वरदराजस्तवव्याख्यानम्

श्रीः श्रीमते रामानुजाय नमः वरदराजस्तवम् श्रीवत्सचिह्नमित्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ हस्त्यद्रीशस्तोत्रमध्यात्मगर्भम् पूर्वाचार्यैर्व्याकृतम् विस्तरेण । श्रीवत्साङ्कम् लक्ष्मणार्यम् च नत्वा सङ्क्षिप्याहम् व्याकरोमि स्वशक्त्या ॥ अखिलहेयप्रत्यनीक कल्याणैकतानम् स्वेतरसमस्तवस्तुविलक्षणम् सकलजगत्कारणम् परव्यूहविभवार्चान्तर्यामिरूपेण पञ्चधावस्थितम् चतुर्मुखमहहविर्भागाङ्गीकारार्थम् वेगवतीतीरे काञ्च्याम् पुण्यकोट्याम् सत्यव्रतक्षेत्रे हस्तिशैलशिखरेऽवतीर्णम् अद्यापि पुत्रमित्र क्षेत्र – धनधान्यादिवरप्रदानेन प्रकटितेश्वरभावम् सदा सन्निहितम् वरदराजमधिकृत्य मुमुक्षुभिः सर्वदानुसन्धेयमर्थपञ्चकम् चानुसन्दधत् श्रीवत्साङ्कमिश्रः सकलजगदुज्जीवनार्थम् स्वोज्जीवनार्थम् च स्तोत्रम् प्रवर्तयामास […]

श्रीस्तवव्याख्यानम्

श्रीः श्रीमते रामानुजाय नमः श्रीस्तवम् लक्ष्मीकटाक्षविक्षेपा रक्षणै ककृतक्षणाः । रक्षन्तूत्कूलकरुणा सन्धुक्षितजगत्त्रयाः ॥ अथ सर्वेश्वराभिमत स्वरूपगुणविभवाम्  सकलचेतनानाम् सकलपुरुषार्थप्राप्तौ पुरुषकारभूताम् सर्वेश्वरवत् स्वयमपि प्राप्यप्रापकभूताम् लक्ष्मीम् स्तोतुकामाः श्रीवत्साङ्कमिश्राः सकल-जगदुज्जीवनार्थमाशीर्वादमेव प्रबन्धमुखेन निबध्नन्ति । स्वस्तीति स्वस्ति श्रीर्दिशताद्  अशेषजगताम् सर्गोपसर्गस्थितीः स्वर्गम् दुर्गतिमापवर्गिकपदम् सर्वम् च कुर्वन् हरिः । यस्या वीक्ष्य मुखम् तदिङ्गितपराधीनो विधत्तेऽखिलम् क्रीडेयम् खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्  तया ॥ १ ॥ सा […]

वेदान्ताचार्यस्य-स्तोत्ररत्नभाष्यं

॥ श्रीरस्तु ॥ श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । ॥ श्रीमद्वेदान्तदेशिकग्रन्थमाला ॥ ॥ स्तोत्ररत्नभाष्यम् ॥ श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम् । स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम् ॥ नमो नमो यामुनाय यामुनाय नमो नमः । नमो नमो यामुनाय यामुनाय नमो […]

शरणागतिगद्यम्-श्रुतप्रकाशिकया समेतम्

॥ श्रीः ॥ श्रीमते रामानुजाय नमः लक्ष्मीपतेर्यतिपतेश्च ढ्यैकधाम्नो योऽसौ पुरा समजनिष्ट जगद्वितार्थम् । प्राप्यं प्रकाशयतु नः परमं रहस्यं संवाद एप शरणागतिमन्त्रसारः ॥ श्रीभगवद्रामानुज विरचितं || शरणागतिगद्यम् || श्रीमत्सुदर्शनसूरिविरचितया श्रुतप्रकाशिकया समेतम् ॥ श्रीमते रामानुजाय नमः ॥ वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् । रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धो रामानुजस्य चरणौ शरणम् प्रपद्ये ॥ भगवन्नारायणाभिमतानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकाति- शयासङ्ख्येय […]

उत्तरदिनचर्या – व्याख्या

श्रीः श्रीमते रामानुजाय नमः श्रीरम्यजामातृमुनिवर्यचरणसमाश्रितैरष्टदिग्गजन्तर्भुतैश्चरमपर्व निष्टाग्रेसरैः श्रीदेवराजाचार्यवर्यैः प्रसादितम् उत्तर दिनचर्या   श्रीमहीसारपुराधिष्ठितसकलशास्त्रविदग्रेसरवाधूलकुलतिलक| श्रीवीरराघवाचार्यप्रसादित सदाचारदीपिका व्याख्यानसहितम् |।   उत्तरदिनचर्या इति यतिकुलधुर्यमेधमानैः श्रुतिमधुरैरुदितैः प्रहर्षयन्तम् । वरवरमुनिमेव चिन्तयन्ती मतिरियमेति निरत्ययम् प्रसादम् ॥ (१) उत्तरदिनचर्या व्याख्या       एवम् यतिराजविम्शतिरनूदिता ॥ अथ ताम् इतिशब्देन परामृश्य तया यतिराजम् प्रहर्षयतो वरवरमुनेश्चिन्तनेन सञ्जातम् स्वमतिप्रसादविशेष-मनुसन्धत्ते इतीति ॥ इति – उक्तप्रकारेण, एधमानैः – *भूयिष्ठाम् ते […]

पूर्वदिनचर्या – व्याख्या

श्रीः श्रीमते रामानुजाय नमः । श्रीरम्यजामातृमुनिवर्यचरणसमाश्रितैरष्टदिग्गजन्तर्भुतैश्चरमपर्व निष्टाग्रेसरैः श्रीदेवराजाचार्यवर्यैः प्रसादितम् पूर्व दिनचर्या   श्रीमहीसारपुराधिष्ठितसकलशास्त्रविदग्रेसरवाधूलकुलतिलक| श्रीवीरराघवाचार्यप्रसादित सदाचारदीपिका व्याख्यानसहितम् |। श्रीः श्रीमते रामानुजाय नमः । दिनचर्या सव्याख्या सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् । देवराजगुरुम् वन्दे दिव्यज्ञानप्रदम् शुभम् ॥ पूर्वदिनचर्या अङ्के कवेरकन्यायास्तुङ्गे भुवनमङ्गले । रङ्गे धाम्नि सुखासीनम् वन्दे वरवरम् मुनिम् ॥  (१) व्याख्या सेवेऽहम् भक्तिसाराख्यम् सौदर्शनमहम् महः । ययौ जङ्गमताम् येन वेगासेतुर्विभावितः ॥ […]

ஜிதந்தே ஸ்தோத்ர வ்யாக்யானம் Part 3

த்விதீய ஜிதந்தே வ்யாக்யானம்   ஜிதந்தே புண்டரீகாக்ஷ பூர்ணஷாட்குண்யவிக்ரஹ | பராநந்த பரப்ரம்ஹந்நமஸ்தே பரமாத்மநே ||           1   பூர்ணஷாட்குண்ய விக்ரஹ = ஜ்ஞாந ஶக்தி பலைஶ்வர்ய தேஜஸ்ஸுக் கள் என்கிற ஆறு குணங்களும் அமைந்த திருமேனியையுடையவரே , புண்டரீகாக்ஷ = செந்தாமரை மலர் போன்ற திருக்கண்களையுடைய வரே , பராநந்த = இதுக்கவ்வருகில்லை யென்னும்படி மேம்பாடுடைய ஆனந்தமுடையவரே , இங்ஙனே பஹுவ்ரீஹி ஸமாஸமன்றிக்கே ,  பரஶ் சாஸௌ ஆனந்தஶ்ச யென்று கர்மதாரயமாய் உத்தமமாந் ஆனந் தமே […]

यतिराजविम्शतिव्याख्या

श्रीः श्रीमते रामानुजाय नमः यतिराजविम्शतिः   यः स्तुतिम् यतिपतिप्रसादिनीम् व्याजहार यतिराजविम्शतिम् । तम् प्रपन्नजनचातकाम्बुदम् नौमि सौम्यवरयोगिपुङ्गवम् ॥ यतिराजविम्शतिव्याख्या      अभिगमनोपादानेज्यासु स्वाचार्यम् वरवरमुनिमनुभूय क्रमप्राप्ते तमनुबुभूषः, स्वाध्यायस्य *व्याख्यानैर्लेखनैर्वाऽपि ग्रन्थनिर्माणकर्मणा । शिष्याणाम् शिक्षया वाऽपि स्वाध्यायार्थोऽयमुच्यते* इत्यादि शाण्डिल्योक्तरीत्याऽनेक प्रकारत्वेन, तत्र व्याख्यानरूपम् स्वाध्यायप्रभेदम् *वाक्यालङ्कृतिवाक्यानि व्याख्यातारम्* इत्युत्तरत्र वक्ष्यन्, ग्रन्थनिर्माण कर्मणेत्युक्तम्, भगवता वरवरमुनिना स्वाधिका-रानुगुणम् भगवद्यतीन्द्र विषयस्तोत्रनिर्माणरूपग्रन्थकरणात्मकम् स्वाध्यायप्रभेदम् वदन्, *तद्वचश्श्रवणोत्सुकः । आग्न- भ्यर्थनमालोकनिर्देशवचनादरः* […]

श्री यतिराज वैभवम्

श्रीः श्रीमते रामानुजाय नमः श्री यतिराज वैभवम् श्रीमद्वटुकपूर्णार्यविरचितम् श्रीरामानुजयोगीन्द्रक्षीरकैङ्कर्यशालिने । नमः स्यादान्ध्रपूर्णाय महनीयगुणाय ते ॥ श्रीमद्यामुनदेशिकादधिगतश्रुत्यन्तयुग्माशय- स्तत्सन्देशचिकीर्षया नियतधीश्श्रीशैलपूर्णो गुरुः । अन्विष्यन्ननुजाद्वयोचितवरौ श्रीवेङ्कटाद्रौ हरे स्तीर्थम् पुष्पमपीतराण्युपहरन्नास्ते स्म सद्वृद्धये ॥ १ ॥ तत्रान्तरे मधुरमङ्गलभूतपुर्योर्नित्यस्थिती श्रुतितदङ्गविदौ कुलीनौ । द्वावम्बुरुण्णयनकेशवसोमयाजिनामान्वितावभजताम् परिणेतुकामौ ॥ २ ॥ श्रीशैलपूर्णस्स समीक्ष्य वर्यौ वरौ चिनिश्चित्य च तौ प्रहृष्टः । तत्प्रार्थितश्शङ्खरथाङ्गचिह्नमन्त्रप्रदोऽभून्नतयोस्तयोश्च ॥ ३ ॥ तामग्रहीदग्रजभूमिदेवीम् हृष्यन्मनाः केशवसोमयाजी । ताम् चानुजाताम् कमलाक्षभट्टः श्रीदेविकाम् तौ च तुतोष पूर्णः ॥ ४ ॥ ततस्सभार्यौ तदनुज्ञया तौ स्वम् वासमागम्य चिरम् सुशीलौ । श्रीशम् समाराध्य तदीयभक्तौ सह प्रियाभ्याम् मुदितौ तदास्ताम् ॥ ५॥ ततो जगन्मङ्गलपिङ्गलाब्देचैत्राख्यशुक्लच्छदपञ्चमीके  । आर्द्राभिधर्क्षेण युते च वारे बृहस्पतेस्सन्मृगराजलग्ने ॥ ६ ॥ वेदान्तसिद्धान्तसमर्थनाय बाह्यान्तरभ्रान्तमतापनुत्त्यै । शेषाम्शकः केशवयज्वदेव्याम् तेजोनिधिः कश्चिदिहाबिरासीत् ॥ ७ ॥ श्रीशैलपूर्णोप्यथ भूतपुर्यामागम्य वीक्ष्याद्भुतभागिनेयम् । चकार रक्षार्थरथाङ्गशङ्ख चिह्नम् च रामानुजनामकम् च  ॥ ८ ॥ ततोऽभिवृद्धस्य च तत्कटाक्षैः पितापि तस्यात्मभुवोऽब्दपूर्तिम् । चौलना तथाऽरम्भणमक्षराणाम् चकार सत्त्वोत्तरपञ्चमाब्दे ॥ ९ ॥ कृतोपनीतिस्तु ततस्सपित्रा समभ्यसन् वेदतदङ्गशास्त्रम् । रामानुजार्योऽभवदग्र्यतेजा महद्भिरानन्दितसत्यशीलः ॥ १० ॥ ततस्तु काञ्चित् परिणीय कन्याम् गृहस्थधर्मस्थितिराप काञ्च्याम् । स्वपूर्वपक्षाभ्यसनाय मायिसन्न्यासिनम् यादवसम्प्रकाशम् ॥ ११ ॥ ततः कदाचिद्धुरि यादवेन *सर्वे खलु* श्रुत्यविशारदेन । अपार्थ उक्ते स यथार्थमुक्त्वा रामानुजोऽदर्शयदर्थसारम् ॥ १२ ॥ श्रीरङ्गवासी स तु यामुनार्यो निशम्य रामानुजदर्शितार्थम् । आगम्य काञ्च्याम् वरदम् महात्मा देव्या युतम् प्राणमदन्तरङ्गैः ॥ १३ ॥ ततस्स शिष्यावृतयादवम् तम् रामानुजम् मध्यगतम् च भान्तम् । समीक्ष्य रामानुजशिष्य एष चेद्यादवो युक्तमितीव दध्यौ ॥ १४ ॥ श्रीवैष्णववृद्ध्यर्थमतीव भक्त्या स्वस्य प्रसीदेति स यामुनार्यः । भान्तम् महादेविकया शरण्यम् श्रीदेवराजम् शरणम् प्रपन्नः ॥ १५ ॥ सम्भाषितश्चेदिह पाठभङ्गस्स्यादित्यसम्भाष्य स यामुनार्यः । श्रीरङ्गमेवाप सशिष्यवर्गो रामानुजार्यश्च पपाठ पश्चात् ॥ १६ ॥ तद्देशभूपस्य सुते पिशाचग्रस्तेऽन्यमन्त्रैरखिलैरसाध्ये । भूपस्तदा यादवमन्त्रमोच्य इत्येवमाकर्ण्य तमानिनाय ॥ १७ ॥ दृष्टान्तरङ्गावृतयादवम् तम् स्मित्वा पिशाचः परिभाव्य भूरिः । रामानुजार्यम् शरणम् प्रपद्य राजात्मजम् स्वम् च जहौ सहाघम् ॥ १८ ॥ तद्वृत्तमत्यद्भुतमैक्ष्य भूपो रामानुजार्ये कृतसम्मतिम् सः । तेनार्पितम् तद्गुरुयादवाय सम्मानमत्यन्तविनीतिपूर्वम् ॥ १९ ॥ गत्वा स काञ्चीमथ यादवोऽपि रामानुजे प्रीत इवान्तरेर्ष्यः । तदादि तन्मानसशोधनेच्छुर्वेदान्तवाक्यार्थविचारकोऽभूत् ॥ २० ॥ कप्यासशब्दस्य वदत्यपार्थ तस्मिन्स्तदभ्यङ्गकृतः कदाचित् । रामानुजस्याश्रु तदूरुदाहि दृष्ट्वाशु सोऽप्युन्मुखसम्भ्रमोऽभूत् ॥ २१ ॥ इदम् किमित्युक्तवतेऽथ तस्मै कप्यासवाक्यस्य यथार्थमुक्त्वा । […]

ஶ்ரீ தொட்டாசார்யர் 01

ஶ்ரீ:   ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமத் வரவரமுநயே நம:   ஶ்ரீ ஶுத்த ஸத்வம் தொட்டாசார்யர் அருளிச்செய்த யதிராஜ விம்ஶதி வ்யாக்யானம்   தனியன்   எறும்பியிலப்பா அருளிச்செய்தது ய: ஸ்துதிம் யதிபதிப்ரஸாதி3நீம் வ்யாஜஹார யதிராஜவிம்ஶதிம் தம் ப்ரபந்நஜநசாதகாம்பு3த3ம் நௌமி ஸௌம்யவரயோகி3புங்க3வம் வ்யாக்யானம் – (ய:) “யதிவரதத்வவிதே:” (வரவரமுநி ஶதகம் 2) என்றும் “கருணைக ஸிந்தோ:” (வரவரமுநி ஶதகம்- 100) என்றும் சொல்லுகிறபடியே எம்பெருமானாருடைய அவதாரவிஶேஷமாகவும், அவர் தம்முடைய யாதாத்ம்யதர்ஶியாகவும், தயாம்புராஶியாகவும் ப்ரஸித்தரான யாதொரு அழகிய மணவாள மாமுனிகள்.  யச்சப்தம் ப்ரஸித்த பராமர்ஶியிறே.  (யதிபதிப்ரஸாதிநீம்) […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.