02 Sarga किष्किन्धाकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वितीयः सर्गः तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ । वरायुधधरौ वीरौ सुग्रीवः शङ्कितो ऽभवत् ।। 4.2.1 ।। अथ सुग्रीवेण हनुमत्प्रेषणं द्वितीये तौ त्वित्यादि । महात्मानौ महाशरीरौ, भद्राकृती इत्यर्थः । वरायुधधरौ अत एव वीरौ ।। 4.2.1 ।। उद्विग्नहृदयः सर्वा दिशः समवलोकयन् । न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः ।। 4.2.2 ।। उद्विग्नहृदयः भीतमनस्कः ।। […]
01 Sarga किष्किन्धाकाण्डः
।। किष्किन्धाकाण्डः ।। ।। श्लोकसहितव्याख्यानम् ।। श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे प्रथमः सर्गः स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् । रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ।। 4.1.1 ।। श्रीरङ्गेशाय नमः । क्वाहं मन्दमतिर्गभीरमधुरं रामायणं तत्क्कच व्याख्याने ऽस्य परिभ्रमन्नहमहो हासास्पदं धीमताम् । को भारो ऽत्र मम स्वयं कुलगुरुः कोदण्डपाणिः कृपा कूपारो रचयत्यदः सपदि मज्जिह्वाग्रसिंहासनः ।। 1 ।। श्रीरामायणराजस्य समर्प्य मणिमेखलाम् […]
75 Sarga अरण्यकाण्डः
दिवं तु तस्यां यातायां शबर्या स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ।। 3.75.1 ।। अथ पम्पागमनं पञ्चसप्ततितमे दिवं त्वित्यादि । स्वेन तेजसा उपलक्षितायामिति शेषः ।। 3.75.1 ।। स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिणमेकाग्रं लक्ष्मणं राघवो ऽब्रवीत् ।। 3.75.2 ।। एकाग्रम् एकचित्तम् ।। 3.75.2 ।। दृष्टो ऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलो […]
74 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःसप्ततितमः सर्गः तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने । प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ।। 3.74.1 ।। एवमेतावत्पर्यन्तं भगवत्कैङ्कर्यतत्फले दर्शिते । अथाचार्याभिमाननिष्ठातत्फले दर्शयति चतुःसप्ततितमे तावित्यादि । प्रतीचीं दिशं गृह्य गृहीत्वा कबन्धेन दर्शितं पम्पाया मार्गमुद्दिश्य प्रतस्थतुः प्रतस्थाते ।। 3.74.1 ।। तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान् द्रुमान् । वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ।। 3.74.2 ।। […]
73 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिसप्ततितमः सर्गः निदर्शयित्वा रामाय सीतायाः प्रतिपादने । वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ।। 3.73.1 ।। अथ कबन्धः सुग्रीवस्थानमार्गं दर्शयित्वा गत इत्याह त्रिसप्ततितमे निदर्शयित्वेत्यादि । सीतायाः प्रतिपादने प्रापणे निमित्ते । निदर्शयित्वा प्रदर्श्य “क्त्वा च च्छन्दसि” इति क्त्वाप्रत्ययः । पूर्वोक्तमुपायमिति शेषः ।। 3.73.1 ।। एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः । प्रतीचीं दिशमाश्रित्य प्रकाशन्ते […]
72 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विसप्ततितमः सर्गः एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ । गिरिप्रदरमासाद्य पावकं विससर्जतुः ।। 3.72.1 ।। अथ संस्कृतः कबन्धः स्वरूपं प्रत्यापन्नो मित्रमुपदिशति द्विसप्ततितमे एवमुक्तावित्यादि । प्रदरं श्वभ्रम् । आसाद्य प्रापय्य कबन्धमिति शेषः ।। 3.72.1 ।। लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः । चितामादीपयामास सा प्रजज्वाल सर्वतः ।। 3.72.2 ।। महोल्काभिः निर्गतज्वालकाष्ठैः ।। 3.72.2 ।। तच्छरीरं […]
71 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकसप्ततितमः सर्गः पुरा राम महाबाहो महाबलपराक्रम । रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् । यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ।। 3.71.1 ।। अथ कबन्धः स्ववृत्तान्तकथनपूर्वकं स्वशापमोक्षाय स्वशरीरदहनमर्थयते एकसप्ततितमे पुरेत्यादिसार्धश्लोक एकान्वयः । अचिन्त्यम् अचिन्त्यवैभवम् ।। 3.71.1 ।। सो ऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् । ऋषीन्वनगतान् राम त्रासयामि ततस्ततः ।। 3.71.2 ।। सो […]
70 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्ततितमः सर्गः तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ।। 3.70.1 ।। अथ कबन्धस्य बाहुच्छेदेन पूर्वजन्मस्मृतिरुच्यते सप्ततितमे तौ त्वित्यादि । परिक्षिप्तौ परिवेष्टितौ ।। 3.70.1 ।। तिष्ठतः किन्नु मां दृष्ट्वा क्षुधार्तं क्षत्ित्रयर्षभौ । आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ ।। 3.70.2 ।। तिष्ठत इति । क्षुधार्तं मां दृष्ट्वा भीतौ […]
69 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनसप्ततितमः सर्गः कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ । अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ।। 3.69.1 ।। अथायोमुखीविरूपकरणपूर्वकं कबन्धदर्शनमेकोनसप्ततितमे कृत्वैवमित्यादि । अवेक्षन्तौ अवेक्षमाणौ । पश्चिमां दक्षिणपश्चिमामित्यर्थः ।। 3.69.1 ।। तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ । अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ।। 3.69.2 ।। ताविति । दक्षिणां दिशमिति दक्षिणपश्चिमा ह्युभयथा व्यवहर्तुं शक्या । अविप्रहतम् अक्षुण्णम् । […]
68 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टषष्टितमः सर्गः रामः सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम् । सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ।। 3.68.1 ।। अथ भगवत्कार्यार्थं त्यक्तशरीरस्य गृध्रराजस्य मोक्षपदप्रापणमष्टषष्टितमे राम इत्यादि । रौद्रेण रावणेन । मित्रसम्पन्नं सर्वजनमित्रमित्यर्थः । यद्वा परनिपातः सम्पन्नमित्रम्, अत्यन्तरामविषयसौहार्दयुक्तमित्यर्थः ।। 3.68.1 ।। ममायं नूनमर्थेषु यतमानो विहङ्गमः । राक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्षति दुस्त्यजान् ।। 3.68.2 ।। अर्थेष्विति […]