04 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्थः सर्गः अगस्त्यमुखाल्लङ्कायां कुबेरनिवासात्पूर्वमपिराक्षसस्थितिश्रवणविस्मितेनरामेण तंप्रति राक्षसमूलकथनप्रार्थना ॥ १ ॥ अगस्त्येनतंप्रति यक्षराक्षसशब्दप्रवृत्तिनिमित्तकथनपूर्वकं रक्षःकुलमूलभूतहेतिवंशकथनारंभः ॥ २ ॥ हेतिसुताद्विद्युत्केशात्सुकेशोत्पत्तिः ॥ ३ ॥ पार्वती -परमेश्वराभ्यां तस्मैवरदानम् ॥ ४ ॥ श्रुत्वाऽगस्त्येरितं वाक्यं रामो विस्मयमागतः । कथमासीत्तु लङ्कायां संभवो रक्षसां पुरा ॥ १ ॥ लङ्कायां धनदाधिष्ठानात्पूर्वमपि रक्षसां संभवः अपःस्थानादिसंभवः इति यदुक्तं तच्छ्रुत्वा विस्मयमागत इत्यन्वयः ॥ १ ॥ […]
03 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे तृतीयः सर्गः विश्रवसोमुनिवरात्कुबेरोत्पत्तिः ॥ १ ॥ कुबेरतपस्तुष्टेनपरमेष्ठिना तस्मै दिक्पतित्वधन -पतित्ववरदानम् ॥ २ ॥ कुबेरेण स्वपितृतियोगेन राक्षसाधिष्ठितपूर्वलङ्कायां स्वजनैः सहनिवासः ॥ ३ ॥ अथ पुत्र: पुलस्त्यस्य विश्रवा मुनिपुङ्गवः । अचिरेणैव कालेन पितेव तपसि स्थितः ॥ १ ॥ सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः । सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ २ ॥ ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः […]
02 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वितीयः सर्गः रामेणेन्द्रजित्प्रतापातिशयंपृष्टेनागस्त्येन तदुपोद्धाततया रावणकुलमूलानुकीर्तनारंभः ।। १ ।। पुलस्त्यविश्रवसोरुत्पत्तिः ।। २ ।। तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । कुम्भयोनिर्महातेजा राममेतदुवाच ह ॥ १ ॥ शृणु राम कथावृत्तं तस्य तेजोबलं महत् । जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ २ ॥ असौ रावणिः न च शत्रुभिर्वध्यः । तत्कारणं शृण्विति संबन्धः ॥ […]
01 Sarga उत्तरकाण्डः
।। श्रीः ।। श्रीमद्वाल्मीकिरामायणम् ।। श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उत्तरकाण्डम् ।। ७ ।। श्रीरामचन्द्राय नमः ॥ श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे प्रथमः सर्गः रावणवधानन्तरमयोध्यायां सीतयासहराज्याभिषिक्तेश्रीरामे कदाचनसिंहासनमलङ्कु -र्वाणे अगस्त्येनदिक्चतुष्टयनिवासिमुनिगणैःसह श्रीरामसमीपंप्रत्यागमनम् ॥ १ ॥ रामेण यथार्हम -र्चितेषुमुनिगणेष्वासनोपविष्टेषु अगस्त्येनमुनिजनैःसह श्रीरामंप्रति रावणादिविजयप्रशंसन -पूर्वकं विशेषतइन्द्रजिद्विजयप्रशंसने रामेण तंप्रतीन्द्रजित्प्रतापादिप्रश्नः ॥ २ ॥ प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । आजमुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ १ ॥ […]