38 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टात्रिंशः सर्गः कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम् । बलं नागसहस्रस्य धारयन् पर्वतोपमः ।। 3.38.1 ।। नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः । भयं लोकस्य जनयन् किरीटी परिघायुधः । व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन् ।। 3.38.2 ।। आबाल्यसिद्धसहजशौर्यादिगुणशेवधिः । रघुनाथो महाप्रीत्या परिस्फुरतु सर्वतः ।। तद्गुणजातं न युक्त्या कल्पयित्वोच्यते किन्त्वनुभवसिद्धमित्याह कदाचिदित्यादिना । सार्धश्लोकद्वयमेकान्वयम् । अहं व्यचरमित्यन्वयः । नागो गजः । […]
37 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तत्रिंशः सर्गः तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः । प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ।। 3.37.1 ।। सीतापतित्वसम्भूतमप्रमेयं वहन्महः । समस्तापायरहितो रामो जयतु मे धनम् ।। तच्छ्रुत्वेत्यादि ।। 3.37.1 ।। सुलभाः पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।। 3.37.2 ।। सततम् आपत्प्राप्तावपि । प्रियवादिनः स्वामिहिताहितविमर्शमुपेक्ष्य केवलं स्वप्रयोजनाय यथेच्छावादशीलाः […]
36 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्त्रिंषः सर्गः मारीच श्रूयतां तात वचनं मम भाषतः । आर्तो ऽस्मि मम चार्तस्य भावन् हि परमा गतिः ।। 3.36.1 ।। महासमरमध्ये ऽपि गाम्भीर्यं यस्य निश्चलम् । तमहं शिरसा वन्दे जानकीप्राणवल्लभम् ।। मारीचेत्यादि । भाषतः भाषमाणस्य ।। 3.36.1 ।। जानीषे त्वं जनस्थाने यथा भ्राता खरो मम । दूषणश्च महाबाहुः स्वसा शूर्पणखा च […]
35 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चत्रिंशः सर्गः ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् । सचिवानभ्यनुज्ञाय कार्यं बुध्वा जगाम सः ।। 3.35.1 ।। यद्वाहनस्य माहात्म्यं सर्वेषां विस्मयावहम् । अवतीर्णं रघोर्वंशे तमहं विष्णुमाश्रये ।। तत इति । रोमहर्षणं भयोत्पादकत्वेन रोमाञ्चकरम् । सचिवमुखेन कार्यं बुद्धा तानभ्यनुज्ञाय विसृज्य ।। 3.35.1 ।। तत्कार्यमनुगम्याथ यथावदुपलभ्य च । दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।। […]
34 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुस्त्रिंशः सर्गः ततः शूर्पणखां क्रुद्धां ब्रुवन्तीं परुषं वचः । अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः ।। 3.34.1 ।। परगोष्ठीप्रसिद्धानां गुणानामाकरो महान् । अनुजो यस्य सौमित्रिस्तमहं राममाश्रये ।। तत इति । सङ्क्रुद्धः शत्रुविषये ऽतीव क्रोधवान् ।। 3.34.1 ।। कश्च रामः कथंवीर्यः किंरूपः किम्पराक्रमः । किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ।। 3.34.2 ।। कथंवीर्यः कीदृशवीर्यः […]
33 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयस्त्रिंशः सर्गः ततः शूर्पणखा दीना रावणं लोकरावणम् । आमात्यमध्ये सङ्क्रुद्धा परुषं वाक्यमब्रवीत् ।। 3.33.1 ।। अमर्यादो भृशं मूर्खो वध्यो यस्य निशाचरः । तमहं नीतिसम्पन्नं रघुनाथं समाश्रये ।। तत इति । दीना रामपरिभूतत्वात् । स्वपरिभवदर्शने ऽपि भ्रातुर्निश्चलतया सङ्क्रुद्धा ।। 3.33.1 ।। प्रमत्तः कामभोगेषु स्वैरवृतो निरङ्कुशः । समुत्पन्नं भयं घोरं बोद्धव्यं नावबुद्ध्यसे ।। […]
32 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वात्रिशं सर्गः ततः शूर्पणखी दृष्ट्वा सहस्राणि चतुर्दश । हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ।। 3.32.1 ।। दूषणं च खरं चैव हतं त्रिशिरसा सह । दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ।। 3.32.2 ।। तपोबाहुबलोपेतं सर्वभूतभयङ्करम् । यो हनिष्यति दुर्बुद्धिं रावणं सो ऽस्तु मे मुदे ।। तत इति । शूर्पणखीत्यार्षो ङीषादिः । महानादमिति क्रियाविशेषणम् […]
31 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकत्रिंशः सर्गः त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेने रावणं वाक्यमब्रवीत् ।। 3.31.1 ।। एवं शरणागतिमन्त्रविवरणरूपे श्रीरामायणे इयता गन्थसन्दर्भेण उत्तरखण्डार्थो विवृतः । अनुष्ठानदशायां हि प्रथमखण्डार्थस्य प्राथम्यम्, व्युत्पत्तिदशायां तु उत्तरखण्डार्थस्य फलानुसारेणोपायप्रवृत्तेः, अतो द्वितीयखण्डार्थः प्रथमं विवृतः । तत्र बालकाण्डे प्रथमपदार्थभूतपुरुषकारयोगो दर्शितः, अयोध्याकाण्डे द्वितीयपदार्थभूतसौलभ्यादिगुणयोगः, आरण्यकाण्डे शूर्पणखागमनात्पूर्वभाविवृत्तान्तेन चतुर्थ्यर्थभूता किङ्खरवृत्तिरुक्ता, ततः खरवधान्तवृत्तान्तेन चरमपदार्थभूता विरोधिनिवृत्तिरिति । अथ […]
30 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिंशः सर्गः भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः । स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ।। 3.30.1 ।। एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम । शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ।। 3.30.2 ।। निरस्तनिखिलालम्बमहङ्कारमिव स्थितम् । खरं निहत्य साधूनां सुखावहमहं भजे ।। भित्त्वा त्वित्यादि । धर्मवत्सल इत्यनेन निरायुधवधो ऽनुचित इति श्रीरामो ऽमन्यतेति गम्यते । स्मयमानः […]
29 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनत्रिंशः सर्गः खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ।। 3.29.1 ।। अहङ्कारस्य हीनस्य व्यक्तां शक्तिमिव स्थिताम् । गदां खरस्य निर्भिद्य राजन्तं राममाश्रये ।। सर्वसाधनवैकल्येन खरस्यानुकूल्यमपि भवेदिति तच्चित्तपरीक्षार्थमाह खरं त्वित्यादिना । मृदुपूर्वं न्यायावलम्बनेनोक्तम् । परुषं मर्मोद्घाटनरूपत्वात् ।। 3.29.1 ।। गजाश्वरथसम्बाधे बले महति तिष्ठता । कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् […]