परत्वादिपञ्चकम्-श्रीवात्स्यवरदगुरु
श्रीवात्स्यवरदगुरुभिरनुगृहीतं ॥ परत्वादिपञ्चकम् ॥ वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥ उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मलज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणैः ॥ जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥ १ ॥ आमोदे भुवने प्रमोद उत्त संमोदे च सङ्कर्षणं प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम् कुर्वाणान् मतिमुख्यषड्गुणवरैर्युक्तांस्त्रियुग्मात्मकैः व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे॥ २ ॥ वेदान्वेषणमन्दराद्रिभरणक्ष्मोद्धारणस्वाश्रितप्रह्लादावनभूमिभिक्षणजगद्विक्रान्तयो यत्क्रियाः ॥ दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं कालिन्द्या अतिपापकंसनिधनं […]
परमार्थश्लोकद्वयम्-श्रीवात्स्यवरदगुरु
श्रीवात्स्यवरदगुरुभिरनुगृहीतं ॥ परमार्थश्लोकद्वयम् ॥ वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् भाष्यामृतपदानाद्यः सज्जीवयति मामपि । सत्सङ्गाद्भवनिःस्पृहो गुरुमुखाच्छ्रीशं प्रपद्यात्मवान् प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः । न्यासादेव निरङ्कुशेश्वरदयानिर्लूनमायान्वयः हार्दानुग्रहलब्धमध्यधमनिद्वारा बहिर्निर्गतः ॥ १ ॥ मुक्तोऽर्चिर्दिनपूर्वपक्षषडुदङ्मासाब्दवातांशुमद्ग्लौविद्युद्वरुणेन्द्रधातृमहितस्सीमान्तसिन्ध्वाप्लुतः । श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मण: सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् प्रातर्नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः । श्लोकद्वयेन संक्षिप्तं सुव्यक्तं वरदोऽब्रवीत् ॥ ॥ इति परमार्थश्लोकद्वयं समाप्तम् ।।