05 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामदारण्यकाण्डे पञ्चमः सर्गः हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् । अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ।। 3.5.1 ।। एवं विराधवनवासिमुमुक्षुमुनिजनशरणागतेरानुषङ्गिकफलभूतं विराधवधमभिधाय खरादिवधफलशरभङ्गाश्रमवासिमुनिजनशरणागतिं दर्शयिष्यन् तदुचितसौलभ्यदर्शनाय शरभङ्गाश्रमवनगमनं दर्शयति पञ्चमे हत्वेत्यादि । परिष्वज्य समाश्वास्य चेति विराधाङ्कस्पर्शजभयदुःखव्रीडाशान्त्यर्थमिति भावः ।। 3.5.1 ।। कष्टं वनमिदं दुर्गं न च स्म वनगोचराः । […]

04 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्थः सर्गः ह्रियमाणै तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ । उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ।। 3.4.1 ।। अथ परमपुरुषवहनफलं वक्तुमुक्रमते ह्रियमाणावित्यादि । चुक्रोश रामस्यातिमानुषं चरित्रमवगच्छन्त्यपि स्नेहातिशयेन व्याकुला रुरोदेत्यर्थः ।। 3.4.1 ।। एष दाशरथी रामस्सत्यवाञ्च्छीलवाञ्छुचिः । रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ।। 3.4.2 ।। सत्यवान् सत्यवचनवान् । शीलवान् सदाचारसम्पन्नः । शुचिः ऋजबुद्धिः ।। […]

03 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे तृतीयः सर्गः अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम् । आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ।। 3.3.1 ।। अथ विराधानुग्रहाय तदाक्रमणं तृतीये अथोवाचेत्यादि । पूरयन्, शब्देनेति शेषः । आत्मानं युष्मत्स्वरूपं पृच्छते मह्यमिति शेषः । ब्रूतमिति लोण्मध्यमपुरुषद्विचनम् । प्रश्नप्रकारमाह काविति ।। 3.3.1 ।। तमुवाच ततो रामो राक्षसं ज्वलिताननम् । पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः […]

02 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वितीयः सर्गः कृतातिथ्यो ऽथ रामस्तु सूर्यस्योदयनं प्रति । आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ।। 3.2.1 ।। एवं प्रथमसर्गेण सिद्धसाधननिष्ठानां मुमुक्षूणां मुनीनां तदीयपर्यन्तं विशिष्टविषयकैङ्कर्यं प्रतिपाद्य खरवधार्थिंमुनिजनशरणागतिं वक्ष्यन् शरण्यत्वोपयोगिसामर्थ्यं विराधवधकथनमुखेन बोधयितुमुपक्रमते कृतातिथ्य इत्यादिना । अत एव सङ्क्षेपे “विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह” इत्यत्र विराधवधोपहारमुखेन शरभङ्गं दृष्टवानिति व्याख्यातम् । तुशब्देन अत्र्यादिकृतातिथ्याद्वैलक्षण्यमुच्यते । अनन्यप्रयोजनदत्तं […]

01 Sarga अरण्यकाण्डः

।। अरण्यकाण्डः ।।।। श्लोकसहितव्याख्यानम् ।। (1सर्गतः 16सर्गपर्यन्तम्) श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे प्रथमः सर्गः वात्स्यश्रीशठकोपदेशिकवरश्रीपादरेण्वञ्जनैः दृष्ट्या निर्मलया निरीक्ष्य बहुधा वल्मीकजन्माशयम् । श्रीमत्कौशिकवंशसागरमणिर्गोविन्दराजाह्वयो व्याचक्षे ऽहमरण्यकाण्डमधुना पश्यन्तु निर्मत्सराः ।। श्रीरामायणराजस्य दत्त्वा पीताम्बरं महत् । अर्पये परया लक्ष्म्या राजन्तीं रत्नमेखलाम् ।। प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ।। 3.1.1 ।। ।। श्रीरङ्गेशाय नमः ।। एवं पूर्वस्मिन् काण्डे […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.