52 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विपञ्चाशः सर्गः धूत्राक्षसेनाभिस्सह वानराणांमहायुद्धम् ॥ १ ॥ हनुमता गिरिशृङ्गेणधूम्राक्षहननम् ॥ २ ॥ धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् । विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ १ ॥ तेषां सुतुमुलं युद्धं संजज्ञे हरिरक्षसाम् । अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ॥ २ ॥ अथ धूम्राक्षवधो द्विपञ्चाशे – धूम्राक्षमित्यादि ।। १-२ ॥ घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः । राक्षसैर्वानरा […]

51 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः सर्गः वानराणांविषादसमयेतदीयहर्षोद्धोषश्रवणविषण्णेनरावणेन राक्षसान्प्रति तद्धर्षकारणा -वगमचोदना ॥ १ ॥ राक्षसै रणाङ्गणमेत्यतदवगमेन रावणंप्रति राघवयोर्नागास्त्रविमोक्षणस्य तत्कारणत्वनिवेदनम् ॥ २ ॥ धूम्राक्षेण रावणचोदनया राक्षसैस्सहपश्चिमद्वारगमनम् ॥ ३ ॥ तेषां सुतुमुलं शब्दं वानराणां तरंस्विनाम् । नदतां राक्षसैः सार्धं तदा शुश्राव रावणः ॥ १ ॥ अथ धूम्राक्षनिर्गम एफपञ्चाशे – तेषामित्यादि  राक्षसैः सह शुश्रावेत्यन्वयः ॥ १ ॥     […]

50 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चाशः सर्गः सुग्रीवचोदितेनजांबवता रामसमीपमागच्छतिगदापणौविभीषणे इन्द्रजिद्रामेणविद्रवतां -वानराणां तस्यविभीषणत्वभाषणेनसमाश्वासनपूर्वकं प्रतिनिवर्तनम् ॥ १ ॥ रामलक्ष्मण -समीपमेत्य सलिलेनतन्नयनपरिमार्जनपूर्वकंविलपतोविभीषणस्यसुग्रीवेणसमाश्वासनम् ॥ २ ॥ सुग्रीवेण स्वयंरावणवधप्रतिज्ञानपूर्वकं राघवयोः किष्किन्धाप्रापणं -चोदितेनसुषेणेन तंप्रति संजीव करण्यादिमहौषधिसमानयनाय क्षीरोदंप्रतिहनुमच्चोदनचोदना ॥ ३ ॥ अत्रान्तरेस्वय -मेव सत्वरसमागतेन गरुडेनरामलक्ष्मणयोनांगपाशविध्वंसनपूर्वकं परिष्वङ्गः ॥ ४ ॥ राम प्रश्नेननिजस्वरूपनिवेदनपूर्वकं सप्रदक्षिणंगतेगरुडे वानरैर्हर्षादुच्चैरुद्धोषणम् ॥ ५ ॥ अथोवाच महातेजा हरिराजो महाबलः । किमियं व्यथिता […]

49 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः नागपाशबद्धेनापिदिष्ट्याप्रबुद्धेनरामेण लक्ष्मणदुरवस्थावलोकनेनतस्य चरमावस्था -शङ्कया तंप्रतिशोचनपूर्वकंबहुधा विलापः ॥ १ ॥ घोरेण शरबन्धेन बद्धौ दशरथात्मजौ । निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ १ ॥ सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः । परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥ २ ।। अथ रामप्रबोधनमेकोनपञ्चाशे – घोरेणेत्यादिश्लोकद्वयमेकान्वयं ॥ नागौ यथा नागाविव निश्वसन्तावित्यन्वयः । शोकपरिप्लुता: शोकपूर्णाः ।। १-२ […]

48 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टचत्वारिंशः सर्गः रामलक्ष्मणयोर्निधननिर्धारणेन सकरुणं बहुधाविलपन्तींसीतांप्रति त्रिजटया हेतूपन्यासाद्राघवयोर्जीवनप्रत्यायनेन समाश्वासनम् ॥ १ ॥ राक्षसीभिस्त्रिजटयासहसीतायाः पुनरशोकवनप्रापणम् ॥ २ ॥ भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् । विललाप भृशं सीता करुणं शोककर्शिता ॥ १ ॥ अथ सीताप्रलापोष्टचत्वारिंशे – भर्तारमिति ॥ करुणं यथा तथा विललाप ॥ १ ॥   ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च । तेऽद्य […]

47 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तचत्वारिंशः सर्गः रावणाज्ञया राक्षसीभिस्त्रिजटया सहसीतायाः पुष्पकारोपणपूर्वकं रणाङ्गणप्रापणेन -रामलक्ष्मणदुरवस्थाप्रदर्शनम् ॥ १ ॥ राक्षसभटैरावणनियोगेन लङ्कायांरामलक्ष्मणनियोगो -द्भाषणम् ॥ २ ॥ प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे । राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ॥ १ ॥ अथ सीतायै वीरशयनस्थरामलक्ष्मणप्रदर्शनं सप्तचत्वारिंशे – प्रतिप्रविष्ट इत्यादि ॥ १ ॥ हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः । गजो गवाक्षो गवयः शरभो गन्धमादनः । […]

46 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्चत्वारिंशः सर्गः ससुप्रीवेणविभीषणेन इन्द्रजिन्नागपाशनिबद्धमुग्धरामलक्ष्मणसमीपंप्रत्यागमनम् ॥ १ ॥ विभीषणेन राघवावस्थानावलोकनेनशोचतस्सुग्रीवस्य समाश्वासनपूर्वकं कार्यान्तराय गमनम् ॥ २ ॥ राक्षसप्रहर्षणपूर्वकं लङ्कांप्रविष्टेनेन्द्रजिता रावणंप्रतिसप्रणामं स्वेनरामलक्ष्मणमारण -कथनम् ॥ ३ ॥ ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः । ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ १ ॥ अथ पूर्वसर्गोक्तमनुवदति – तत इत्यादि ॥ द्या आकाशं । सन्ततौ व्याप्तौ ॥ १ ॥ […]

45 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चचत्वारिंशः सर्गः रामेणान्तरिक्षेऽन्तर्हितेन्द्रजिदन्वेषणायाङ्गदादिवानरदशकनियोजनम् ॥ १ ॥ इन्द्रजिता वृक्षोत्क्षेपेणान्तरिक्षंप्रविष्टानामङ्गदादीनामङ्गेषु शरवर्षणेनतन्निवारणम् ॥ २ ॥ तथा नागास्त्रेण रामलक्ष्मणयोर्बन्धनम् ॥ ३ ॥ अस्त्रबन्धेन भुविशयानौराघवौपरिवार्य हनुमदादिभिः शोकेनावस्थानम् ॥ ४ ॥ स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान् । दिदेशातिबलो रामो दश वानरयूथपान् ॥ १ ॥ अथ नागपाशबन्धः पञ्चचत्वारिंशे–स तस्येत्यादि ।। गम्यत इति गतिः स्थानं ॥ १ ॥   द्वौ […]

44 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुश्रुत्वारिंशः सर्गः रात्रियुद्धं ॥ १ ॥ द्वन्द्वयुद्धे अङ्गदनिहतहयसारथिनेन्द्रजिता रथत्यागेनमाययाऽन्तरिक्षे -ऽन्तर्हितेनसता रामलक्ष्मणावयवेषु नागमयशरवर्षणम् ॥ २ ।।   युध्यतामेव तेषां तु तदा वानररक्षसाम् । रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥ १ ॥ अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् । संप्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ॥ २ ॥ अथ रात्रियुद्धप्रवृत्तिश्चतुश्चत्वारिंशे- युध्यतामेवेत्यादि । युध्यतां युध्यमानेषु । प्राणहारिणी वानराणामिति […]

43 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिचत्वारिंशः सर्गः वानरराक्षसानांद्वन्द्वयुद्धम् ।। १ ॥ युध्यतां तु ततस्तेषां वानराणां महात्मनाम् । रक्षसां संबभूवाथ बलकोपः सुदारुणः ॥ १ ॥ अथ द्वन्द्वयुद्धं वर्णयति त्रिचत्वारिंशे – युध्यतां वित्यादि ।। वानराणां युध्यतां वानरेषु युध्यमानेषु । बलकोपः सेनायाः कोपः । बलेत्यविभक्तिकनिर्देश: ।। १ ॥   ते हयैः काञ्चनापीडैर्ध्वजैश्वाग्निशिखोपमैः । रथैश्चादित्यसंकाशैः कवचैथ मनोरमैः ॥ २ ॥ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.