83 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्यशीतितमःसर्गः रामेण भरतलक्ष्मणौप्रति राजसूयचिकीर्षानिवेदनम् ॥ १ ॥ भरतेन तंत्रति तस्यसर्वराज -पराजयपूर्वकत्वोक्त्त्यापृथ्वीविनाशहेतुत्वकथनेन तत्करणस्यानौचित्यकथनम् ॥ २ ॥ रामेण तंप्रति तद्वचनप्रशंसनपूर्वकं राजसूयनिवर्तनोक्तिः ॥ ३ ॥ तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः । द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ १ ॥ दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ । परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ॥ २ ॥ कृतं मया […]

82 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्यशीतितमः सर्गः शंबुकशुद्रवधानन्तरंरात्रावगस्त्याश्रमेस्थितवतारामेण प्रभातेतदभिवादनपूर्वकं पुष्पका -रोहणेनपुनरयोध्यांप्रत्यागमनम् ॥ १॥ ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् । उपाक्रमत्सरः पुण्यमप्सरोगण सेवितम् ॥ १ ॥ तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् । आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥ २ ॥ तस्यागस्त्यो बहुगुणं कन्दमूलं तेथौषधिम् । शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥ ३ ॥ स भुक्तवान्नर श्रेष्ठस्तदन्नममृतोपमम् । प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥ ४ ॥ […]

81 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकाशीतितमः सर्गः शिष्यमुखावगतदण्डराजकृतस्वसुताधर्षणवृत्तान्तेनशुक्रेण तंप्रति तदीयदेशेनसह भस्मीभवनशापदानपूर्वकं निजतनयां प्रति तत्रैवाश्रमेतपश्चरणचोदना ।। १ ।। एवमगस्त्येन रामंप्रति श्वेतोपाख्यानकथनम् ॥ २ ॥ स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः । स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥ १ ॥ उपश्रुत्येति । शिष्यमुखाद्वृत्तान्तमिति शेषः ॥ १ ॥   सोपश्यदरजां दीनां रजसा समभिप्लुताम् । ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् ॥ २ ॥ तस्य रोषः […]

80 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अशीतितमःसर्गः कदाचनवसन्तेशुक्रासंनिधाने तदाश्रमंगतेनदण्डनाम्नाराज्ञाअरजानामिकायास्तत्कन्या -या बलात्कारेणोपभोगः ॥ १ ॥ एतदाख्याय रामाय महर्षि: कुम्भसंभवः । अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ १ ॥ ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् । अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ २ ॥ एतदित्यादि ।। अस्यामेवापरं वाक्यमिति । प्रोक्तदानकथायामेव संबद्धं अपरं तत्पृष्टोत्तरभूतं कथान्तरमित्यर्थः ॥ १-२ ।।   अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् […]

79 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनाशीतितमः सर्गः अगस्त्येनरामचोदनयातंप्रतिश्वेतराजतपोवन स्वनिर्जनत्वकारणकथनारंभः ॥ १ ॥ मनुपुत्रेणेक्ष्वाकुणापित्राज्ञयायागाद्युपायैः पुत्रशतकोत्पादनं ॥ २ ॥ तत्रान्तिमपुत्रस्यभाविदण्ड विज्ञानेनदण्डइतिनामकरणपूर्वकंतंप्रतिविन्ध्यशैवलमध्येराज्यकरणनियोजनम् ॥ ३ ॥ दण्डेनराज्ञाशुक्राचार्यस्य पौरोहित्येवरणपूर्वकंराज्यकरणम् ॥ ४ ॥ तदद्भुततमं वाक्यं श्रुत्वाऽगस्त्यस्य राघवः । गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ॥ १ ॥ तदित्यादि ।। गौरवात् सर्वज्ञः सर्ववक्तेति संभावनया ॥ १ ॥   भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः । श्वेतो […]

78 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टसप्ततितमः सर्गः अगस्त्येनरामंप्रतिश्वेतराजोपाख्यानकथनपूर्वकं स्वस्याभरणलाभप्रकारकथनम् ॥ १ ॥ श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् । प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ १ ॥ शृणु ब्रह्मपुरा वृत्तं ममैतत्सुखदुःखयोः । अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥ २ ॥ पुरा वैदर्भको राजा पिता मम महायशाः । सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ३ […]

77 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तसप्ततितमः सर्गः अगस्त्येनरामंप्रतिस्वस्यदिव्याभरणलाभप्रकारकथनायश्वेतराजोपाख्यानकथनारंभः ॥ १ ॥ पुरा त्रेतायुगे राम ह्यरण्यं बहुविस्तरम् । समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम् ॥ १ ॥ पुरेत्यादि । पुरा त्रेतायुगे पूर्वचतुर्युगवर्तित्रेतायुगे । बहुविस्तरं बहुविस्तारम् । पक्षिवर्जितमिति । अरण्यं अभूदिति शेषः ॥ १ ॥   तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् । अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ।। २ ।। तस्मिन्नरण्ये तदेकदेशे । तपः कुर्वाणोऽहं […]

76 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्सप्ततितमः सर्गः सशरीरतया देवत्वप्राप्तयेतपस्यता शंबुकनाम्नाशूद्रेण रामंप्रति स्वीयवर्णविशेषस्य स्वीयतपः फलकामनायाश्चनिवेदने रामेण तच्छिरश्छेदनम् ॥ १ ॥ शंबुकवधहृष्टैरिन्द्रादिभिः राममेत्य सप्रशंसनं वरवरणचोदनेरामेण तान्प्रतिमृतब्राह्मणबालस्यपुनर्जीवितलाभवरणम् ॥ २ ॥ तैःरामंप्रतिशूद्रशिरश्छेदसमकालमेवविप्रबालस्य पुनर्जीवितलाभनिवेदनपूर्वक मगस्त्याश्रम -गमनम् ॥ ३ ॥ रामेणाप्यगस्त्याश्रममेत्य तत्प्रणामपूर्वकं तदीयातिथ्यस्वीकरणम् ॥ ४ ॥ अगस्त्येनरामप्रशंसनपूर्वकं तस्मै दिव्याभरणसमर्पणेरामेणतंप्र तितस्यतदाभरणलाभ -प्रकारप्रश्नः ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्छिरास्तथा भूत्वा वाक्यमेतदुवाच […]

75 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चसप्ततितमः सर्गः नारदवचन श्रवणहृष्टेनरामेण लक्ष्मणंप्रतिब्राह्मणबालककलेबरस्यतैलद्रोण्यांनिधापनेन -रक्षणचोदनपूर्वकं स्मरणमात्रसंनिहितपुष्पक विमानारोहणेनक्रमेण प्रतीच्यादिदिक्चतुष्टये दुष्कृतकारिणोऽन्वेषणं ॥ १ ॥ दक्षिणस्यांदिशि शैवलशैलोत्तरपार्श्ववर्तिसरस्तीरेअधोमूर्धतया -तपस्यतः कस्यचिदवलोकनम् ॥ २ ॥ तथातंप्रतितदीयवर्णस्य तदभिलषिततपः फलस्यचप्रश्नः ॥ ३ ॥ नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं तदा । प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ १ ॥ गच्छ सौम्य द्विज श्रेष्ठं समाश्वासय सुव्रतम् । बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय […]

74 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुःसप्ततितमः सर्गः मृतपुत्रकब्राह्मणरोदनरवश्राविणारामेणवसिष्ठाद्यानयनपूर्वकं तान्प्रतिबालमरणकारण -प्रश्नः ॥ १ ॥ तत्रनारदेनरामंप्रतियुगचतुष्टयसंबन्धिचातुर्वर्ण्यधर्मनिरूपणपूर्वकं येनकेनापिस्ववर्ण -विरुद्धधर्माचरणेतस्य एतादृशाकालमरणादि रूपानर्थहेतुत्वोत्या प्रकृते तादृशविरुद्धधर्मा -चरणरतस्यकस्याप्यन्वेषणेनतद्दण्डनेसतिमृतबालकस्य पुनरुज्जीवनोक्तिः ॥ २ ॥ तथा तु करुणं तस्य द्विजस्य परिदेवनम् । शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥ १ ॥ स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् । वसिष्ठं वामदेवं च भ्रातरौ सहनैगमान् ॥ २ ॥ ततो द्विजा वसिष्ठेन […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.