23 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोविंशः सर्गः ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् । पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ।। 4.23.1 ।। अथ मरणानन्तरं ताराविलापस्त्रयोविंशे ततः समुपजिघ्रन्तीत्यादि । लोकाच्च्युतम् अस्माल्लोकाच्च्युतम् । स्वर्गगमित्यर्थः ।। 4.23.1 ।। शेषे त्वं विषमे दुःखमकृत्वा वचनं मम । उपलोपचिते वीर सुदुःखे वसुधातले ।। 4.23.2 ।। मत्तः प्रियतरा नूनं वानरेन्द्र मही तव । शेषे हि […]

22 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वाविंशः सर्गः वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् । आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ।। 4.22.1 ।। एवममोघरामशराभिघातेन मोहसमाविष्टं वालिनं मृतं निश्चित्य संस्कारादिकरणाय त्वरमाणे हनुमति दैवात्किञ्चित्समाश्वस्तो वाली कर्तव्यभागं नियच्छति द्वाविंशे वीक्षमाण इत्यादि । मन्दासुः अल्पप्राणः ।। 4.22.1 ।। तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः । आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ।। 4.22.2 ।। तमिति । […]

21 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकविंशः सर्गः ततो निपतितां तारां च्युतां तारामिवाम्बरात् । शनैराश्वासयामास हनुमान् हरियूथपः ।। 4.21.1 ।। अथ हनुमत्समाश्वासनमेकविंशे तत इत्यादि । तारां तारकाम् ।। 4.21.1 ।। गुणदेषकृतं जन्तुः स्वकर्मफलहेतुकम् । अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ।। 4.21.2 ।। गुणोति । जन्तुः गुणदोषकृतं ज्ञानाज्ञानाभ्यां कृतं स्वकर्मफलं स्वकर्मवासना हेतुर्यस्य तत्तथोक्तम् । यत् कर्मास्ति तत्तस्य शुभाशुभं फलभूतं […]

20 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे विंशः सर्गः रामचापविसृषटेन शरेणान्तकरेण तम् । दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना । सा समासाद्य भर्तारं पर्यष्वजत भामिनी ।। 4.20.1 ।। अथ ताराप्रलापो विंशे रामेत्यादिसार्धश्लोकः । सा तारा तं दृष्ट्वा पर्यष्वजत ।। 4.20.1 ।। इषुणा ऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् । वानरेन्द्रं महेन्द्राभं शोकसन्तप्तमानसा । तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ।। 4.20.2 ।। इषुणेत्यादिसार्धः ।। […]

19 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनविंशः सर्गः स वानरमहाराजः शयानः शरविक्षतः । प्रुत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ।। 4.19.1 ।। अश्मभिः प्रविभिन्नाङ्गः पादपैराहतो भृशम् । रामबाणेन च क्रान्तो जीवितान्ते मुमोह सः ।। 4.19.2 ।। तं भार्या बाणमोक्षेण रामदत्तेन संयुगे । हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ।। 4.19.3 ।। तारागमनमेकोनविंशे स वानरमहाराज इत्यादि । विक्षतः विशेषेण क्षतः । जीवितान्ते […]

18 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टादशः सर्गः इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् । परुषं वालिना रामो निहतेन विचेतसा ।। 4.18.1 ।। अथ रामस्योत्तरमष्टादशे इत्युक्त इत्यादि । वालिना इत्युक्त इत्यन्वयः । विचेतसेत्यनेन परुषवचनमज्ञानकृतमित्युच्यते ।। 4.18.1 ।। तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् । उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ।। 4.18.2 ।। धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् । अधिक्षिप्तस्तदा रामः पश्चाद्वालिमब्रवीत् ।। 4.18.3 ।। तमित्यादि द्वौ । […]

17 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तदशः सर्गः ततः शरेणाभिहतो रामेण रणकर्कशः । पपात सहसा वाली निकृत्त इव पादपः ।। 4.17.1 ।। अथ रामं प्रति वालिनिन्दा सप्तदशे ततः शरेणेत्यादि । आरम्भणार्थो ऽयमनुवादः ।। 4.17.1 ।। स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः । अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ।। 4.17.2 ।। तस्मिन्निपतिते भूमौ वानराणां गणेश्वरे । नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ।। 4.17.3 […]

16 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षोडशः सर्गः तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् । वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ।। 4.16.1 ।। गर्जतो ऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः । मर्षयिष्याम्यहं केन कारणेन वरानने ।। 4.16.2 ।। अथ वालिवधः षोडशे तामेवमित्यादि ।। 4.16.1,2 ।। अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् । धर्षणामर्षणं भीरु मरणादतिरिच्यते ।। 4.16.3 ।। अधर्षितानामिति । धर्षणामर्षणं धर्षणस्य आमर्षणं सहनमिति […]

15 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चदशः सर्गः अथ तस्य निनादं तु सुग्रीवस्य महात्मनः । शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ।। 4.15.1 ।। अथ ताराबुद्धिः पञ्चदशे अथ तस्येत्यादि । महात्मनः महाधैर्यस्य ।। 4.15.1 ।। श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् । मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ।। 4.15.2 ।। श्रुत्वेति । स्थितस्येति शेषः । एकपदे एकस्मिन्नेव स्थाने, सद्य इत्यर्थः । आपतितः […]

14 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्दशः सर्गः सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् । वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ।। 4.14.1 ।। विचार्य सर्वतो दृष्टिं कानने काननप्रियः । सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम् ।। 4.14.2 ।। अथ वाल्याह्वानभीतं सुग्रीवं निस्त्रासयति रामश्चतुर्दशे सर्व इत्यादि ।। 4.14.1,2 ।। ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् । परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् । गर्जन्निव […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.