111 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशोत्तरशततमः सर्गः रावणस्य पूर्वपूर्वस्मिन्शिरसिछिन्नेछिन्नेपि पुनः पुनः शिरोन्तरप्ररोहेसति मातलिसमु -द्बोधितेन रामेण ब्रह्मास्त्रेण रावणहृदयविभेदनम् ॥ १ ॥ रावणेहते हर्षादिन्द्रादिभी रामरथोपरिपुष्पवर्षणम् ॥ २ ॥ सुग्रीव विभीषणादिभिर्हर्षाच्छ्रीरामाभिपूजनम् ॥ ३ ॥   अथ संस्मारयामास राघवं मातलिस्तदा । अजानन्निव किं वीर त्वमेनमनुवर्तते ॥ १ ॥ विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो । विनाशकालः कथितो यः सुरैः सोद्य वर्तते […]

110 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशोत्तरशततमः सर्गः रामेण रावणस्यैकैकशिरश्छेदे पुनः पुनः शिरोन्तरप्ररोहे एकोत्तरशतवारं तावच्छिरसांछेदनम् ॥ १ ॥   तौ तदा युध्यमानौ तु समरे रामरावणौ । ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥ १ ॥ अथ रावणशिरश्छेदः – तौ तदेत्यादि ॥ समरे युद्धभूमौ । तदा उत्पातकाले । अन्तरात्मना अन्तःकरणेन उपलक्षितानि ॥ १ ॥   अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ । […]

109 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवोत्तरशततमः सर्गः रामरावणयोः समसमरः ॥ १ ॥   ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा । सुमहद्वैरथं युद्धं सर्वलोकभयावहम् ॥ १ ॥ द्वैरथं द्वाभ्यां रथाभ्यां प्रवृत्तं युद्धं प्रवृत्तमिति योजना ॥ १ ॥   ततो राक्षससैन्यं च हरीणां च महद्बलम् । प्रगृहीतमहरणं निश्रेष्टं समतिष्ठत ॥ २ ॥ निश्चेष्टं समतिष्ठत । युद्धाद्भुतदर्शनकुतूहलादिति भावः ॥ २ ॥ […]

108 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टोत्तरशततमः सर्गः स्वाभिमुख समागच्छद्दशमुखरथावलोकिनादाशरथिना चोदितेनमातलिना दशमुख -मुखाभिमुखतया निजरथचोदना ॥ १ ॥ ततोनिजसमरसमालोकनकुतूहलेन गगनाङ्गणमलं -कुर्वाणेसुरमुख सुजनगणे निजविजयपरपराजयसूचकनिमित्तोदयदर्शिना दाशरथिना हर्षेणसमरोद्यमनम् ॥ २ ॥   स रथं सारथिर्हृष्टः परसैन्यप्रधर्पणम् । गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ॥ १ ॥ युक्तं परमसंपन्नैर्वाजिभिर्हेममालिभिः । युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ॥ २ ॥ ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् । प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् ॥ […]

107 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तोत्तरशततमः सर्गः अगस्त्यर्षिणा श्रीरामायरावणवध सौकर्यायादित्यहृदयस्तोत्रोपदेशः ॥ १ ॥ श्रीराम -कृतादित्यहृदयजपतुष्टेनसूर्येण तंप्रति रावणवधत्वरणम् ॥ २ ॥ आदित्यहृदयप्रारम्भः ॥   ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ २ ॥ अथादित्यहृदयोपदेशः ॥ ततो युद्धपरिश्रान्तमित्यादिश्लोकद्वयमेकान्वयं ॥ रणं द्रष्टुं दैवतैः समागम्य […]

106 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पडुत्तरशततमः सर्गः अपवाहितरथंसारथिंप्रति क्रूद्धेनरावणेनभर्त्सनम् ॥ १ ॥ सारथिना तंप्रति रथापवहनस्य सहेतुकत्वोक्त्त्यासमाश्वासनपूर्वकं तदाज्ञया पुनारामाग्रतोरथानयनम् ॥ २ ॥   स तु मोहात्सुसंक्रुद्धः कृतान्तबलचोदितः । क्रोधसंरक्तनयनो रावणः सुतमब्रवीत् ॥ १ ॥ अथ रावणरथप्रत्यानयनं षट्शततमे स तु मोहादित्यादि ।। मोहात् अविवेकात् ॥ १ ॥   हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् । भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥ २ […]

105 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चोत्तरशततमः सर्गः रामेणरावणंप्रति सीताहरणरूपकुकर्मानुव्याहरणेनगर्हणपूर्वकं बाणगणाभिवर्षणम् ॥ १ ॥ रामबाणगणाभिघातनिर्विण्णतया कर्तव्यमूढेसतिरावणे तत्सारथिना रणाङ्गणादन्यतोरथाप -वाहनम् ॥ २ ॥   स तेन तु तथा क्रोधात्काकुत्स्थेनार्दितो रणे । रावणः समरश्लाघी महाक्रोधमुपागमत् ॥ १ ॥ स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् । अभ्यर्दयत्सुसंक्रुद्धो राघवं परमाहवे ॥ २ ॥ अथ श्रान्तस्य रावणस्य सूतेन रथापवाहनं पञ्चशततमे – स तु तेनेत्यादि […]

104 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरुत्तरशततमः सर्गः रामेण मातलिसमानीतेन्द्रशक्त्या रावणविसृष्टशूलविभेदनपूर्वकं रावणललाटोरसि -बाणैः प्रहरणम् ॥ १ ॥   तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः । सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ॥ १ ॥ सिंहशार्दूलवाञ्शैलः संचचाल चलद्रुमः । बभूव चातिक्षुभितः समुद्रः सरितांपतिः ॥ २ ॥ अथ रावणस्य शूलोद्धरणं चतुःशततमे – तस्येत्यादि ॥ १-२ ॥   खगाश्च खरनिर्घोषा गगने […]

103 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्युत्तरशततमः सर्गः रथान्तरारोहणेनपुनस्समरायसमागच्छतिरावणे इन्द्रेण रामाय मातलिसनाथनिजरथ -प्रेषणम् ॥ १ ॥ रथस्थाभ्यां रामरावणाभ्यामद्भुतयुद्धप्रवर्तनम् ॥ २ ॥ तदा लोकभयावहमहो -त्पातप्रादुर्भावः ॥ ३ ॥   लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः । संदधे परवीरघ्नो धनुरादाय वीर्यवान् । रावणाय शरान्घोरान्विससर्ज चमूमुखे ॥ १ ॥ अथान्यं रथमारुह्य रावणो राक्षसाधिपः । अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् ॥ २ […]

102 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्युत्तरशततमः सर्गः रामेणसुषेणंप्रति रावणशक्तिघातपतितलक्ष्मणप्रदर्शनपूर्वकं तस्यनिधनशङ्कया विषादेनबहुधाविलापः ॥ १ ॥ सुषेणेनरामंप्रति हेतूपन्यासेनलक्ष्मणप्राणधारणनिर्धारणो -क्त्त्यासमाश्वासनपूर्वकं हनुमन्तंप्रति विशल्यकरण्याद्योषधिसमानयनचोदना ॥ २ ॥ ओषधिगिरिंगतेनहनुमता ओषधीनामन्तर्धानेकोपादुत्पाटनेनतच्छिखरस्यैव समानयनम् ॥ ३ ॥ सुषेणेननासान्यस्तमहौषधिक्षोद समाघ्राणनमात्राद्विशल्येनलक्ष्मणेन स्वापादिव समुत्थानम् ॥ ४ ॥ सहर्षबाष्पंरामपरिष्वक्तेनलक्ष्मणेन तंप्रति सत्वरं रावणवधप्रार्थना ॥ ५ ॥ शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा । लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ।। १ ।। स […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.