07 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे सप्तमः सर्गः । यदृच्छतः प्रासादोपरिभुवमारूढा मन्थरा नाम्नि कैकेय्याः कुब्जा ज्ञातिदासी तमुत्सवं ब्रह्मणेभ्यो बहुधनं वितरन्न्तीं कौसल्यां च प्रेक्ष्य किंनिमित्तकोयमारम्भ इति रामधात्री पप्रच्छ तया संज्ञापिता च रामाभिषेकमसहमाना कैकेयीमेत्य दशरथं विनिन्द्याभिषेकं विहन्तुं कैकेयीं प्रेरयत्तथापि रामाभिषेक एव स्वाभीष्ट इति मोदमाना कैकेयी तन्निवेदनपारितोषिकतया किञ्चिदाभरणं कुब्जायै ददौ। ज्ञातिदासी यतो जाता कैकय्या तु सहोषिता। प्रासादं चन्द्रसङ्काश्मरुरोह यदृच्छया ॥2.7.1॥ अथ रावणवधकाङ्क्षिभिर्देवैराविष्टमन्थरावाक्याद्रामाभिषेकविघ्नः […]
06 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे षष्ठः सर्गः । वसिष्ठनियोगाद्रामः सीतया समं स्नानोपासनकुशसंस्तरशयनादिनियमं जग्राह। अन्येद्युश्च प्रातः प्रबोधितः सन्ध्योपासनादीनि न्यवर्तयद्ब्राह्मणाश्च पुन्याहवाचनं विदधुः।पौराः पुरमलङ्कृत्य दशरथं प्राशंसन्। रामाभिषेकदिदृक्षागतजनैरयोध्या पूर्णाभवत्। गते पुरोहिते रामः स्नातो नियतमानसः। सहपत्न्या विशालाक्ष्या नारायणमुपागमत्॥2.6.1॥ अथ रामस्याभिषेकसन्नाहं दर्शयति षष्ठे—गत इत्यादि । पुरोहिते गतइत्यसन्निधानकृतराज—सगुणनिमित्तकनास्तिक्यव्यावृत्तिः, स्नात इति कायशुद्धिः, नियतमानस इति मनःशुद्धिः, सहप्त्न्येतिश्रीरङ्गविग्रहानुभवसागरतरणस्य सहायोक्तिः “पत्युर्नो दीक्षसंयोगे” इति दीक्षानियमस्य पत्नीसहायत्वोक्तिश्च तृतीयया आराधनकाले सीताया उपकरणसमर्पणपरता […]
05 Ssarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे पञ्चमः सर्गः । दशरथोक्तो वसिष्ठो रामनिवेशनं प्राप्य ससीतं रामं वेदव्रताचरणं निवेद्य दशरथान्तिकं ययौ। सभ्याश्च वसिष्ठमभितस्थुः। वसिष्ठेन कृताभ्यनुज्ञो दशरथः सभाजनं विसृज्यान्तःपुरं प्रविवेश । सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने। पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्॥2.5.1॥ अथोपवासस्य पुरोहितस्ङ्कल्पमन्त्रादिसाध्यत्वात्पुरोहितं संदिशति पञ्चमे—संदिश्येति। व्रतोपवासादिकं कुर्वित्यनुज्ञाप्य॥1॥ गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन। श्रेयसे राज्यलाभाय वध्वा सहयतव्रत॥2.5.2॥ गच्छेति ।काक्त्स्थमुपवासं कारय “हृक्रोरन्यतरस्याम्” इति विकल्पेन काकुत्स्थशब्दस्य– कर्मसज्ञा॥2॥ तथेति च […]
04 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे चतुर्थः सर्गः दुःस्वप्नदर्श्नादभिषेकभयमाश्ङ्कमानो दशरथस्तदैव राममानाय्य भरतागमनात्प्रागेवाभिषेकः संपाद्य इति निवेद्य सीतया सममाचरितव्यां व्रतचर्यामादिदेश। दशरथाभ्यनुज्ञातो रामः कौसल्यान्तःपुरं प्रविश्य तदाशीर्भिरभिवर्धितः सन्पूर्वं तत्रागतया सीतया समं स्ववासं प्राप। गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः। मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम्॥2.4.1॥ श्व एव पुष्यो भविता श्वेsभिषेच्यस्तु मे सुतः।रामो राजीवपत्राक्षो युवराज इति प्रभुः ॥2.4.2॥ एवं पूर्वविचारितमपि राममाहूयोक्तमपि रामाभिषेकं पुनर्मन्त्रिभिः कालविशेषनिर्णयपूर्वकं राममाहूय […]
03 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे तृतीय: सर्ग: तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वश: । प्रतिगृह्याब्रवीद्राजा तेभ्य: प्रियहितं वच: ।। 2.3.1 ।। एवं निश्चिताभिषेकस्य सम्भारसम्भरणप्रवृत्तिस्तृतीये–तेषामिति । प्रगृहीतानि प्रकर्षेण गृहीतानि शिरसि बद्धानीत्यर्थ: । अञ्जलिरूपाणि पद्मानि अञ्जलिपद्मानि, जञ्जलीनां पद्ममुकुलाकारत्वादत्रत्यपद्मशब्द: पद्ममुकुलपर: । प्रतिगृह्य वीक्षणवचनप्रत्यञ्जलिभिर्यथायोगमञ्जलीनां प्रतिग्रह: ।। 2.3.1 ।। अहोस्मि परमप्रीत: प्रभावश्चातुलो मम । यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ।। 2.3.2 ।। अहो इति । अहोस्मीति […]
02 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे द्वितीय: सर्गः ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः । हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ।। 2.2.1 ।। अथ रामाभिषेकस्य सर्वसम्मतत्वं दर्शयति द्वितीये– तत इत्यादि । ततः राजादिनिवेशानन्तरम् । परिषदं पौरजानपदसमूहम् । आमन्त्र्य अभिमुखीकृत्य । हितं श्रेयस्करम् । उद्धर्षणं उत्कूलहर्षजनकम् । प्रथितं प्रकटार्थम् । एवं वक्ष्यमाणरीत्या ।। 2.2.1 ।। दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना । स्वरेण महता राजा जीमूत इव […]
01 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डम् श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरघुनन्दनपरब्रह्मणे नमः ।। श्रीमते रामानुजाय नमः।। श्रावंश्रावं शठारेः शमदमवपुषः फुल्लवक्रारविन्दादालोच्यालोच्य वाचा प्रकृतिमधुरया प्रोच्य विद्वज्जनेभ्यः । गोविन्दार्यः सुधीशः कुशिककुलमणिर्गूढगाढाशयाढ्यं सम्यक् साकेतकाण्डं सरसजनमुदे सादरं व्याकरोति ।। प्रथमे काण्डे “एतस्मिन्नन्तेर विष्णुः” इत्यादिना “यतो वा इमानि ” इत्यादिश्रुतिप्रतिपादितं जगत्कारणत्वम् “अहं वेद्मि महात्मानम् ” इत्यादिना पुरुषसूक्तोक्तमहापुरुषत्वम् “त्वमनादिरनिर्द्देश्यः ” इत्यादिना अचिन्त्यवैभवत्वम् इत्येवं सर्वस्मात्परत्वमुक्तम् “अधिकं मेनिरे विष्णुम् ” इत्यादिना तदितरेषामपरत्वं […]
77 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तसप्ततितमः सर्गः गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः । वरुणायाप्रमेयाय ददौ हस्ते ससायकम् ।। 1.77.1 ।। अथ स्वपुरं प्राप्य सीतया रामः सुखमुवासेत्याह सप्तसप्ततितमे–गत इत्यादि । रामे परशुरामे । वरुणाय न्यासत्वेनेति शेषः । अप्रमेयाय अदृश्यायेत्यर्थः ।। 1.77.1 ।। अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् । पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ।। 1.77.2 ।। विह्वलं परवशम् । अनेन परशुरामेण […]
76 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षट्सप्ततितमः सर्गः श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा । गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ।। 1.76.1 ।। अथ जामदग्न्यगर्वनिर्वापणं षट्सप्ततितमे–श्रुत्वेत्यादि । पितुर्गौरवादिति पितुः सन्निधिगौरवादित्यर्थः । यन्त्रिता नियमिता कथा उच्चैः कथनं येन स तथा ।। 1.76.1 ।। श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव । अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ।। 1.76.2 ।। श्रुतवानिति । पितुरानृण्यं पितृघातिक्षत्रवधेन पितृवैरशुद्धिमास्थितः सन् यत्कर्म त्रिःसप्तकृत्वः क्षत्रवधरूपं कृतवानसि तच्छ्रुतवानस्मि […]
75 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चसप्ततितमः सर्गः राम दाशरथे राम वीर्यं ते श्रूयते ऽद्भुतम् । धनुषो भेदनं चैव निखिलेन मया श्रुतम् ।। 1.75.1 ।। पूर्वमवतारप्रस्तावे जगत्पतित्वेन विष्णोः परत्वमुक्तम् । ‘अहं वेद्मि महात्मानम्’ इति विश्वामित्रवचनेन पुरुषसूक्तं तत्र मानत्वेन सूचितम् । काश्यपस्तुतौ च ‘शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो । त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ।।’ इति सर्वजगत्कारणत्वादिकमुक्तम्। रुद्रस्य च गङ्गाधारणधातुमोक्षणादिवृत्तान्तेन कर्मवश्यत्वेन प्राकृतशरीरवर्तित्वेनाचापरत्वं सूचितम्। […]