86 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडशीतितम: सर्ग: आचचक्षे ऽथ सद्भावं लक्ष्मणस्य महात्मन: । भरतायाप्रमेयाय गुहो गहनगोचर: ।। 2.86.1 ।। आचचक्ष इत्यादि । अथ आश्वासनानन्तरम् । सद्भावं ज्येष्ठानुवर्तनरूपं समीचीनस्वभावम् । आचचक्ष इत्यादि भगवद्विषयोपदेशे नूतनपुरातनविभागो नास्ति । देशिका वक्तार: सादरा: श्रोतार इत्याह । आङीषदर्थे । स्ववागिन्द्रियविषयमेवावदत् नतु कार्त्स्न्येन । अथ भरतस्वभावज्ञानानन्तरम् । सद्भावं ‘बाल्यात्प्रभृति सुस्निग्ध:’ इति सत्ताव्याप्तं स्वभावम् […]
85 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चाशीतितम: सर्ग: एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् । प्रत्युवाच महाप्राज्ञो वाक्यं हेत्यर्थसंहितम् ।। 2.85.1 ।। एवमिति । हेत्वर्थसंहितम् उपपत्तिप्रयोजनाभ्यां युक्तम् ।। 2.85.1 ।। ऊर्जित: खलु ते काम: कृतो मम गुरो: सखे । यो मे त्वमीदृशीं सेनामेकोभ्यर्चितुमिच्छसि ।। 2.85.2 ।। ऊर्जित इति । स्वस्य रामविषयभक्तिं द्योतयितुं मम गुरो: सखे इत्युक्तम् । यस्त्वमेक एव […]
84 Sarga अयोध्याकाण्डम्
श्रीरामयणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरशीतितम: सर्ग: ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् । निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितो ऽब्रवीत् ।। 2.84.1 ।। तत इत्यादि । गङ्गामन्वाश्रितां प्राप्ताम् अत एव निविष्टां कृतनिवेशां ध्वजिनीं सेनां दृष्ट्वा । सन्त्वरित: ससम्भ्रम: ।। 2.84.1 ।। महतीयमित: सेना सागराभा प्रदृश्यते । नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ।। 2.84.2 ।। महतीति । इत: इह श्रृङ्गिबेरपुरे । […]
83 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्यशीतितम: सर्ग: तत: समुत्थित: काल्यमास्थाय स्यन्दनोत्तमम् । प्रययौ भरत: शीघ्रं रामदर्शनकाङ्क्षया ।। 2.83.1 ।। अग्रत: प्रययुस्तस्य सर्वे मन्त्रिपुरोधस: । अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् ।। 2.83.2 ।। तत इति । काल्यम् अहर्मुखम् । “प्रत्यूषो ऽहर्मुखं काल्यम्” इत्यमर: । प्राप्येति शेष: ।। 2.83.12 ।। नवनागसहस्राणि कल्पितानि यथाविधि । अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ।। 2.83.3 ।। […]
82 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्यशीतितम: सर्ग: तामार्यगणसम्पूर्णां भरत: प्रग्रहां सभाम् । ददर्श बुद्धिसम्पन्न: पूर्णचन्द्रो निशामिव ।। 2.82.1 ।। तामिति । प्रग्रहां नियमवतीम् । यद्वा शुक्रबृहस्पत्यादिप्रकृष्टग्रहयुक्ताम्, तदा निशाविशेषणमिदम् ।। 2.82.1 ।। आसनानि यथान्यायमार्याणां विशतां तदा । वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा ।। 2.82.2 ।। आसनानि विशताम् आसनेषूपविशतामित्यर्थ: ।। 2.82.2 ।। सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा । अदृश्यत […]
81 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकाशीतितम: सर्ग: ततो नान्दीमुखीं रात्रिं भरतं सूतमागधा: । तुष्टुवुर्वाग्विशेषज्ञा: स्तवैर्मङ्गलसंहितै: ।। 2.81.1 ।। तत इति । नान्दीमुखीं रामानयनाभ्युदयप्रारम्भयुक्ताम् । यद्वा भरताभिषेकाय वसिष्ठेन कृतनान्दीमुखाभ्युदययुक्ताम् । यद्वा शोकविगमाय कृताभ्युदयामित्यर्थ: । रात्रिं रात्रौ, अपररात्र इत्यर्थ: । यद्वा रात्रिं प्राप्येति शेष: । मङ्गलसंहितै: मङ्गलशब्दसहितै: ।। 2.81.1 ।। सुवर्णकोणाभिहत: प्राणदद्यामदुन्दुभि: । दध्मु: शङ्खांश्च शतशो नादांश्चोच्चावचस्वरान् ।। […]
80 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अशीतितम: सर्ग: अथ भूमिप्रदेशज्ञा: सूत्रकर्मविशारदा: । स्वकर्माभिरता: शूरा: खनका यन्त्रकास्तथा ।। 2.80.1 ।। कर्मान्तिका: स्थपतय: पुरुषा यन्त्रकोविदा: । तथा वर्द्धकयश्चैव मार्गिणो वृक्षतक्षका: ।। 2.80.2 ।। कूपकारा: सुधाकारा वंशकर्मकृतस्तथा । समर्था ये च द्रष्टार: पुरतस्ते प्रतस्थिरे ।। 2.80.3 ।। अथेत्यादि । भूमिप्रदेशज्ञा: । निम्नोन्नतादिप्रदेशज्ञा: । यद्वा नानादेशविद: । सूत्रकर्मविशारदा: सूत्रकर्मणि निर्जलप्रदेशेष्वगाधवापीकूपादिजलोद्धारसूत्रकर्मणि विशारदा: […]
79 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनाशीतितम: सर्ग: तत: प्रभातसमये दिवसे च चतुर्दशे । समेत्य राजकर्त्तारो भरतं वाक्यमब्रुवन् ।। 2.79.1 ।। तत इति । त्रयोदशदिवसपर्यन्तमपरक्रियाव्यापृतत्वाच्चतुर्दश इत्युक्तम् । समेत्य एकीभूय ।। 2.79.1 ।। गतो दशरथ: स्वर्गं यो नो गुरुतरो गुरु: । रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् ।। 2.79.2 ।। गुरुतरो गुरु:, परमगुरुरित्यर्थ: ।। 2.79.2 ।। त्वमद्य […]
78 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टसप्ततितम: सर्ग: अथ यात्रां समीहन्तं शत्रुध्नो लक्ष्मणानुज: । भरतं शोकसन्तप्तमिदं वचनमब्रवीत् ।। 2.78.1 ।। अथेत्यादि । अथ अपरक्रियां निर्वर्त्य गृहं प्रति गमनानन्तरं यात्रां रामसमीपगमनं समीहन्तं समीहमानम्, यात्रोद्युक्तमित्यर्थ: ।। 2.78.1 ।। गतिर्य: सर्वभूतानां दु:खे किं पुनरात्मन: । स राम: सत्त्वसम्पन्न: स्त्रिया प्रव्राजितो वनम् ।। 2.78.2 ।। गतिरिति । सर्वभूतानां प्राणिमात्रस्य दु:खे सति […]
77 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तसप्ततितम: सर्ग: ततो दशाहे ऽतिगते कृतशौचो नृपात्मज: । द्वादशे ऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत् ।। 2.77.1 ।। ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् । वासांसि च महार्हाणि रत्नानि विविधानि च ।। 2.77.2 ।। ततइति । दशाहे अतिगते अतीते, एकादशाह इत्यर्थ: । कृतशौच: कृतशौचापादकपुण्याहवाचननवश्राद्धादिक इत्यर्थ: । द्वादशे ऽहनि श्राद्धकर्माणि षोडशमासिकानि सपिण्डीकरणान्तानीत्यर्थ: । अकारयत् अकरोदित्यर्थ: […]