109 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवोत्तरशततम: सर्ग: जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: । उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ।। 2.109.1 ।। अथ जाबालिमतनिरासपूर्वकं वैदिकमतस्थापनं नवोत्तरशततमे सर्गे–जाबालेरित्यादिना । सत्यात्मनां सत्यबुद्धीनां भक्त्या वैदिकधर्मश्रद्धया । अविपन्नया जाबालिवचनै: सांदृष्टिकैरप्यचलितया ।। 2.109.1 ।। भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ।। 2.109.2 ।। भवानिति । प्रियकामार्थं प्रियविषयेच्छासिद्ध्यर्थं यद्वचनमुक्तवान् […]
108 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टोत्तरशततम: सर्ग: आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तम: । उवाच रामं धर्मज्ञं धर्मापेतमिदं वच: ।। 2.108.1 ।। एवं रामेणोक्ते निरुत्तरतया स्थितं भरतमालोक्य हितपरतया जाबालिश्चार्वाकमतमाश्रित्योत्तरमाह अष्टोत्तरशततमे–आश्वासयन्तमित्यादिना । ब्राह्मणोत्तम इत्यनेन वक्ष्यमाणं नास्तिकवचनमहृदयमिति द्योत्यते । धर्मापेतं वैदिकधर्मापेतम् ।। 2.108.1 ।। साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका । प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विन: ।। 2.108.2 ।। साध्विति । बुद्धि: साधु माभूत् […]
107 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततम: सर्ग: पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: । प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ।। 2.107.1 ।। उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: । जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ।। 2.107.2 ।। पुनरित्यादि । अभिसत्कृत: भरतेन स्तोत्रादिना सम्यगभिपूजित: ।। 2.107.12 ।। पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ।। 2.107.3 ।। […]
106 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकव्ये श्रीमदयोध्याकाण्डे षडुत्तरशततम: सर्ग: एवमुक्त्वा तु विरते रामे वचनमर्थवत् । ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् । उवाच भरतश्चित्रं धार्मिको धार्मिकं वच: ।। 2.106.1 ।। को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम । न त्वां प्रव्यथयेद्दु:खं प्रीतिर्वा न प्रहर्षयेत् ।। 2.106.2 ।। एवमुक्त्वा त्विति । निरुत्तरमुक्तवन्तं रामं प्रति मुखान्तरेण उत्तरस्योच्यमानत्वाच्चित्रमित्युक्तम् ।। 2.106.12 ।। सम्मतश्चासि वृद्धानां तांश्च पृच्छसि […]
105 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततम: सर्ग: तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: । शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ।। 2.105.1 ।। अथ पुनर्भरतस्य कैकेयीनिर्बन्धकृतपितृनियोगपरिहारोचितवचनपूर्वकं प्रार्थनम्, रामस्य च तत्समाश्वासनं तत्त्वोपदेशेनेत्येतत्पञ्चोत्तरशततमे–तत: पुरुषसिंहानामित्यादि ।। 2.105.1 ।। रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: । मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ।। 2.105.2 ।। तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् । भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ।। […]
104 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततम: सर्ग: तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम् । लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ।। 2.104.1 ।। अथ रामभरतयोरुक्तिप्रत्युक्ती चतुरुत्तरशततमे–तं त्वित्यादिना । गुरुवत्सलं गुरौ स्वस्मिन् भक्तम्, समाज्ञाय ज्ञात्वा प्राप्तराज्यपरित्यागेन जटावल्कल धारणादिना च स्वस्मिन् भक्तियुक्तं ज्ञात्वेत्यर्थ: । समाश्वास्येति पाठे–प्रियवचनादिभि: सम्यगाश्वास्येत्यर्थ: ।। 2.104.1 ।। किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया । यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ।। […]
103 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततम: सर्ग: वसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च । अभिचक्राम तं देशं रामदर्शनतर्षित: ।। 2.103.1 ।। राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति । ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ।। 2.103.2 ।। कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता । सुमित्रामब्रवीद्दीना याश्चान्या राजयोषित: ।। 2.103.3 ।। अथ मातृसमागमस्त्र्युत्तरशततमे–वसिष्ठ इति । रामदर्शनतर्षित: रामदर्शने सञ्जाताभिलाष: । “कामो ऽभिलाषस्तर्षश्च” इत्यमर: ।। […]
102 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततम:सर्ग: तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । राघवो भरतेनोक्तां बभूव गतचेतन: ।। 2.102.1 ।। तामित्यादि । करुणां शोकावहाम् । यद्वा अकरुणां करुणारहिताम्, क्रूरामिति यावत् ।। 2.102.1 ।। तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा । वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ।। 2.102.2 ।। प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: । वने परशुना कृत्तस्तथा भुवि पपात […]
101 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग: रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ।। 2.101.1 ।। रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह इत्यादि अयं सर्ग एवात्र लेखनीय: । ‘तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम्’ इत्यादिसर्गस्तु लेखकै: प्रमादाल्लिखित: । तस्योक्तप्रश्नोत्तरत्वाभावात् । अत्र भरतोच्यमानपितृमरणश्रवणानन्तरं रामस्य दु:खितत्वाश्रवणात् । अत्र महेश्वरतीर्थेन सर्गपौर्वापर्यवैपरीत्यमनालोच्य स्वदृष्टकोशमात्रप्रामाण्येन ‘तं तु […]
100 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे शततम: सर्ग: जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ।। 2.100.1 ।। दर्शनमात्रेण भरतो राज्यं पालयतीति कृत्वा राज्यनीतिं पृच्छति शततमे–जटिलमिति । यद्वा अथ भगवान् राम: प्रश्नव्याजेन राज्यरक्षणनीतिप्रकारान् शिक्षयति, पश्चाद्दशरथात्ययश्रवणभरतस्थण्डिलशयनादिव्यापारेण तदुपदेशावकाशाभावात् । जटिलमित्यादि । जटिलं, समीचीनमालिका दृष्टा चेदियं भरतस्य केशार्हेत्येवं दशरथो वदति स एव जटां बद्ध्वा तिष्ठतीति […]