ஜிதந்தே ஸ்தோத்ர வ்யாக்யானம் Part 2
ஶ்ரீ: ஸ்ரீமதே ராமாநுஜாய நம: பரமகாருணிகரான பெரியவாச்சான்பிள்ளை அருளிச்செய்த ஜிதந்தே ஸ்தோத்ர வ்யாக்யானம் Part 2 नैव किञ्चित्परोक्षन्ते प्रत्यक्षोऽसि स कस्यचित्। नैव किञ्चिदसिद्धन्ते न च सिद्धोऽसि कस्यचित् ।। ६।। நைவ கிஞ்சித் பரோக்ஷந்தே ப்ரத்யக்ஷோऽஸி ந கஸ்யசித் । நைவ கிஞ்சித3ஸித்3த4ந்தே ந ச ஸித்3தோ4ऽஸி கஸ்யசித்।। ___________________________________________________________ பதவுரை:–தே–-உனக்கு, பரோக்ஷம்— அப்ரத்யக்ஷமாயிருப்பது, ந கிஞ்சித்– ஒன்றுமில்லை; கஸ்யசித்–ஒருவர்க்கும், ப்ரத்யக்ஷ:–கண்ணால் காணக்கூடியவனாக, ந அஸி-(நீ) ஆகிறாயல்லை; தே–-உனக்கு, அஸித்3த4ம்-செய்யமுடியாதது, ந கிஞ்சித்– […]
ஜிதந்தே ஸ்தோத்ர வ்யாக்யானம் Part 1
ஶ்ரீ: ஸ்ரீமதே ராமாநுஜாய நம: பரமகாருணிகரான பெரியவாச்சான்பிள்ளை அருளிச்செய்த ஜிதந்தே ஸ்தோத்ர வ்யாக்யானம் श्रीमत्कृष्णसमाह्वाय नमो यामुनसूनवे । यत्कटाक्षैकलक्ष्याणां सुलभः श्रीधरस्सदा ।। ஸ்ரீமத்க்ருஷ்ணஸமாஹ்வாய நமோ யாமுநஸூநவே | யத்கடாக்ஷைகலக்ஷ்மாணாம் ஸுலப4: ஸ்ரீத4ரஸ் ஸதா3 ॥ அவதாரிகை:— ‘ஜிதந்தே’ யாவது ருக்3வேத3கி2லம் ; தத்வப்ரதிபாத3நபரமான ஸ்ரீ புருஷஸூக்தம் ஸர்வஶ்ருதிகளிலும் ஓதிப்போருமாபோலே, இதுவும் ஸ்ரீ ஶாஸ்த்ரத்திலும், இதிஹாஸ புராணங்களிலேயும் மஹாமந்த்ரமென்று திருமந்தரத்தோபாதி பரமரஹஸ்யமாகச் சொல்லிப்போருமதொன்று. வேதா3க்ஷரராஶியைப் பெளருஷேயமான இதிஹாஸபுராணங்களிலே எழுதிப்படித்துப் போருவானென்னென்னில்: கி2லமாகிறது அப்ரஹதம் ஸ்தா2நம்; ஸூத்ரகாரர்கள் […]
नित्यतनियन्
अवतारत्तनियन् ‘ज्ञेशोपाये’ शकाब्दे विबुधवरहिते सर्वधार्याख्यवर्षे विष्ण्वृक्षे पूर्वपक्षे सवितरि च तुलां सादरं सेवमाने। श्रीमान् लोकार्यवर्यः शुभगुणजलधिः कृष्णपादार्यपुत्रो हस्त्यद्रीशावतार स्समजनि सकलाम्नायसंरक्षणार्थम्॥ :- तिरुमुडि अडैवु (यज्ञना) तुलायां श्रवणे जातं लोकार्यमहमाश्रये। श्रीकृष्णपादतनयं तत्पादाब्जसमाश्रयम्॥ :- तिरुमुडि अडैवु (कंदाडै) यस्य सारस्वतं शास्त्रं दिव्यं वचनभूषणम्। तस्मै हस्तिगिरीशाय श्रीजगद्गुरवे नमः॥ :- उत्तरसूरिचरितम् (संग्रहः) नित्यतनियन् लोकाचार्याय गुरवे कृष्णपादस्य सूनवे। संसारभोगिसंदष्ट जीवजीवातवे नमः॥ :- ईयुण्णि […]
यतिराजमङ्गलम्
यतिराजमङ्गलम् १. रामानुजमुनि र्जीया द्रामप्रियपिता गुरुः। इन्द्रनीलममूल्यं यो यादवाद्रौ व्यदर्शयत्॥ २. ओं नमो नारायणाये त्यनुसन्धानतत्परः। शेषोऽभूद्यो यतीन्द्राय तस्मै स्यान्नित्यमङ्गलम्॥ ३. कलिना तामसे लोके तमोनिर्वापणाय यः। जातो रामानुजब्रध्नः तस्मै स्यान्नित्यमङ्गलम्॥ ४. अहिशैलनिवासाय श्रीनिवासाय शार्ङ्गिणे। शङ्खचक्रप्रदात्रे स्याद्यतिराजाय मङ्गलम्॥ ५. शठारिमुनिवर्यस्य सूक्तिमाधुर्य मादरात्। आस्वाद्य तुष्टचित्ताय यतिराजाय मङ्गलम्॥ ६. सङ्कल्पं यामुनार्यस्य जगदुद्धरणाय यः। पूरयामास तस्मै स्या द्यतिराजाय मङ्गलम्॥ ७. […]
श्रीपादतीर्थश्लोकाः
श्रीमते रामानुजाय नमः श्रीमद्रामानुजाचार्याणां श्रीपादतीर्थश्लोकाः १. कृपामूर्तिस्स्वयं श्रीशकृपाकाङ्क्षी जगद्गुरुः। अस्मान्रामानुजश्श्रीमान्पुनातु स्वाङ्घ्रिवारिभिः॥ २. तमो विवस्वानिव मानसं तमो यः कालयत्यार्द्रमनाश्रितानाम्। जगद्गुरोस्तस्य यतीश्वरस्य पुनातु नः पादसरोरुहोदकम्॥ ३. यत्पादस्मरणान्मर्त्या स्त्यजन्ति भवसाध्वसम्। रामानुजस्य तस्य श्रीपादतीर्थं पुनातु नः॥ ४. यन्नामस्मरणान्नॄणां सर्वसिद्धिर्भवेदिह। पुनातु लक्ष्मणार्यस्य तस्य पादोदकं तु नः॥ ५. रामानुजमहीभृ छ्छ्रीपादप्रस्रुतनिर्झरः। स्नापयन्नात्मनः पापान्पुनातु जगतीतले॥ ६. विशिष्टाद्वैतसिद्धान्तदर्शनेन जनेक्षणम्। उन्मीलितवतस्तस्य पादतीर्थं पुनातु नः॥ ७. […]
श्री कूरेशविजयः
श्री कूरेशविजयः श्रीशैलेशदयापात्रं धीभक्त्यादि गुणार्णवम् । यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ श्रीपराशरभट्टायः श्रीरङ्गेशापुरोहितः । श्रीवत्साकसुतश्रीमान् श्रेयसे मेस्तु भूयसे ॥ श्रीवत्सचिह्नमिश्रेभ्यः नम उक्तिमधीमहे | यदुक्तस्त्रयीकण्ठेयान्ति मङ्गलसूत्रताम् ॥ अर्वाञ्चो यत्पदसरसिजद्वन्द्वभाश्रित्य पूर्च मूर्ना यस्यान्वयमुपगता देशिका मुक्तिमापुः । सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्था घरसम्पन्धादमनुत कथं वर्ण्यते कूरनाथः ॥ : परोपन्यस्तपूर्वपक्ष श्लोका: गायत्री’बोधितत्वात् दशरथतनयस्थ पिताराधितत्वात् । शैरेः कैलासयात्रावतमुदिततयाऽभीष्टसन्तानदानात् । नेत्रेण वन […]
श्रीकूरनाथ पञ्चाशत्
श्रीमते रामानुजाय नमः श्री कूरनाथपञ्चाशत् श्रीशैललक्ष्मणमुने श्चरणाब्जयुग्मं श्रेयस्करं तनुभृता मखिलाघहन्तृ। नत्वा करोमि विबुधावलितुष्टयेऽहं कूराधिपस्तुतिमिमां कुशलप्रदात्रीम्।। -तोताद्रिमठस्थोऽयं श्रीशैल लक्ष्मणमुनिः १. जयजय यतिराज श्रीपदाम्भोजयुग्म प्रसृमरमकरन्दास्वाद लुब्धान्तरङ्ग। जयजय कुमतेभ व्रातहर्यक्ष विद्व न्मणिवर निगमान्ताकल्प कूराधिनाथ।। २. जयति जगति नैजोद्वेलमेधाविशेषा दधिगततमबोध व्यासवृत्त्यर्थजालः। जनित यतिवरेण्य स्वान्तनिस्सीममोदः श्रितजनपरिरक्षादीक्षितः कूरनाथः।। ३. जयति हरिपरत्व स्थापनोद्वेलमोदा दुपनिषदुपगूढा न्न्यायतोऽर्थान्विवृण्वन्। अधरित शिवपारम्यार्थि चोलाधिराजः शमितविमतवाद श्शान्तिमान्कूरनाथः।। ४. भवजलनिधिमग्नोत्तारणे […]
यतिपतिदिनचर्या
श्रीमते रामानुजायनमः श्रीमद्रम्यजामातृगुरवे नमः यतिपतिदिनचर्या यतिपतिदिनचर्यां यश्चकारातिभोग्यां वरवरमुनिपौत्र स्सौम्य जामातृनामा। गुरुरमलगुणानां वैष्णवानां मुदे तं गुरुजनवर मीडे गोमठाख्यान्ववायम्।। १. श्रीमद्रङ्गे दिव्यधाम्नि श्रीश्रीकान्तमनोहरे। वसन्तं गुरुमार्याणां वन्दे रामानुजं मुनिम्।। २. ब्राह्मे मुहूर्तेचोत्थाय ध्यात्वा गुरुपरंपराम्। रहस्यत्रितयं रम्यं परव्यूहादिकांस्तथा।। ३. पञ्चप्रकारांश्च हरे रर्चिरादिगतेः क्रमम्। ध्यायन्तं कूरनाधाद्यै स्सेव्यमानं गरूत्तमैः।। ४. चतुःश्लोकीं स्तोत्ररत्नं स्तोत्रं यामुनवक्तृकम्। भक्ताङ्घ्रिरेणु श्रीसूक्तीः प्रबोधनपराश्शुभाः।। ५. प्राबोधिकीश्च गोदाया स्सूक्ती […]
यतिराज दण्डकः
यतिराज दण्डकः नमस्त्रय्यन्तपर्यन्त चर्यापर्याय वेधसे। नरवेषाय शेषाय गुरवे परवेदिने।। जय यतिकुलनाथ नाथादिवाचासनाथागमान्तानुरो- धामितागाध बोधावधान प्रधान प्रथानून मेधासमाधानमाधाय बाधावरोधौ विधूयावधूयाद्वयध्वान्तमध्वान्तरं शुद्धमुद्धृत्य भास्वत्प्रभावं स्वभावं विभाव्य त्रयीदिव्य धेनूदितानवृ गव्यायित व्याससूत्राणि चित्राणि सन्मार्गमित्राणि बुद्ध्वा दुरध्वोद्धताबद्ध नानाविरुद्ध प्रमाण प्रसिद्धापसिद्धान्त निर्धारणौद्धत्य पद्धत्यनुच्छेद्य सद्यस्समिद्धाग्नि तप्तानि लुप्तानि मा सन्त्विति प्रेक्ष्य साक्षात्सरोजाक्ष वीक्षामृत स्यन्दि बिन्दूपसंदानिता मन्दसंदर्भ गर्भस्फुरद्यामुनेय प्रबन्धानुसन्धान संजात शीतानिल व्रातजातेन गीतेन सर्वाविगीतेन चैतानि […]
श्री कूरेश विंशतिः
श्रीमते रामानुजाय नमः श्री कूरेश विंशतिः श्रीरङ्गोज्ज्वल मध्यवीथिनिलयं श्रीराममिश्रात्मजं श्रीभट्टार्यपदाश्रयं शुभगुणं वाचांजयिभ्रातरम्। लोकार्यप्रवणं तदुक्तिरसिकं सर्वज्ञभट्टारकं वन्दे तं भुवि विंशतिं व्यतनुत श्रीवत्सचिह्नस्य यः।। १. श्रीरङ्गराजकरुणामयदृष्टिवीक्षा- संप्राप्तसर्वगुणराजिविराजमाने। श्रीमच्छठप्रमथने स्थिरभावबन्धं श्रीवत्सचिह्नगुरु मन्वहमाश्रयामि।। २. श्रीयामुनार्य पदपङ्कज सक्तचित्ते श्रीमत्पराङ्कुश गुरूत्तमलब्धविद्ये। श्रीलक्ष्मणे मुनिवरेऽर्पित सर्वभारं श्रीवत्सचिह्नगुरु मन्वहमाश्रयामि।। ३. आचार्यवर्यविभवस्यच शिष्यवृत्तेः सीमेति देशिकवरैः परितुष्यमाणम्। नित्यानवद्यकरुणाविलसत्कटाक्षं श्रीवत्सचिह्नगुरु मन्वहमाश्रयामि।। ४. रामानुजार्यमतसिन्धुविधो कुदृष्टि- बाह्यान्धकारपटलीहरणाब्जबन्धो। अस्मद्गुरो र्जनक […]