गोदा चतुश्श्लोकी
गोदा चतुश्श्लोकी १. नित्याभूषा निगमशिरसां निस्समोत्तुङ्गवार्ता कान्तो यस्याः कचविलुलितैः कामुको माल्यरत्नैः। सूक्त्या यस्याः श्रुतिसुभगया सुप्रभाता धरित्री सैषा देवी सकलजननी सिञ्चतान्मामपाङ्गैः।। २. माता चेत्तुलसी पिता यदि तव श्रीविष्णुचित्तो महा- न्भ्राताचे द्यतिशेखरः प्रियतम श्श्रीरङ्गधामा यदि। ज्ञातार स्तनया स्त्वदुक्ति सरसस्तन्येन संवर्धिता- गोदादेवि कथं त्वमन्य मनिशं साधारणा श्रीरसि।। ३. कल्पादौ हरिणा स्वयं जनहितं दृष्टेन सर्वात्मनां प्रोक्तं स्वस्य च कीर्तनं […]
वरणपञ्चविम्शतिः
॥ श्रीः ॥ ॥ वरणपञ्चविम्शतिः ॥ वरणोपायभावस्य वक्तुम् निरवकाशताम् । निबिरीसौ करीशस्य चरणौ निदधे हृदि ॥ १ ॥ फलायन्त्याम् प्रीतौ करिगिरिपतेर्यन्निरुपमम् निदानम् सौहार्देऽपि च फलतया यत्प्रणिजगुः । उपासान्यासाभ्याम् तदिदमनवाप्या (प्ता) त्मविभवम् प्रसज्योपायम् नश्शरणवरणम् प्रापयति सः ॥ २ ॥ गौणम्मुख्यमितीव यच्छ्रुतिगणैर्गूढाशयैराश्रुतम् न्यासोपासननामकीर्तनमुखम् नानाविधम् साधनम् । तत्र क्वापि कदाऽप्यलब्धनियमास्तत्(त्वत्)पारतन्त्र्याश्रयाः स्वीकर्तुम् वरद! श्रियो घटकताम् निश्चिन्वते भावुकाः ॥ ३ […]
श्रीभक्तिसारोदयम्
॥ श्रीः ॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीभक्तिसारोदयम् ॥ भूमौ भार्गव-वामदेव-भृगवोऽप्यत्रिर्वसिष्ठोऽङ्गिराः ब्रह्माणम् प्रणिपेतुरुत्तमगुणम् क्षेत्रम् विजिज्ञासवः । स त्वष्टुस्तुलयैकतो वसुमतीम् भूसारमप्येकतः धृत्वा योगिवरेभ्य आदिशदिमम् भूसारमप्युत्तमम् ॥ १ ॥ भूसाराभिधया विदेहभवनक्षेत्रम् विनिर्दिश्य ते ष्वासीनेष्वथ भार्गवो मुनिवरो देवम् जगन्नायकम् । सत्रेणायतवर्तिना स्म यजते पत्नी तथात्वे मुनेः अम्शेनाम्बुजलोचनायुधवरस्यापन्नसत्वाऽभवत् ॥ २ ॥ मासे द्वादशगे मुनीन्द्रगृहिणी सा द्वापरे […]
लक्ष्मीस्तोत्रम्
॥ श्रीः ॥ श्रीमते रामानुजाय नमः श्रीमद्वाधूलकुलतिलकवीरराघवगुरुकृतम् लक्ष्मीस्तोत्रम् श्रिया युक्तः श्रीमान् स्थितिजनिलयादीन् कलयते जगत्या नैवम् चेत् स्वमपि न च पुष्णात्यशरणः । अतस्त्वाम् तत्तादृग्दुरधिगमनिःसीमविभवाम् भजामो रुद्राणीपरिचितपदाम्भोजयुगलीम् ॥ १ ॥ अयि ! श्रीस्त्वम् पूर्वम् जनकतनयीभूय जगताम् प्रभो रामस्याभूः प्रियसहचरी कोसलपतेः । तथाऽपुष्यः कृष्णम् नतजननि ! रुक्मीन्द्रतनया विना त्वाम् गोविन्दः प्रभवति जगत्याम् क्वचन वा ॥ २ ॥ त्वया […]
श्रीयतिराजमङ्गलानुशानम्
अथ श्रीयतिराजमङ्गलानुशानम् श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः । कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ (१) वरवरमुनेः शेषो वा सैन्यनाथो वा श्रीपति वेति सात्विकैः । वितर्क्याय महाप्राज्ञैः यतिराजाय मङ्गलम् ।। (२) अनन्ताल्वारु-कृतिः नाथपद्माक्षरामार्यपादपङ्कज सेविने । सेव्याय सर्वयमिनां यतिराजाय मङ्गळम् ॥ (३) श्रीकाञ्चीपूर्णमिश्रोक्त रहस्यार्थविदे सदा । देवराजप्रियायास्तु यतिराजाय मङ्गळम् ॥ (४) आचार्याणाम् सन्यासं कुर्वते काञ्च्यां अनन्तसरसीतटे । वरदे न्यस्तभाराय भाष्यकाराय मङ्गळम् ॥ […]
ஶ்ரீஸ்வாமி வடிவழகுக் கட்டியம்
ஶ்ரீமதே ராமானுஜாய நம: ஶ்ரீஸ்வாமி வடிவழகுக் கட்டியம் நாயிந்தே, நாயிந்தே! காஷாயஶோபி கமநீய ஶிகாநிவேஶம் தண்டத்ரயோஜ் ஜ்வலகரம் விமலோபவீதம் । உத்யத்திநேஶ நிபம் உல்லஸதூர்த்த்வ புண்ட்ரம் ரூபம் தவாஸ்து யதிராஜ த்ருஶோர்மமாக்ரே ।। அப்பனுக்குச் சங்காழி அளித்தருளும் பெருமாள்! அறமிகு நற்பெரும்பூதூர் அவதரித்த பெருமாள்! அறுசமயச் செடியதனை அடியறுத்த பெருமாள்! அருளாழி வரிவண்டே என்று ஆழ்வார் அழைக்கும் பெருமாள்! அருள்மாரி அடியிணைக்கீழ் அன்புபூண்ட பெருமாள்! அஞ்சுகுடிக்கொரு சந்ததியாம் ஆண்டாள் தமக்கும் அண்ணரான பெருமாள்! அரங்கர் மௌலி சூழ்கின்ற […]
श्रीसुदर्शन मङ्गलम्
श्रीः श्रीमते रामानुजाय नमः श्रीसुदर्शन मङ्गलम् ॐ॥ कोटिसूर्यप्रकाशाय कुङ्कुमाङ्कितवक्षसे । स्फुरद्भीति सहस्रार-सहस्राराय मङ्गलम् ।। १ ।। जयद्रथवधोद्युक्त-स्वामिसङ्कल्परूपिणे । कोटिसूर्यप्रकाशाय तेजःपुञ्जाय मङ्गलम् ।। २ ।। अम्बरीषव्रतद्रोहि-दूर्वासो गर्वनाशिने । स्वभक्तपरतन्त्राय ज्वालामालाय मङ्गलम् ।। ३ ।। शम्बरासुरसाहस्र-मायासूदनकारिणे । बालप्रह्लादरक्षाय ज्वालामालाय मङ्गलम् ।। ४ ।। बाणबाहुस्नुहिवन+अच्छिद्रेक्ष्ण+उग्रनेमये । कुतोऽप्यप्रतिरुद्धाय हेतिराजाय मङ्गलम् ।। ५ ।। उद्दिष्टसेवाविघ्नार्त-गजेन्द्रसुखहेतवे । विद्वत्सप्रतिबन्धाय सहस्राराय मङ्गलम् ।। […]
श्रीसुदर्शन प्रपत्तिः
श्रीः श्रीमते रामानुजाय नमः श्रीसुदर्शन प्रपत्तिः ॐ सहस्रादित्य सङ्काशम् सहस्रवदनम् परम् । सहस्रदोस्सहस्रारम् प्रपद्येऽहम् सुदर्शनम् रणत्किङ्किणि जालेन राक्षसघ्नम् महाद्भुतम् । व्याप्तकेशम् विरूपाक्षम् प्रपद्येऽहम् सुदर्शनम् प्राकारसदृशम् मन्त्रम् वदन्तम् शत्रुनिग्रहम्। भूषणैः भूषितकरम् प्रपद्येऽहम् सुदर्शनम् पुष्करस्यामनिर्देशम् महामन्त्रेण सम्मतम् । शिवम् प्रसन्नवदनम् प्रपद्येऽहम् सुदर्शनम् हुङ्कारभैरवम् भीमम् प्रपन्नार्तिहरम् प्रियम् । सर्वपापप्रशमनम् प्रपद्येऽहम् सुदर्शनम् अनन्तहारकेयूरमुकुटादिविभूषितम् । सर्वरोगप्रशमनम् प्रपद्येऽहम् सुदर्शनम् सुदर्शनप्रपदनम् प्रातरुत्थाय […]
श्रीसुदर्शनचक्रस्तुति:
श्रीः श्रीमते रामानुजाय नमः अम्बरीषप्रोक्ता सुदर्शनचक्रस्तुतिः त्वमग्निः भगवान् सूर्यस्त्वम् सोमो ज्योतिषाम् पतिः । त्वमापस्त्वम् क्षिति: व्योम वायुः मात्रेन्द्रियाणि च ।। १ ।। सुदर्शन नमस्तुभ्यम् सहस्राराच्युतप्रिया । सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ।। २ ।। त्वम् धर्मस्त्वमृतम् सत्यम् त्वम् यज्ञोऽखिलयज्ञभुक् । त्वम् लोकपालः सर्वात्मा त्वम् तेजः पौरुषम् परम् ।। ३ ।। नमः सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे । त्रैलोक्य […]
श्रीसुदर्शनकवचम्
श्रीः श्रीमते रामानुजाय नमः श्रीसुदर्शनकवचम् प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद । सौदर्शनम् तु कवचम् पवित्रम् ब्रूहि तत्वतः ।। १ ।। नारद उवाच – शृणुष्वेह द्विजश्रेष्ठ ! पवित्रम् परमाद्भुतम् । सौदर्शनम् तु कवचम् दृष्टादृष्टार्थसाधकम् ।। २ ।। कवचस्यास्य ऋषिर्ब्रम्हा छन्दोऽनुष्टुप् तथा स्मृतम् । सुदर्शनमहाविष्णुर्देवता सम्प्रचक्षते ।। ३ ।। हाम् बीजम् शक्तिरत्रोक्ता ह्रीम् क्रोम् कीलकमिष्यते । शिरस्सुदर्शनः […]