106 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पडुत्तरशततमः सर्गः अपवाहितरथंसारथिंप्रति क्रूद्धेनरावणेनभर्त्सनम् ॥ १ ॥ सारथिना तंप्रति रथापवहनस्य सहेतुकत्वोक्त्त्यासमाश्वासनपूर्वकं तदाज्ञया पुनारामाग्रतोरथानयनम् ॥ २ ॥ स तु मोहात्सुसंक्रुद्धः कृतान्तबलचोदितः । क्रोधसंरक्तनयनो रावणः सुतमब्रवीत् ॥ १ ॥ अथ रावणरथप्रत्यानयनं षट्शततमे स तु मोहादित्यादि ।। मोहात् अविवेकात् ॥ १ ॥ हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् । भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥ २ […]
105 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चोत्तरशततमः सर्गः रामेणरावणंप्रति सीताहरणरूपकुकर्मानुव्याहरणेनगर्हणपूर्वकं बाणगणाभिवर्षणम् ॥ १ ॥ रामबाणगणाभिघातनिर्विण्णतया कर्तव्यमूढेसतिरावणे तत्सारथिना रणाङ्गणादन्यतोरथाप -वाहनम् ॥ २ ॥ स तेन तु तथा क्रोधात्काकुत्स्थेनार्दितो रणे । रावणः समरश्लाघी महाक्रोधमुपागमत् ॥ १ ॥ स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् । अभ्यर्दयत्सुसंक्रुद्धो राघवं परमाहवे ॥ २ ॥ अथ श्रान्तस्य रावणस्य सूतेन रथापवाहनं पञ्चशततमे – स तु तेनेत्यादि […]
104 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरुत्तरशततमः सर्गः रामेण मातलिसमानीतेन्द्रशक्त्या रावणविसृष्टशूलविभेदनपूर्वकं रावणललाटोरसि -बाणैः प्रहरणम् ॥ १ ॥ तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः । सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ॥ १ ॥ सिंहशार्दूलवाञ्शैलः संचचाल चलद्रुमः । बभूव चातिक्षुभितः समुद्रः सरितांपतिः ॥ २ ॥ अथ रावणस्य शूलोद्धरणं चतुःशततमे – तस्येत्यादि ॥ १-२ ॥ खगाश्च खरनिर्घोषा गगने […]
103 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्युत्तरशततमः सर्गः रथान्तरारोहणेनपुनस्समरायसमागच्छतिरावणे इन्द्रेण रामाय मातलिसनाथनिजरथ -प्रेषणम् ॥ १ ॥ रथस्थाभ्यां रामरावणाभ्यामद्भुतयुद्धप्रवर्तनम् ॥ २ ॥ तदा लोकभयावहमहो -त्पातप्रादुर्भावः ॥ ३ ॥ लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः । संदधे परवीरघ्नो धनुरादाय वीर्यवान् । रावणाय शरान्घोरान्विससर्ज चमूमुखे ॥ १ ॥ अथान्यं रथमारुह्य रावणो राक्षसाधिपः । अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् ॥ २ […]
102 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्युत्तरशततमः सर्गः रामेणसुषेणंप्रति रावणशक्तिघातपतितलक्ष्मणप्रदर्शनपूर्वकं तस्यनिधनशङ्कया विषादेनबहुधाविलापः ॥ १ ॥ सुषेणेनरामंप्रति हेतूपन्यासेनलक्ष्मणप्राणधारणनिर्धारणो -क्त्त्यासमाश्वासनपूर्वकं हनुमन्तंप्रति विशल्यकरण्याद्योषधिसमानयनचोदना ॥ २ ॥ ओषधिगिरिंगतेनहनुमता ओषधीनामन्तर्धानेकोपादुत्पाटनेनतच्छिखरस्यैव समानयनम् ॥ ३ ॥ सुषेणेननासान्यस्तमहौषधिक्षोद समाघ्राणनमात्राद्विशल्येनलक्ष्मणेन स्वापादिव समुत्थानम् ॥ ४ ॥ सहर्षबाष्पंरामपरिष्वक्तेनलक्ष्मणेन तंप्रति सत्वरं रावणवधप्रार्थना ॥ ५ ॥ शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा । लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ।। १ ।। स […]
101 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोत्तरशततमः सर्गः रामरावणयोर्युद्धावसरे मध्येलब्धावकाशेनलक्ष्मणेन रावणंप्रतियोधनम् ॥ १ ॥ तत्रलक्ष्मणेन रावणस्यध्वजसारथिधनुवांछेदनम् ॥ २ ॥ विभीषणेन गदया रावणरथहयहननम् ॥ ३ ॥ लक्ष्मणेन रावणेनविभीषणजिघांसया क्षिप्तायाः शक्तेः शरैः शकलीकरणम् ॥ ४ ॥ ततो रावणक्षिप्तयामहत्याशक्त्या वक्षसिगाढाभिहतेनलक्ष्मणेन मूर्च्छयाभूमौपतनम् ॥ ५ ॥ ततः कोपाद्रामेणशरगणवर्षणे पुरस्स्थातुमशक्नुवतारावणेन पलायनम् ॥ ६ ॥ तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः । क्रोधं च द्विगुणं […]
100 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः सर्गः महोदरादिनिधनक्रुद्धेनरावणेन सूतंप्रति रामवधप्रतिज्ञानेनरथतुरगचोदनचोदनापूर्वकं लक्ष्मणातिक्रमणेनरामंप्रत्यभियानम् ॥ १ ॥ रामरावणाभ्यां विचित्रास्त्रनिकरप्रयोगेण समरप्रवर्तनम् ॥ २ ॥ महोदरमहापार्श्वो हतौ दृष्ट्वा तु राक्षसौ । तस्मिंश्च निहते वीरे विरूपाक्षे महाबले । आविवेश महान्क्रोधो रावणं तं महामृधे ॥ १ ॥ सूतं संचोदयामास वाक्यं चेदमुवाच ह ॥ २ ॥ निहतानाममात्यानां रुद्धस्य नगरस्य च । दुःखमेषोपनेष्यामि हत्वा […]
99 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनशततमः सर्गः अङ्गदेनमहापार्श्वभङ्गः ॥ १ ॥ महोदरे तु निहते महापार्श्वो महाबलः । सुग्रीवेण समीक्ष्याथ क्रोधात्संरक्तलोचनः । अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ॥ १ ॥ स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः । पातयामास कायेभ्यः फलं वृन्तादिवानिलः ॥ २ ॥ केषांचिदिषुर्भिर्बाहून्स्कन्धांश्चिच्छेद राक्षसः । वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत् ॥ ३ ॥ तेऽर्दिता बाणवर्षेण महापार्श्वेन […]
98 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टनवतितमः सर्गः सुग्रीवेण महोदरवधः ॥ १ ॥ हन्यमाने बले तूर्णमन्योन्यं ते महामृधे । सरसीव महाघर्मे सोपक्षीणे बभूवतुः ॥ १ ॥ स्वबलस्य विघातेन विरूपाक्षवधेन च । बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २ ॥ प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः । बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् । उवाच च समीपस्थं महोदरमरिंदमम् […]
97 Sarga युद्धकाण्डः
श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तनवतितमः सर्गः सुग्रीवेण विरूपाक्षवधः ॥ १ ॥ तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः । बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥ १ ॥ अथ विरूपाक्षवधः – तथा तैरित्यादि ॥ १ ॥ रावणस्याप्रसह्यं तं शरसंपातमेकतः । न शेकुः सहितुं दीप्तं पतङ्गो ज्वलनं यथा ॥ २ ॥ तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः । पावकार्चिःसमाविष्टा दह्यमाना […]