श्रीगुणरत्नकोशः व्याख्या Part 2

श्रीः श्रीमते रामानुजाय नमः पराशरभट्टैः विरचित श्रीगुणरत्नकोशः Part 2 [वसुराश्यभिधाव्याख्यासहितः]      इत्थम् लक्ष्म्या लीलाविभूत्युपयोगमुक्त्वा नित्यविभूतियोगमाह – यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतम् यत्कालादपचेलिमम् सुरपुरी यद्गच्छतो दुर्गतिः । सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहम् मद्गिराम् तद्विष्णोः परमम् पदम् तव कृते मातः ! समाम्नासिषुः || २१ ||      यदिति – हे मातः । यत् स्थानम् । मनसो दूरे स्मर्त्तुमशक्यमि-त्यर्थः […]

श्रीगुणरत्नकोशः व्याख्या Part 1

श्रीः श्रीमते रामानुजाय नमः पराशरभट्टैः विरचित श्रीगुणरत्नकोशः [वसुराश्यभिधाव्याख्यासहितः] श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे || [व्याख्यातृप्रतिज्ञा] श्रीगुरुपङ्क्तिपादसरसीरुहसम्विनतः श्रीगुणरत्नकोशविवृतिम् वसुराश्यभिधाम् । श्रीनगदेशिकेन्द्रतनयः शुभवात्स्यकुलः श्रीयुतवीरराघवगुरुर्वितनोतितराम् || श्रीमन्महाहरितवम्शविशुद्धवृत्त- मुक्तामणिः सकलशास्त्रविदग्रगण्यः । भट्टारको विरचयन् गुणरत्रकोशम् स्तोत्रम् श्रियो नमति तामिह विघ्रशान्त्यै || [अवतारिका] श्रीमत्कुरकुलपयःपारावारसुधाकरश्रीमद्रामानुजमुनीन्द्रकृपालब्ध श्रीभाष्यदप्रबन्धपरिचयमहिमोल्लासबुद्धिः, द्रविडोपनिषद्गम्भीराशय- विवरणश्रीरङ्गराजकमलापदलालितः, श्रीरङ्गनाथदिव्याज्ञालब्धपराशर-. भट्टारकनामधेयः, कैशिकपुराणश्रवणसमुदितमहिमोल्लासभासुररङ्ग- रमणकरुणाप्रसादसमासादितब्रह्मरथवैभवः, यतिवरचरणाम्भोरुहप्रवणान्ते वासिजनाग्रेसरकूरेशतनूभवः, सकलशास्त्रविदग्रेसरः, श्रीभट्टाख्यदेशिकः निखिलजगदुदयविभवलयलीलाशालिभगवत्प्रापकभूताम् श्रियम् तत्कृत-महोपकारातिशयानुसन्धानेन […]

श्रीरङ्गनाथस्तोत्रम् -पराशरभट्टकृतम्

श्रीरङ्गनाथस्तोत्रम् पराशरभट्टकृतम् । श्रीरङ्गक्षेत्रे सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने कावेरीमध्यदेशे मृदुतरफणिराड्भोगिपर्यङ्कभागे । निद्रामुद्राभिरामं कटिनिकटशिरःपार्श्वविन्यस्तहस्तं पद्माधात्रीकराभ्यां परिचितचरणं रङ्गराजं भजेऽहम् ॥ १॥ कस्तूरीकलितोर्ध्वपुण्ड्रतिलकं कर्णान्तलोलेक्षणं मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्ज्वलम् । पश्यन्मानसपश्यतोहररुचिं पर्यायपङ्केरुहं श्रीरङ्गाधिपतेः कदा नु वदनं सेवेय भूयोऽप्यहम् ॥ २॥ कदाऽहं कावेरीतटपरिसरे रङ्गनगरे शयानं भोगीन्द्रे शतमखमणिश्यामळरचिम् । उपासीनः क्रोशन्मधुमथन नारायण हरे मुरारे गोविन्देत्यनिशमनुनेष्यामि दिवसान् ॥ ३॥ कदाहं कावेरीविमलसलिले वीतकलुषो भवेयं तत्तीरे श्रममुषि […]

श्री भगवद् गुण दर्पण: 901-1000

श्री भगवद् गुण दर्पण: 901-1000(Concluded)   96.901   स्वस्तिदः                 *901 दशमं शतकम् एवं महन्मङ्गलं ददाति इति स्वस्तिदः ।। [नि-901. भक्तेभ्यो मङ्गलं स्वस्ति ददातः स्मृतः ।।] 96.902   स्वस्तिकृत्                 *902 स्वगुणैः स्वभोगाशिषं करोति इति स्वस्तिकृत् ।। [नि-902. स्वस्ति भेगाशिषं यस्तु करोति स्वस्तिकृत् च सः ।।] 96.903   स्वस्ति                 *903 स्वयमेव महन्मङ्गलम् स्वस्ति । “स्वस्ति शिवाशिषोः ।।” […]

श्री भगवद् गुण दर्पण: 801-900

श्री भगवद् गुण दर्पण: 801-900   85.801   अर्कः                 *801 नवमं शतकम् ‘अहो! महात्माऽतिधार्मिकः’ इति तैः स्तुतः अर्कः । “अर्क स्तुतौ” ।। [नि-801. अत्यन्तधार्मिक इति स्तुतः अर्क ईरितः ।] 85.802   वाजसनिः                 *802 नास्तिक्यवादेन नास्तिक्यवादेन एहिकमन्नादिकमेव संभजतीति वाजसनिः । “वन पण संभक्तौ” “इन् सर्वधातुभ्यः ।” (उणा.पा.-4.119) “क्षपणकव्रतं हीदं यत् प्रातः प्रातः दध्योदनकबलान् गृह्णते इति ।।” […]

श्री भगवद् गुण दर्पण: 701-800

श्री भगवद् गुण दर्पण: 701-800   74.701   वसुः                 *701 अष्टमम् शतकम् एतदवतारागमं क्षीरार्णव-निकेतनत्वमाह-वसुः । तत्र वसति इति । यथा- “स लोकानां हितार्थाय क्षौरोदे वसति प्रभुः”, (भार.स.47.26) “एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम् ।।” इत्यादि ।। [नि-701. वसतीति वसुः लोकहितेच्छुः क्षीरसागरे ।।] 74.702   वसुमनाः                 *702 तत्र लक्ष्मीजन्मभूमौ वसतोऽपि वसौ-वसुदेवे मनः अस्येति […]

श्री भगवद् गुण दर्पण: 601-700

श्री भगवद् गुण दर्पण: 601-700   63.601   वृषभाक्षः                 *601 सप्तम-शतक-प्रारंभः तच्च धर्मद्वारेण इति वृषभाक्षः । फलवर्षी वृषभो धर्मः, सः अक्षः- संसार चक्राधारो यस्मात् ।। [नि-601. यतोऽक्षो वृषभो धर्मो वृषभाक्षः स उच्यते ।।] 63.602   वृषप्रियः                 *602 एवं प्रवर्तकनिवर्तकधमाँ प्रियो अस्येति वृषप्रियः । तत्प्रियत्वेन हि द्वैधानां कर्मणां धर्मत्वम् । तत्प्रियत्वख्यापनमेव च विध्यर्थः । इदं च […]

श्री भगवद् गुण दर्पण: 501-600

श्री भगवद् गुण दर्पण: 501-600   53.501   शरीरभूतभृत्                 *501 ।। षष्ठशतकप्रारंभः ।। “तस्य मूर्वा समभवत् द्यौः सनक्षत्रदेवता” इति आरभ्य, (भार.सा.348.49) “एतत् हयशिरः कृत्वा नानामूर्तिभिरावृतम्” इत्यन्तम् ।। (भार.शा.) [नि-501. देहभूतं जगत्तत्वं प्रकृत्यादिधरान्तकम् । शरीरभूतभृत् प्रोक्तो बिभर्तीति दशाक्षरः ।।] 53.502   भोक्ता                 *502 . “यत्तु तत्कथितं पूर्वं त्वया हयशिरो महत् । हव्यकव्यभुजो विष्मोः उदक्पूर्वे महोददौ ।।” […]

श्री भगवद् गुण दर्पण: 401-500

श्री भगवद् गुण दर्पण: 401-500 43.401   अनयः                 *401 पञ्चम-शतक-प्ररंभः स एव, असुहृद्भिः न नयः अस्य अस्तीति अनयः । यथा रावणेन– “हिमवान् मन्दरो मोरुः त्रैलोक्यं वा सहामरैः । शक्यं भुजाभ्याम् उद्धर्तुं न संख्ये भरतानुजः ।।” (राम.यु. 59.110) यद्वा “अयः शुभावहो विधिः”, सः अस्मादन्यो जगतो नास्तीति अनयः । यथा–(अमरकोश) “एते वयं सर्वंसमृद्धकामा येषामयं नो भविता प्रशास्ता” […]

श्री भगवद् गुण दर्पण: 301-400

श्री भगवद् गुण दर्पण: 301-400 33.301   युगादिकृत्                 *301 चतुर्थ-शतक-प्रारंभः वटपत्रशायी-अवतारः युगादिकृते युगावर्तो नैकमायो महाशनः । अदृश्योऽव्यक्तरूपश्व सहस्रजित् अनन्तजित् ।। 33 ।। अथ अमर्यादार्यत्वम् । तत्र न्यग्रोध-शाय्यवतारः उदाहरणम् । युगस्य अन्तेऽपि आर्दिं करोति इति युगादिकृत् । स खलु समवर्त्ऽपि प्रलयात् अनुपप्लुतं दगत् प्रवर्तितवान् ।। [नि-301. न्यग्रोधशायी भगवान् पुराण-पुरुषोत्तमः । करोति आदिं युगस्यान्ते स युगादिकृत् ईरितः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.