07 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तमः सर्गः रामस्तु सहितो भ्रात्रा सीतया च परन्तपः । सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ।। 3.7.1 ।। अथ सुतीक्ष्णाभ्यर्थनया मृगरूपमारीचादि दुष्टराक्षसनिरासः सप्तमे रामस्त्वित्यादि । आश्रमपदम् उद्दिश्येति शेषः । तौर्द्विजैः वैखनसादिभिः ।। 3.7.1 ।। स गत्वा ऽदूरमध्वानं नदीस्तीर्त्वा बहूदकाः । ददर्श विपुलं शैलं महामेघमिवोन्नतम् ।। 3.7.2 ।। स इति । अदूरमिति छेदः । […]

06 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामदारण्यकाण्डे षष्ठः सर्गः शरभङ्गे दिवं याते मिनिसङ्घाः समागताः । अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ।। 3.6.1 ।। एवं खरवधार्थिमुनिजनशरणागतिं वक्तुं तदुपयोगितया रामस्य समर्थकारुणिकत्वमुक्त्वा अथ तच्छरणागतिं वक्तुमुपक्रमते शरभङ्ग इत्यादि । शरभङ्गे दिवं यात इति कालप्रदर्शनं सुतीक्ष्णादीनां विद्यमानत्वात् । समागताः सम्मलिताः ।। 3.6.1 ।। वैखानसा वालखिल्यास्सम्प्रक्षाला मरीचिपाः । अश्मकुट्टाश्च बहवः पत्त्राहाराश्च धार्मिकाः ।। 3.6.2 ।। […]

05 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामदारण्यकाण्डे पञ्चमः सर्गः हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् । अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ।। 3.5.1 ।। एवं विराधवनवासिमुमुक्षुमुनिजनशरणागतेरानुषङ्गिकफलभूतं विराधवधमभिधाय खरादिवधफलशरभङ्गाश्रमवासिमुनिजनशरणागतिं दर्शयिष्यन् तदुचितसौलभ्यदर्शनाय शरभङ्गाश्रमवनगमनं दर्शयति पञ्चमे हत्वेत्यादि । परिष्वज्य समाश्वास्य चेति विराधाङ्कस्पर्शजभयदुःखव्रीडाशान्त्यर्थमिति भावः ।। 3.5.1 ।। कष्टं वनमिदं दुर्गं न च स्म वनगोचराः । […]

04 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्थः सर्गः ह्रियमाणै तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ । उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ।। 3.4.1 ।। अथ परमपुरुषवहनफलं वक्तुमुक्रमते ह्रियमाणावित्यादि । चुक्रोश रामस्यातिमानुषं चरित्रमवगच्छन्त्यपि स्नेहातिशयेन व्याकुला रुरोदेत्यर्थः ।। 3.4.1 ।। एष दाशरथी रामस्सत्यवाञ्च्छीलवाञ्छुचिः । रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ।। 3.4.2 ।। सत्यवान् सत्यवचनवान् । शीलवान् सदाचारसम्पन्नः । शुचिः ऋजबुद्धिः ।। […]

03 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे तृतीयः सर्गः अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम् । आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ।। 3.3.1 ।। अथ विराधानुग्रहाय तदाक्रमणं तृतीये अथोवाचेत्यादि । पूरयन्, शब्देनेति शेषः । आत्मानं युष्मत्स्वरूपं पृच्छते मह्यमिति शेषः । ब्रूतमिति लोण्मध्यमपुरुषद्विचनम् । प्रश्नप्रकारमाह काविति ।। 3.3.1 ।। तमुवाच ततो रामो राक्षसं ज्वलिताननम् । पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः […]

02 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वितीयः सर्गः कृतातिथ्यो ऽथ रामस्तु सूर्यस्योदयनं प्रति । आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ।। 3.2.1 ।। एवं प्रथमसर्गेण सिद्धसाधननिष्ठानां मुमुक्षूणां मुनीनां तदीयपर्यन्तं विशिष्टविषयकैङ्कर्यं प्रतिपाद्य खरवधार्थिंमुनिजनशरणागतिं वक्ष्यन् शरण्यत्वोपयोगिसामर्थ्यं विराधवधकथनमुखेन बोधयितुमुपक्रमते कृतातिथ्य इत्यादिना । अत एव सङ्क्षेपे “विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह” इत्यत्र विराधवधोपहारमुखेन शरभङ्गं दृष्टवानिति व्याख्यातम् । तुशब्देन अत्र्यादिकृतातिथ्याद्वैलक्षण्यमुच्यते । अनन्यप्रयोजनदत्तं […]

01 Sarga अरण्यकाण्डः

।। अरण्यकाण्डः ।।।। श्लोकसहितव्याख्यानम् ।। (1सर्गतः 16सर्गपर्यन्तम्) श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे प्रथमः सर्गः वात्स्यश्रीशठकोपदेशिकवरश्रीपादरेण्वञ्जनैः दृष्ट्या निर्मलया निरीक्ष्य बहुधा वल्मीकजन्माशयम् । श्रीमत्कौशिकवंशसागरमणिर्गोविन्दराजाह्वयो व्याचक्षे ऽहमरण्यकाण्डमधुना पश्यन्तु निर्मत्सराः ।। श्रीरामायणराजस्य दत्त्वा पीताम्बरं महत् । अर्पये परया लक्ष्म्या राजन्तीं रत्नमेखलाम् ।। प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ।। 3.1.1 ।। ।। श्रीरङ्गेशाय नमः ।। एवं पूर्वस्मिन् काण्डे […]

119 Sarga अयोध्याकाण्डम्

श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंशत्युत्तरशततम: सर्ग: अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् । पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।। 2.119.1 ।। व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया । रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ।। 2.119.2 ।। अथात्र्याश्रमे रजनीमुषित्वा प्रातर्निर्गम एकोनविंशत्युत्तरशततमे–अनसूयेत्यादि ।। 2.119.12 ।। रविरस्तं […]

118 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग: सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया । प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ।। 2.118.1 ।। नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे । विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ।। 2.118.2 ।। अथ सीतानसूयासंवादो ऽष्टादशोत्तरशततमे–सेति । अनसूया असूयारहिता । पातिव्रत्यधर्मोपदेशं गुणत्वेन गृहीतवतीत्यर्थ: ।। 2.118.12 ।। यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: । अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।। 2.118.3 ।। […]

117 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततम: सर्ग: राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ।। 2.117.1 ।। अथ रामस्यात्र्याश्रमप्रवेश: सप्तदशोत्तरशततमे–राघव इत्यादिना ।। 2.117.1 ।। इह मे भरतो दृष्टो मातरश्च सनागरा: । सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ।। 2.117.2 ।। बहुकारणान्येवाह–इह म इत्यादिना ।। 2.117.2 ।। स्कन्धावारनिवेशेन तेन तस्य महात्मन: । हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ।। […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.