दाता कारयेत्स चतुर्गुणम् । । २.२३१ । । अर्घ्याक्षेपातिक्रमकृद्भ्रातृभार्याप्रहारकः । संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् । । २.२३२ । । सामन्तकुलिकादीनां अपकारस्य कारकः । पञ्चाशत्पणिको दण्ड एषां इति विनिश्चयः । […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः दण्डपारुष्यप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः दण्डपारुष्यप्रकरणम् असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् । । २.२१२ । । भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः । अमेध्यपार्ष्णिनिष्ठ्यूत स्पर्शने द्विगुणस्ततः । । २.२१३ । । समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च । हीनेष्वर्धदमो मोह मदादिभिरदण्डनम् । । २.२१४ । । विप्रपीडाकरं छेद्यं अङ्गं अब्राह्मणस्य तु । उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः । […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः वाक्पारुष्यप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः वाक्पारुष्यप्रकरणम् सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् । । २.२०४ । । अभिगन्तास्मि भगिनीं मातरं वा तवेति ह । शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् । । २.२०५ । । अर्धोऽधर्मेषु द्विगुणः परस्त्रीषूत्तमेषु च । दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः । । २.२०६ । । प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । वर्णानां आनुलोम्येन तस्मादर्धार्धहानितः । । २.२०७ । । […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः द्यूतसमाह्वयप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः द्यूतसमाह्वयप्रकरणम् ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् । गृह्णीयाद्धूर्तकितवादितराद्दशकं शतम् । । २.१९९ । । स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् । जितं उद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी । । २.२०० । । प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । जितं ससभिके स्थाने दापयेदन्यथा न तु । । २.२०१ । । द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः वेतनादानप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः वेतनादानप्रकरणम् गृहीतवेतनः कर्म त्यजन्द्विगुणं आवहेत् । अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः । । २.१९३ । । दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः । अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता । । २.१९४ । । देशं कालं च योऽतीयाल्लाभं कुर्याच्च योऽन्यथा । तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके । । २.१९५ । । यो यावत्कुरुते कर्म तावत्तस्य तु […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः संविद्व्यतिक्रमप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः संविद्व्यतिक्रमप्रकरणम् राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु । त्रैविद्यं वृत्तिमद्ब्रूयात्स्वधर्मः पाल्यतां इति । । २.१८५ । । निजधर्माविरोधेन यस्तु समयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः । । २.१८६ । । गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः । सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् । । २.१८७ । । कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः अभ्युपेत्याशुश्रूषाप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः अभ्युपेत्याशुश्रूषाप्रकरणम् बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणप्रदो भक्त त्यागात्तन्निष्क्रयादपि । । २.१८२ । । प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् । वर्णानां आनुलोम्येन दास्यं न प्रतिलोमतः । । २.१८३ । । कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे । अन्तेवासी गुरुप्राप्त भोजनस्तत्फलप्रदः । । २.१८४ । । ******

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः क्रीतानुशयप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः क्रीतानुशयप्रकरणम् दशैकपञ्चसप्ताह मासत्र्यहार्धमासिकम् । बीजायोवाह्यरत्नस्त्री दोह्यपुंसां परीक्षणम् । । २.१७७ । । अग्नौ सुवर्णं अक्षीणं रजते द्विपलं शते । अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि । । २.१७८ । । शते दशपला वृद्धिरौर्णे कार्पाससौत्रिके । मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता । । २.१७९ । । कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः दत्ताप्रदानिकप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः दत्ताप्रदानिकप्रकरणम् स्वं कुटुम्बाविरोधेन देयं दारसुतादृते । नान्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् । । २.१७५ । । प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः । देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत्पुनः । । २.१७६ । । *********

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.