26 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षड्विंशः सर्गः प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा । अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। 5.26.1।। उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती । उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। 5.26.2।। प्रसक्तेत्यादि । उन्मत्ता चित्तविभ्रमवती । “उन्मादश्चित्तविभ्रमः” इत्युक्तेः । प्रमत्ता अनवधाना । “प्रमादो ऽनवधानता” इत्यमरः । भ्रान्तचित्ता अनवस्थितचित्ता । उपावृत्ता श्रमापनोदनार्थं वेष्टिता । किशोरीव बडवेव ।। 5.26.12।। राघवस्य प्रमत्तस्य रक्षसा […]
25 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चविंशः सर्गः तथा तासां वदन्तीनां परुषं दारुणं बहु । राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।। 5.25.1।। तथा तासां वदन्तीनामित्यादि । तासां वदन्तीनां तासु वदन्तीषु ।। 5.25.1।। एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी । उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।। 5.25.2।। एवमुक्तेति । मनस्विनी पातिव्रत्ये दृढमनाः ।। 5.25.2।। न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां […]
24 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्विंशः सर्गः ततः सीतामुपागम्य राक्षस्यो विकृताननाः । परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ।। 5.24.1।। किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे । महार्हशयनोपेते न वासमनुमन्यसे ।। 5.24.2।। तत इत्यादि ।। 5.24.12।। मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे । प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ।। 5.24.3।। त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् । भर्तारमुपसङ्गम्य विहरस्व यथासुखम् ।। 5.24.4।। […]
23 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोविंशः सर्गः इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः । संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ।। 5.23.1।। निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते । राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ।। 5.23.2।। ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः । परं परुषया वाचा वैदेहीमिदमब्रुवन् ।। 5.23.3।। पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः । दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ।। […]
22 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वाविंशः सर्गः सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः । प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ।। 5.22.1।। सीताया इत्यादि ।। 5.22.1।। यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा । यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ।। 5.22.2।। सान्त्वयिता अनुनेताः ।। 5.22.2।। सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः । द्रवतो ऽमार्गमासाद्य हयानिव सुसारथिः ।। […]
21 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकविंशः सर्गः तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः । आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ।। 5.21.1।। तस्येत्यादि ।। 5.21.1।। दुःखार्ता रुदती सीता वेपमाना तपस्विनी । चिन्तयन्ती वरारोहा पतिमेव पतिव्रता । तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ।। 5.21.2।। निवर्तय मनो मत्तः स्वजने क्रियतां मनः । न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् ।। 5.21.3।। […]
20 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे विंशः सर्गः स तां पतिव्रतां दीनांनिरानन्दां तपस्विनीम् । साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ।। 5.20.1।। स तामित्यादि । साकारैः सेङ्गितैः । “आकाराविङ्गिताकृती ” इत्यमरः । न्यदर्शयत, स्वाभिप्रायमिति शेषः । सीतायै स्वाभिप्रायं प्रकाशितवानित्यर्थः ।। 5.20.1।। मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् । अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ।। 5.20.2।। अदर्शनं अदृश्यत्वम् ।। 5.20.2।। कामये त्वां विशालाक्षि बहु मन्यस्व […]
19 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनविंश सर्गः तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता । रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ।। 5.19.1।। ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् । प्रावेपत वरारोहा प्रवाते कदली यथा ।। 5.19.2।। आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ । उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ।। 5.19.3।। दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः । ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे ।। 5.19.4।। असंवृतायामासीनां धरण्यां संशितव्रताम् […]
18 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टादशः सर्गः तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् । विचिन्वतश्च वैदेहीं किंचिच्छेषा निशा ऽभवत् ।। 5.18.1।। तथेत्यादि । विप्रेक्षमाणस्य विचिन्वतश्च । विप्रेक्षमाणे विचिन्वति च तस्मिन्नित्यर्थः । ” यस्य च भावेन.” इत्यर्थे षष्ठी ।। 5.18.1।। षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् । शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ।। 5.18.2।। अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः । प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ।। 5.18.3।। […]
17 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तदशः सर्गः ततः कुमुदषण्डाभो निर्मलो निर्मलं स्वयम् । प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ।। 5.17.1।। साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः । चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ।। 5.17.2।। तत इत्यादि । प्रजगाम प्रकर्षेण जगाम, आकाशपरभागं प्राप्त इत्यर्थः ।। 5.17.12।। स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् । शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ।। 5.17.3।। स इति […]