02 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वितीयः सर्गः सुग्रीवेणरामंप्रति समाश्वासनपूर्वकंमध्ये समुद्रं सेतुबन्धनिर्धारण पूर्वकंतदुपायचिन्तन -प्रार्थना ॥ १ ॥ तथातंप्रति वानरपराक्रमादिप्रशंसनपूर्वकं शुभशकुन निवेदनेनशत्रुजय -निर्धारणोक्तिः ॥ २ ॥ तं तु शोकपरिद्यूनम् रामम् दशरथात्मजम् । उवाच वचनम् श्रीमान् सुग्रीवः शोकनाशनम् ॥ १ ॥ एवं शोकसंभ्रान्तं राममवलोक्य समदुःखतया सच्छोकमसहमानः सुग्रीव : आपद्युन्मार्गगमने कार्यकालात्ययेषु च । अपृष्टोपि हितान्वेषी ब्रूयात्कल्याणभाषितं इति नीतिशास्त्रमनुस्मरन् शोकनिवारकंवचनमुवाचेत्याह- तंत्विति […]
01 Sarga युद्धकाण्डः
।। श्रीः ।। श्रीमद्वाल्मीकियरामायणम् । श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् श्रीरामचन्द्राय नमः ॥ युद्धकाण्डः॥ श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रथमः सर्गः हनुमन्मुखादवगतसीतावृत्तान्तेनश्रीरामेणहनुमन्तंप्रतिप्रशंसनपूर्वकं तस्कृतसीतान्वेषणा -युपकारप्रत्युपकारतयासर्वस्वदानप्रतिनिधिभूत स्वात्मप्रदानरूपपरिष्वङ्ग करणम् ॥ १ ॥ तथा सुग्रीवसंनिधौहनुमन्तंप्रति सागरस्यदुस्तरतयासीताम्वेषणा दिप्रयासस्यनिष्फलत्योत्त्या सागरतरणोपायानधिगमेनपरिचिन्तनम् ॥ २ ॥ श्रुत्वा हनुमतो वाक्यम् यथावदभिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ १ ॥ श्रीरामचन्द्राय नमः ॥ आचार्यं शठकोपदेशिकवरं प्राचार्यपारंपरीमप्यानम्य सनारदं कुशलवाचार्यं । मुनीनां वरम् । पूर्वाचार्यकृता […]