99 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततम: सर्ग: निविष्टायां तु सेनायामुत्सुको भरतस्तदा । जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ।। 2.99.1 ।। अथ भरतस्य रामसङ्गम एकोनशततमे–निविष्टेत्यादिना । निविष्टायां सेनायाम्, स्वयं तत्र क्षणं निविष्ट: सन् । उत्सुक: साभिलाष: । शत्रुघ्नमनुदर्शयन् । अनु: कर्मप्रवचनीय: । शत्रुघ्नस्य रामाश्रमसामीप्यचिह्नानि प्रदर्शयन् जगाम ।। 2.99.1 ।। ऋषिं वसिष्ठं सन्दिश्य मातृ़र्मे शीघ्रमानय । इति त्वरितमग्रे स […]

98 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टनवतितम: सर्ग: निवेश्य सेनां तु विभु: पद्भ्यां पादवतां वर: । अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ।। 2.98.1 ।। निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् । भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ।। 2.98.2 ।। अथ भरतस्य रामप्राप्तिरष्टनवतितमे सर्गे–निवेश्येत्यादिना । गुरुवर्तकं गुरुवचनानुवर्तकम् ।। 2.98.12 ।। क्षिप्रं वनमिदं सौम्य नरसङ्घै: समन्तत: । लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ।। 2.98.3 ।। […]

97 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तनवतितम: सर्ग: सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम् । रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ।। 2.97.1 ।। अथ कुपितपरिसान्त्वनं सप्तनवतितमे–सुसंरब्धमित्यादि । पूर्वं सुसंरब्धं सुतरां प्रीतम् । “संरम्भ: प्रणयेपि च” इत्यमर: । अद्य तु तद्वैलक्षण्येन क्रोधमूर्च्छितम् । यद्वा क्रोधमूर्च्छितत्वादेव सुसंरब्धं क्रोधकार्ययुद्धौन्मुख्ययुक्तम् । तत्र हेतु: सपत्नीपुत्रत्वमित्याह सौमित्रिमिति । यद्वा सुमित्रापुत्रत्वस्मारणपूर्वकमुक्तवानिति द्योत्यते । रामस्तु इदं वचनं […]

96 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षण्णवतितम: सर्ग: तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् । निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ।। 2.96.1 ।। एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरति–तामित्यादिना । गिरिनिम्नगां गिरिनदीम् । मांसेन छन्दयन् वशीकुर्वन् । “वशाभिप्राययोश्छन्द:” इति वैजयन्ती ।। 2.96.1 ।। इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना । एवमास्ते स धर्मात्मा सीतया सह राघव: ।। 2.96.2 ।। वशीकरणप्रकारमाह–इदमित्यादिना । इदं […]

95 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: । अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ।। 2.95.1 ।। एवं वनगिरिप्रदर्शनेनोपलाल्य नदीप्रदर्शनेनापि लालयति–अथेत्यादिना ।। 2.95.1 ।। अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् । विदेहराजस्य सुतां रामो राजीवलोचन: ।। 2.95.2 ।। अब्रवीदिति । वचने हेतु: तत्सौन्दर्यमित्याशयेनोक्तम्–वरारोहामित्यादि । वरारोहाम् आरुह्यत इति आरोहो जघनम्, गुरुजघनामित्यर्थ: । चारुचन्द्रनिभाननामित्यनेन रतिरमणनिदर्शितवनगिरिविलोकनकुतूहलविकसितवदनत्वमुक्तम् । राजीवलोचन: विस्मयोत्फुल्लनयन इत्यर्थ: […]

94 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितम: सर्ग: दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: । वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ।। 2.94.1 ।। अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् । भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ।। 2.94.2 ।। एवमेतावत्पर्य्यन्तं भरतकथां प्रस्तुत्य रामस्य चित्रकूटप्रवेशानन्तरदिनेषु विहारतारतम्याभावात् भरतप्राप्तिदिनसम्भूतविहारविशेषान् वर्णयति–दीर्घकालेत्यादिना सर्गद्वयेन । आदौ श्लोकद्वयमेकान्वयम् । अथ प्रात:कर्त्तव्यकर्मानुष्ठानानन्तरम् । तस्मिन् गिरौ चिरपरिचयेपि वैलक्षण्यातिशयादपूर्ववद्भासमाने । दीर्घकालोषित: मासमात्रमुषितोपि गिरिवनप्रिय: “नवंनवं प्रीतिरहो […]

93 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिनवतितम: सर्ग: तया महत्या यायिन्या ध्वजिन्या वनवासिन: । अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ।। 2.93.1 ।। तयेत्यादि । यायिन्या गच्छन्त्या । अर्दिता: पीडिता: । यूथपा: गजादियूथनाथा: । “यूथनाथस्तु यूथप:” इत्यमर: ।। 2.93.1 ।। ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: । दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ।। 2.93.2।। ऋक्षा इति । पृषतसङ्घा: बिन्दुमन्मृगसङ्घा: । […]

92 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विनवतितम: सर्ग: ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: । कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ।। 2.92.1 ।। तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् । हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ।। 2.92.2 ।। तत इत्यादि । व्युष्य विशेषेणोषित्वा । सपरिच्छद: सपरिवार: । “परिवार: परिकर: परिष्कन्द: परिग्रह: । तथोपकरणं प्रोक्तं परिबर्ह: परिच्छद: ।।” इति हलायुध: कामात् रामप्राप्तीच्छया […]

91 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितम: सर्ग: कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ।। 2.91.1 ।। कृतेति । तत्रैवाश्रमे निवासाय कृतबुद्धिं निश्चितबुद्धिं भरतं स मुनि: आतिथ्येन भोजनपर्य्यन्तातिथिसत्काराय न्यमन्त्रयत् प्रार्थयामास ।। 2.91.1 ।। अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ।। 2.91.2 ।। अब्रवीदिति । वने यत्फलमूलादिकम् उपपद्यते लभ्यते तेन तापसाहारेणातिथ्यं कृतम्, […]

90 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितम: सर्ग: भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: । बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ।। 2.90.1 ।। पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: । वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ।। 2.90.2 ।। भरद्वाजाश्रममित्यादिश्लोकद्वयमेकान्वयम् । क्रोशादेव क्रोशात् पूर्वमेव, क्रोशमात्रव्यवहितदेश इत्यर्थ: । न्यस्तशस्त्रपरिच्छद: परिच्छद: आभरणादिकं भृङ्गाराद्युपकरणजातं च । वसानो वाससी क्षौमे भरद्वाजसेवार्थमुष्णीषकञ्चुकादिकमपहाय परिधानमुत्तरीयं च धृत्वा गत इत्यर्थ: […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.