64 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुःषष्टितमः सर्गः सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया । लोभनं कौशिकस्येह काममोहसमन्वितम् ।। 1.64.1 ।। अथ रम्भया तपोविघ्नश्चतुःषष्टितमे–सुरकार्यमित्यादि । लोभनं प्रलोभनम् । काममोहेन कामकृतवैचित्त्येन । समन्वितं युक्तम् । इह अस्मिन् काले । कौशिकप्रलोभनरूपं सुमहत् सुरकार्यं कर्त्तव्यमित्यन्वयः ।। 1.64.1 ।। तथोक्ता साप्सरा राम सहस्राक्षेण धीमता । व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ।। 1.64.2 ।। व्रीडिता अशक्यार्थवचननिमित्तलज्जावती ।। 1.64.2 […]
63 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रिषष्टितमः सर्गः पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् । अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ।। 1.63.1 ।। पुत्रविषयक्रूरशापदानेन क्रोधनिर्जयाभावान्न ब्रह्मर्षित्वसिद्धिरित्याह त्रिषष्टितमे–पूर्ण इत्यादि । व्रतस्नातं व्रतान्ते स्नातम्, समाप्तपुरश्चरणमिति यावत् । तपःफलचिकीर्षवः तपःफलं दातुमिच्छवः ।। 1.63.1 ।। अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः । ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ।। 1.63.2 ।। अब्रवीदिति । ऋषिस्त्वमसि पूर्वतपसा राजर्षिरसि इदानीमृषिरेवासि, […]
62 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्विषष्टितमः सर्गः शुनःशेपं नरश्रेष्ठगृहीत्वा तु महायशाः । व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ।। 1.62.1 ।। अथ शुनःशेपस्य शरणागतिरुच्यते द्विषष्टितमे–शुनःशेपमित्यादि ।। 1.62.1 ।। तस्य विश्रममाणस्य शुनःशेपो महायशाः । पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह । तप्यन्तमृषिभिः सार्द्धं मातुलं परमातुरः ।। 1.62.2 ।। तस्य विश्रममाणस्य तस्मिन्विश्राम्यति सति । आगम्येत्यत्र “वा ल्यपि” इत्यनुनासिकलोपाभावः पक्षे । मातुलं “ऋचीकाय कौशिकी प्रतिपादिता” […]
61 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकषष्टितमः सर्गः विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् । अब्रवीन्नरशार्दूलस्सर्वांस्तान् वनवासिनः ।। 1.61.1 ।। अथ शरणागतशुनःशेपरक्षणोचितशक्तिं वक्तुं तपो ऽन्तरमाहैकषष्टितमे–विश्वामित्र इत्यादि । तान् स्वाज्ञया समागतान् । वनवासिनः स्वतपोवनवासिनः ।। 1.61.1 ।। महान् विघ्नः प्रवृत्तो ऽयं दक्षिणामास्थितो दिशम् । दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ।। 1.61.2 ।। महानिति । यो ऽहं दक्षिणां दिशमास्थितः तस्य मे महान् विघ्नः प्रवृत्त […]
60 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षष्टितमः सर्गः तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान् । ऋषिमध्ये महातेजा विश्वामित्रो ऽभ्यभाषत ।। 1.60.1 ।। अथ सशरीरस्य त्रिशङ्कोः स्वर्गप्रापणं षष्टितमे–तप इत्यादि ।। 1.60.1 ।। अयमिक्ष्वाकु दायादस्त्रिशङ्कुरिति विश्रुतः । धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः । तेनानेन शरीरेण देवलोकजिगीषया ।। 1.60.2 ।। अयमिति सार्द्धः । दायमत्तीति दायादः, पुत्रपौत्रादिः । पचाद्यच् । वंश इति यावत् । तेन […]
59 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकोनषष्टितमः सर्गः उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः । अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम् ।। 1.59.1 ।। जातिचण्डालस्य कदाचित्तद्भावनिवृत्तिरस्ति, नतु कर्मचण्डालस्येत्याह एकोनषष्टितमे उक्तवाक्यमित्यादि । साक्षाच्चण्डालरूपिणं चण्डालचिह्नधारित्वान्न शास्त्रगम्यचण्डालभाव इत्यर्थः ।। 1.59.1 ।। ऐष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् । शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव ।। 1.59.2 ।। अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः । यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ।। 1.59.3 […]
58 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः अष्टपञ्चाशः सर्गः ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् । ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ।। 1.58.1 ।। गुरुत्यागिनां फलं दर्शयत्यष्टपञ्चाश्ो–ततस्त्रिशङ्कोरित्यादि । क्रोधसमन्वितमिति शतविशेषणम् ।। 1.58.1 ।। प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना । तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ।। 1.58.2 ।। प्रत्याख्यात इति । शाखान्तरम् आश्रयान्तरम् ।। 1.58.2 ।। इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः । न चातिक्रमितुं शक्यं वचनं सत्यवादिनः […]
57 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तपञ्चाशः सर्गः ततः सन्तप्तहृदयः स्मरन् निग्रहमात्मनः । विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ।। 1.57.1 ।। स दक्षिणां दिशं गत्वा महिष्या सह राघव । तताप परमं घोरं विश्वामित्रो महत्तपः ।। 1.57.2 ।। एवं पशुपतिवितीर्णसरहस्यसर्वास्त्रवैघट्यदर्शनेनरुद्रस्यापरत्वमुपपादितम् । अथ पूर्वप्रस्तुतब्राह्मण्यस्यात्यन्तदुर्लभत्वं दर्शयति नवभिः सर्गैः । तत्र त्रिशङ्कुशरणागत्यनुगुणशक्तिमत्त्वं दर्शयति सप्तपञ्चाशे–ततः सन्तप्तहृदय इत्यादि, श्लोकद्वयमेकान्वयम् । महात्मना वसिष्ठेन । कृतवैरः अनेनास्य तपोनाशमूलं दर्शितम् […]
56 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षट्पञ्चाशः सर्गः एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः । आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ।। 1.56.1 ।। अथ सर्वास्त्रबलसम्पूर्णक्षत्रवीर्यादपि ब्रह्मबलं बलीय इत्याह षट्पञ्चाशे–एवमुक्त इत्यादि । तिष्ठ तिष्ठेति भयजननार्थोक्तिः ।। 1.56.1 ।। ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् । वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ।। 1.56.2 ।। ब्रह्मदण्डमित्यादि त्रयोविंशतिः । ब्रह्मदण्डमिति । ब्रह्मदण्डं ब्राह्मणासाधारणं दण्डम् ।। 1.56.2 ।। क्षत्रबन्धो स्थितो ऽस्म्येष यद्वलं […]
55 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चपञ्चाशः सर्गः ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् । वसिष्ठश्चोदयामास कामधुक्सृज योगतः ।। 1.55.1 ।। अथ पुनर्दिव्यास्त्रलाभपूर्वं विश्वामित्रेण वसिष्ठाश्रमसंरोधः पञ्चपञ्चाशे–ततस्तानित्यादि । हे कामधुक् योगतः योगमहिम्ना, तिरश्चो ऽपि ब्रह्मप्रसादाद्योगशक्तिरस्तीति ज्ञेयम् ।। 1.55.1 ।। तस्या हुम्भारवाज्जाताः काम्भोजा रविसन्निभाः । ऊधसस्त्वथ सञ्जाताः पप्लवाः शस्त्रपाणयः ।। 1.55.2 ।। तस्या इत्यादि चत्वारः । ऊधसः स्तनात् ।। 1.55.2 ।। योनिदेशाच्च यवनाःशकृद्देशाच्छकास्तथा । रोमकूपेषु […]