वरवरमुनि शतकम् – अण्णा
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ श्री प्रतिवादि भयङ्करम् अण्णा विरचितः वरवरमुनि शतकम् वेदान्तदेशिककटाक्षविवृद्धबोधं कान्तोपयन्तृयमिनः करुणैकपात्रम् | वत्सान्ववायमनवद्यगुणैरुपेतं भक्त्या भजामि परवादिभयङ्करार्यम् || मूलेऽवतीर्णमिह मूलमनूदितार्थ तत्त्वावबोध सुखिता वसुधां विधातुम् | रामानुजार्य चरणाम्बुज चञ्चरीकं रम्योपयन्तृयमिनं शरणं प्रपये ||1 || यदवतरणमूलं मुक्तिमूलं प्रजानां शठरिपुमुनिदृष्टाम्नाय साम्राज्यमूलम् | कलिकलुषसमूलोन्मूलने मूलमिन्धे स भवतु वरयोगी नस्समस्तार्थमूलम् || 2 […]
वरवरमुनि शतकम् – देवराजगुरु
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ श्रीमत् वरवरमुनये नम : श्री देवराजगुरु विरचितः वरवरमुनि शतकम् श्री देवराजगुरुवर्यविषयोsयम् श्लोक: | सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् | देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम् || वरवरमुनिवर्यपादुरत्नं वरदगुरुंगुरुमाश्रये गुरूणाम् | उपनिशदुपगीतमर्थतत्वं तदिह यदीयवशम्वदं समिन्धे || १|| आकल्पमत्र भवतु प्रदयन् धरित्रीं अस्मद्गुरुर्वरवरप्रवरो मुनीनाम | अन्तस्तमश्शमनम् अन्तदृषां यदीयम् अम्लानपल्लवतलारुणमङ्घ्रियुग्मम् || २॥ गुणमणिनिधये नमो […]