89 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितम: सर्ग: व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: । भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। 2.89.1 ।। व्युष्येति । व्युष्य उषित्वा । रात्रिं रात्रौ । तत्रैव यत्र रामो ऽशयिष्ट तत्रैव । काल्यं प्रत्यूष: । “प्रत्यूषो ऽहर्मुखं काल्यम्” इत्यमर: । तस्मिन्नित्यर्थ: ।। 2.89.1 ।। शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । शीघ्रमानय भद्रं ते […]

88 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टाशीतितम: सर्ग: तच्छ्रुत्वा निपुणं सर्वं भरत: सह मन्त्रिभि: । इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ।। 2.88.1 ।। अब्रवीज्जननी: सर्वा इह तेन महात्मना । शर्वरी शयिता भूमाविदमस्य विमर्दितम् ।। 2.88.2 ।। तदित्यादिश्लोकद्वयमेकं वाक्यम् । निपुणं सावधानमित्यर्थ: । तेन रामेण । इह भूमौ । शर्वरीशयिता शर्वर्य्यां शयनं कृतम् । निष्ठाया अधिकरणत्वस्याभिहितत्वाच्छर्वरीशब्दात् प्रथमा, इदमेषामासितमितिवत् । इदमस्य […]

87 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ताशीतितम: सर्ग: गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् । ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ।। 2.87.1 ।। गुहस्येति । यत्र तत्रैव यत्र क्षणे अप्रियं श्रुतं तत्रैवेत्यर्थ: । यद्वा यत्र विषये अप्रियं श्रुतं तत्रैव ध्यानं जगाम स्वाभिलषितकार्य्यसङ्कटं जातमिति चिन्तापारवश्यं प्राप्त इत्यर्थ: ।। 2.87.1 ।। सुकुमारो महासत्त्व: सिंहस्कन्धो महाभुज: । पुण्डरीकविशालाक्षस्तरुण: प्रियदर्शन: ।। 2.87.2 […]

86 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडशीतितम: सर्ग: आचचक्षे ऽथ सद्भावं लक्ष्मणस्य महात्मन: । भरतायाप्रमेयाय गुहो गहनगोचर: ।। 2.86.1 ।। आचचक्ष इत्यादि । अथ आश्वासनानन्तरम् । सद्भावं ज्येष्ठानुवर्तनरूपं समीचीनस्वभावम् । आचचक्ष इत्यादि भगवद्विषयोपदेशे नूतनपुरातनविभागो नास्ति । देशिका वक्तार: सादरा: श्रोतार इत्याह । आङीषदर्थे । स्ववागिन्द्रियविषयमेवावदत् नतु कार्त्स्न्येन । अथ भरतस्वभावज्ञानानन्तरम् । सद्भावं ‘बाल्यात्प्रभृति सुस्निग्ध:’ इति सत्ताव्याप्तं स्वभावम् […]

85 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चाशीतितम: सर्ग: एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् । प्रत्युवाच महाप्राज्ञो वाक्यं हेत्यर्थसंहितम् ।। 2.85.1 ।। एवमिति । हेत्वर्थसंहितम् उपपत्तिप्रयोजनाभ्यां युक्तम् ।। 2.85.1 ।। ऊर्जित: खलु ते काम: कृतो मम गुरो: सखे । यो मे त्वमीदृशीं सेनामेकोभ्यर्चितुमिच्छसि ।। 2.85.2 ।। ऊर्जित इति । स्वस्य रामविषयभक्तिं द्योतयितुं मम गुरो: सखे इत्युक्तम् । यस्त्वमेक एव […]

84 Sarga अयोध्याकाण्डम्

श्रीरामयणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरशीतितम: सर्ग: ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् । निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितो ऽब्रवीत् ।। 2.84.1 ।। तत इत्यादि । गङ्गामन्वाश्रितां प्राप्ताम् अत एव निविष्टां कृतनिवेशां ध्वजिनीं सेनां दृष्ट्वा । सन्त्वरित: ससम्भ्रम: ।। 2.84.1 ।। महतीयमित: सेना सागराभा प्रदृश्यते । नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ।। 2.84.2 ।। महतीति । इत: इह श्रृङ्गिबेरपुरे । […]

83 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्यशीतितम: सर्ग: तत: समुत्थित: काल्यमास्थाय स्यन्दनोत्तमम् । प्रययौ भरत: शीघ्रं रामदर्शनकाङ्क्षया ।। 2.83.1 ।। अग्रत: प्रययुस्तस्य सर्वे मन्त्रिपुरोधस: । अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् ।। 2.83.2 ।। तत इति । काल्यम् अहर्मुखम् । “प्रत्यूषो ऽहर्मुखं काल्यम्” इत्यमर: । प्राप्येति शेष: ।। 2.83.12 ।। नवनागसहस्राणि कल्पितानि यथाविधि । अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ।। 2.83.3 ।। […]

82 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्यशीतितम: सर्ग: तामार्यगणसम्पूर्णां भरत: प्रग्रहां सभाम् । ददर्श बुद्धिसम्पन्न: पूर्णचन्द्रो निशामिव ।। 2.82.1 ।। तामिति । प्रग्रहां नियमवतीम् । यद्वा शुक्रबृहस्पत्यादिप्रकृष्टग्रहयुक्ताम्, तदा निशाविशेषणमिदम् ।। 2.82.1 ।। आसनानि यथान्यायमार्याणां विशतां तदा । वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा ।। 2.82.2 ।। आसनानि विशताम् आसनेषूपविशतामित्यर्थ: ।। 2.82.2 ।। सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा । अदृश्यत […]

81 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकाशीतितम: सर्ग: ततो नान्दीमुखीं रात्रिं भरतं सूतमागधा: । तुष्टुवुर्वाग्विशेषज्ञा: स्तवैर्मङ्गलसंहितै: ।। 2.81.1 ।। तत इति । नान्दीमुखीं रामानयनाभ्युदयप्रारम्भयुक्ताम् । यद्वा भरताभिषेकाय वसिष्ठेन कृतनान्दीमुखाभ्युदययुक्ताम् । यद्वा शोकविगमाय कृताभ्युदयामित्यर्थ: । रात्रिं रात्रौ, अपररात्र इत्यर्थ: । यद्वा रात्रिं प्राप्येति शेष: । मङ्गलसंहितै: मङ्गलशब्दसहितै: ।। 2.81.1 ।। सुवर्णकोणाभिहत: प्राणदद्यामदुन्दुभि: । दध्मु: शङ्खांश्च शतशो नादांश्चोच्चावचस्वरान् ।। […]

80 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अशीतितम: सर्ग: अथ भूमिप्रदेशज्ञा: सूत्रकर्मविशारदा: । स्वकर्माभिरता: शूरा: खनका यन्त्रकास्तथा ।। 2.80.1 ।। कर्मान्तिका: स्थपतय: पुरुषा यन्त्रकोविदा: । तथा वर्द्धकयश्चैव मार्गिणो वृक्षतक्षका: ।। 2.80.2 ।। कूपकारा: सुधाकारा वंशकर्मकृतस्तथा । समर्था ये च द्रष्टार: पुरतस्ते प्रतस्थिरे ।। 2.80.3 ।। अथेत्यादि । भूमिप्रदेशज्ञा: । निम्नोन्नतादिप्रदेशज्ञा: । यद्वा नानादेशविद: । सूत्रकर्मविशारदा: सूत्रकर्मणि निर्जलप्रदेशेष्वगाधवापीकूपादिजलोद्धारसूत्रकर्मणि विशारदा: […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.