पूर्वदिनचर्या-श्रीदेवराजगुरु
श्रीदेवराजगुरुभिः अनुगृहीता ॥ पूर्वदिनचर्या ॥ सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् । देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम् ॥ अङ्के कवेरकन्यायाः तुङ्गे भुवनमङ्गले । रङ्गे धाम्नि सुखासीनं वन्दे वरवरं मुनिम् ॥ १ ॥ मयि प्रविशति श्रीमन्मन्दिरं रङ्गशायिनः । पत्युः पदाम्बुजं द्रष्टुम् आयान्तमविदूरतः ॥ २ ॥ सुधानिधिमिव स्वैरस्वीकृतोदग्रविग्रहम् । प्रसन्नार्कप्रतीकाशप्रकाशपरिवेष्टितम् ॥ ३ ॥ पार्श्वतः पाणिपद्माभ्यां परिगृह्य भवत्प्रियौ । विन्यस्यन्तं शनैरङ्घ्री मृदुलौ मेदिनीतले ॥ […]