67 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तषष्टितमः सर्गः जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः । धनुर्दर्शय रामाय इति होवाच पार्थिवम् ।। 1.67.1 ।। अथ धनुर्भङ्गादिवृत्तान्तः सप्तषष्टितमे–जनकस्येत्यादि ।। 1.67.1 ।। ततः स राजा जनकः सामन्तान् व्यादिदेश ह । धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् ।। 1.67.2 ।। जनकेन समादिष्टाः सचिवाः प्राविशन् पुरीम् । तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ।। 1.67.3 ।। सामन्तान् कर्मसचिवान् ।। 1.67.2,3 […]

66 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षट्षष्टितमः सर्गः ततः प्रभाते विमले कृतकर्मा नराधिपः । विश्वामित्रं महात्मानमाजुहाव सराघवम् ।। 1.66.1 ।। एवं स्वमातृशापमोचनघटकत्वकृतोपकारस्मृत्या शतानन्दप्रतिपादितेन प्रासङ्गिकेन विश्वामित्रचरित्रेण उपकारकगुरुवैभवो ज्ञेयः, कामक्रोधौ सर्वदा दुर्निरोधौ, जितकामक्रोध एव ब्राह्मणोत्तमः, ब्राह्मण्यं च न सुलभम्, ब्रह्मविदपचारः सर्वारम्भनिरोधकः इत्यादिव्यञ्जितमिति प्रबन्धगतवस्तुना वस्तुध्वनिः । अथ स्वयमेव समस्तजनरक्षणावसरप्रतीक्षो भगवान् देवशरणागतिं व्याजीकृत्य रावणवघायावतीर्णस्तदवान्तरोपायभूतां वेदवत्यवतारे स्वतः कृतसङ्कल्पां लक्ष्मीं तुल्यशीलवयोवृत्ताभिजनैव कन्या वरणीयेत्यमुमर्थविशेषं प्रवर्तयिष्यन् जनककुले ऽवतार्य […]

65 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चषष्टितमः सर्गः अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः । पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ।। 1.65.1 ।। अथ विश्वामित्रस्य ब्रह्मर्षित्वप्राप्तिः पञ्चषष्टितमे–अथ हैमवतीमित्यादि ।। 1.65.1 ।। मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् । चकाराप्रतिमं राम तपः परमदुष्करम् ।। 1.65.2 ।। वर्षसहस्रस्य वर्षसहस्रसम्बन्धि, तत्साध्यमित्यर्थः । मौनव्रतं मौनरूपं व्रतम् । कृत्वा सङ्कल्प्येत्यर्थः ।। 1.65.2 ।। पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् […]

64 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुःषष्टितमः सर्गः सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया । लोभनं कौशिकस्येह काममोहसमन्वितम् ।। 1.64.1 ।। अथ रम्भया तपोविघ्नश्चतुःषष्टितमे–सुरकार्यमित्यादि । लोभनं प्रलोभनम् । काममोहेन कामकृतवैचित्त्येन । समन्वितं युक्तम् । इह अस्मिन् काले । कौशिकप्रलोभनरूपं सुमहत् सुरकार्यं कर्त्तव्यमित्यन्वयः ।। 1.64.1 ।। तथोक्ता साप्सरा राम सहस्राक्षेण धीमता । व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ।। 1.64.2 ।। व्रीडिता अशक्यार्थवचननिमित्तलज्जावती ।। 1.64.2 […]

63 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रिषष्टितमः सर्गः पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् । अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ।। 1.63.1 ।। पुत्रविषयक्रूरशापदानेन क्रोधनिर्जयाभावान्न ब्रह्मर्षित्वसिद्धिरित्याह त्रिषष्टितमे–पूर्ण इत्यादि । व्रतस्नातं व्रतान्ते स्नातम्, समाप्तपुरश्चरणमिति यावत् । तपःफलचिकीर्षवः तपःफलं दातुमिच्छवः ।। 1.63.1 ।। अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः । ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ।। 1.63.2 ।। अब्रवीदिति । ऋषिस्त्वमसि पूर्वतपसा राजर्षिरसि इदानीमृषिरेवासि, […]

62 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्विषष्टितमः सर्गः शुनःशेपं नरश्रेष्ठगृहीत्वा तु महायशाः । व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ।। 1.62.1 ।। अथ शुनःशेपस्य शरणागतिरुच्यते द्विषष्टितमे–शुनःशेपमित्यादि ।। 1.62.1 ।। तस्य विश्रममाणस्य शुनःशेपो महायशाः । पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह । तप्यन्तमृषिभिः सार्द्धं मातुलं परमातुरः ।। 1.62.2 ।। तस्य विश्रममाणस्य तस्मिन्विश्राम्यति सति । आगम्येत्यत्र “वा ल्यपि” इत्यनुनासिकलोपाभावः पक्षे । मातुलं “ऋचीकाय कौशिकी प्रतिपादिता” […]

61 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकषष्टितमः सर्गः विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् । अब्रवीन्नरशार्दूलस्सर्वांस्तान् वनवासिनः ।। 1.61.1 ।। अथ शरणागतशुनःशेपरक्षणोचितशक्तिं वक्तुं तपो ऽन्तरमाहैकषष्टितमे–विश्वामित्र इत्यादि । तान् स्वाज्ञया समागतान् । वनवासिनः स्वतपोवनवासिनः ।। 1.61.1 ।। महान् विघ्नः प्रवृत्तो ऽयं दक्षिणामास्थितो दिशम् । दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ।। 1.61.2 ।। महानिति । यो ऽहं दक्षिणां दिशमास्थितः तस्य मे महान् विघ्नः प्रवृत्त […]

60 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षष्टितमः सर्गः तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान् । ऋषिमध्ये महातेजा विश्वामित्रो ऽभ्यभाषत ।। 1.60.1 ।। अथ सशरीरस्य त्रिशङ्कोः स्वर्गप्रापणं षष्टितमे–तप इत्यादि ।। 1.60.1 ।। अयमिक्ष्वाकु दायादस्त्रिशङ्कुरिति विश्रुतः । धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः । तेनानेन शरीरेण देवलोकजिगीषया ।। 1.60.2 ।। अयमिति सार्द्धः । दायमत्तीति दायादः, पुत्रपौत्रादिः । पचाद्यच् । वंश इति यावत् । तेन […]

59 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः  एकोनषष्टितमः सर्गः उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः । अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम् ।। 1.59.1 ।। जातिचण्डालस्य कदाचित्तद्भावनिवृत्तिरस्ति, नतु कर्मचण्डालस्येत्याह एकोनषष्टितमे उक्तवाक्यमित्यादि । साक्षाच्चण्डालरूपिणं चण्डालचिह्नधारित्वान्न शास्त्रगम्यचण्डालभाव इत्यर्थः ।। 1.59.1 ।। ऐष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् । शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव ।। 1.59.2 ।। अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः । यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ।। 1.59.3 […]

58 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः अष्टपञ्चाशः सर्गः ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् । ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ।। 1.58.1 ।। गुरुत्यागिनां फलं दर्शयत्यष्टपञ्चाश्ो–ततस्त्रिशङ्कोरित्यादि । क्रोधसमन्वितमिति शतविशेषणम् ।। 1.58.1 ।। प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना । तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ।। 1.58.2 ।। प्रत्याख्यात इति । शाखान्तरम् आश्रयान्तरम् ।। 1.58.2 ।। इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः । न चातिक्रमितुं शक्यं वचनं सत्यवादिनः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.