पादुकासहस्रम् बिम्बप्रतिबिम्बपद्धतिः

पादुकासहस्रम् बिम्बप्रतिबिम्बपद्धतिः शौरेः शुद्धान्तनारीणां विहारमणिदर्पणम् । प्रसत्तेरिव सं स्थानं पदत्राणमुपास्महे।। 21.1 कमलापतिपादुके ! कदाचिद् विहगेन्द्रस्त्वयि बिम्बितो विभाति । सविलासगतेऽपि रङ्गभर्तुः निजमात्मानमिवोपधातुकामः।। 21.2 मणिपङ्क्तिषु ते दिशामधीशाः प्रतिबिम्बानि निजानि वीक्षमाणाः । अभियन्ति मुकुन्दपादुके ! त्वां अधिकारान्तरसृष्टिशङ्कयेव।। 21.3 मणिमौळिशतेन बिम्बितेन प्रणतानां परितः सुरासुराणाम् । मुरभिन्मणिपादुके ! महिम्ना युगपत्तेषु समर्पितेव भासि।। 21.4 उपनीतमुपायनं सुरेन्द्रैः प्रतिबिम्बच्छलतस्त्वयि प्रविष्टम् । स्वयमेव किल […]

पादुकासहस्रम् इन्द्रनीलपद्धतिः

पादुकासहस्रम् इन्द्रनीलपद्धतिः हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा । अयत्नलभ्यनिर्वाणामाश्रये मणिपादुकाम्।। 20.1 हरिरत्नमरीचयस्तवैते नवनीलीरसनिर्विशेषवर्णाः । श्रुतिमूर्धनि शौरिपादरक्षे ! पलितानुद्भवभेषजं भवन्ति।। 20.2 अळकैरिव बिम्बितैः श्रुतीनां हरिनीलैः सृजसि त्वमुन्मयूखैः । कमलादयितस्य पादरक्षे ! करुणोदन्वति शैवलप्ररोहान्।। 20.3 अनघैर्हरिनीलपद्धतीनां प्रथमानैर्मणिपादुके ! मयूखैः । अधरीकुरुषे रथाङ्गपाणेः अमितामूर्ध्वमवस्थितस्य कान्तिम्।। 20.4 चरणावनि ! भाति सह्यकन्या हरिनीलद्युतिभिस्तवानुविद्धा । वसुदेवसुतस्य रङ्गवृत्तेः यमुनेव स्वयमागता समीपम्।। 20.5 अवधीरितदेवतान्तराणाम् […]

पादुकासहस्रम् मरकतपद्धतिः

पादुकासहस्रम् मरकतपद्धतिः वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् । यया नित्यं तुळस्येव हरितत्त्वं प्रकाश्यते।। 19.1 सविलासगतेषु रङ्गभर्तुः त्वदधीनेषु बहिष्कृतो गरुत्मान् । अधिगच्छति निर्वृतिं कथञ्चित् निजरत्नैस्त्वयि पादुके ! निविष्टैः।। 19.2 समये मणिपादुके ! मुरारेः मुहुरन्तः पुरमुग्धचेटिकास्ते । हरितान् हरिदश्मनां मयूखान् तुळसीपल्लवशङ्कया क्षिपन्ति।। 19.3 हरितः सहसा हरिन्मणीनां प्रभया रङ्गनरेन्द्रपादरक्षे ! । तुळसीदलसम्पदं दधाति त्वयि भक्तैर्निहितः प्रसूनराशिः।। 19.4 प्रसादयन्ती […]

पादुकासहस्रम् मुक्तापद्धतिः

पादुकासहस्रम् मुक्तापद्धतिः बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च । प्रत्यक्षं शेषशेषित्वं सा मे सिद्ध्यतु पादुका।। 18.1 तव रङ्गधुरीणपादरक्षे ! विमला मौक्तिकपद्धतिर्विभाति । सुहृदि त्वयि साधितापवर्गैः समये सङ्क्रमितेव साधुकृत्या।। 18.2 शरणागतसस्यमालिनीयं तव मुक्तामणिरश्मिनिर्झरौघैः । ननु रङ्गधुरीणपादरक्षे ! जगतीं नित्यमदैवमातृकाऽभूत्।। 18.3 अधिविष्णुपदं परिस्फुरन्ती नवमुक्तामणिनिर्मलप्रकाशा । परिपुष्यसि मङ्गळानि पुं सां प्रतिपच्चन्द्रकलेव पादुके ! त्वम्।। 18.4 निहिता नवमौक्तिकावळिस्त्वाम् अभितः काञ्चनपादुके […]

पादुकासहस्रम् पद्मरागपद्धतिः

पादुकासहस्रम् पद्मरागपद्धतिः प्रपद्ये रङ्गनाथस्य पादुकां पद्मरागिणीम् । पदैकनियतां तस्य पद्मवासामिवापराम्।। 17.1 अतिवाङ्मनसं विचिन्त्य शौरेः पदरक्षे ! पदपद्मसौकुमार्यम् । परिपुष्यसि पद्मरागभासा पदवीमाहितपल्लवामिव त्वम्।। 17.2 पदपल्लवसङ्गिभिः प्रदीप्तैः अधिकोल्लासिभिरम्ब ! पद्मरागैः । अनले शयनं क्वचिन्मुरारेः अविसं वादयसीव पादुके ! त्वम्।। 17.3 विवृणोति रङ्गपतिरत्नपादुके ! त्वयि पद्मरागमणिपद्धतिः शुभा । निबिडोरुसङ्घटनपीडनक्षरन् मधुकैटभक्षतजपङ्कवासनाम्।। 17.4 प्रतियन्ति रङ्गपतिपादुके ! जनाः तव पद्मरागमणिरश्मिसन्ततिम् । […]

पादुकासहस्रम् बहुरत्नपद्धतिः

पादुकासहस्रम् बहुरत्नपद्धतिः मुखबाहूरुपादेभ्यो वर्णान् सृष्टवतः प्रभोः । प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम्।। 16.1 मणिभिः सितरक्तपीतकृष्णैर्भवती काञ्चनपादुके ! विचित्रा । युगभेदविकल्पितं मुरारेः युगपद्दर्शयतीव वर्णभेदम्।। 16.2 नवरत्नविचित्रिता मुरारेः पदयोस्त्वं मणिपादुके ! विभासि । नवखण्डवती वसुन्धरेव प्रणयाज्जन्मभुवं समाश्रयन्ती।। 16.3 सहसा विनिवेद्य सापराधान् त्वदधीनस्वपदे मुकुन्दपादे । अरुणोपलसक्तमौक्तिकश्रीः स्मयमानेव विभासि पादुके ! त्वम्।। 16.4 बहुरत्नसमुद्भवं मयूखं तव मन्ये मणिपादुके ! मुरारेः । […]

पादुकासहस्रम् रत्नसामान्यपद्धतिः

पादुकासहस्रम् रत्नसामान्यपद्धतिः उदर्चिषस्ते रङ्गेन्द्रपादावनि ! बहिर्मणीन् । अन्तर्मणिरवं श्रुत्वा मन्ये रोमाञ्चिताकृतीन्।। 15.1 विधेहि शौरेर्मणिपादुके ! त्वं विपद्यमाने मयि रश्मिजालैः । आसीदतामन्तककिङ्कराणां वित्रासनान् वेत्रलताविशेषान्।। 15.2 मुकुन्दपादावनि ! मध्यनाड्या मूर्धन्यया निष्पततो मुमुक्षोः । आब्रह्मलोकादवलम्बनार्थं रत्नानि ते रश्मिगणं सृजन्ति।। 15.3 असूर्यभेद्यां रजनीं प्रजानाम् आलोकमात्रेण निवारयन्ती । अमोघवृत्तिर्मणिपादरक्षे ! मुरद्विषो मूर्तिमती दया त्वम्।। 15.4 रङ्गेशपादावनि ! तावकानां रत्नोपलानां द्युतयः […]

पादुकासहस्रम् नादपद्धतिः

पादुकासहस्रम् नादपद्धतिः श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्रपादुके ! । मिथः सङ्घर्षसञ्जातं रजः किमपि शिञ्जितम्।। 14.1 मुरभिन्मणिपादुके ! भवत्याः स्तुतिमाकर्णयतां मया निबद्धाम् । अवधीरयसीव मञ्जुनादैः अचमत्कारवचां सि दुर्जनानाम्।। 14.2 विहितेष्वभिवादनेषु वेदैः गमनोदीरितगर्भरत्ननादा । मधुरं मधुवैरिपादरक्षे ! भवती प्रत्यभिवादनं विधत्ते।। 14.3 स्वदते किमिहैव रङ्गनाथो मयि तिष्ठन् यदि वा पदे परस्मिन् । इति पृच्छसि देवि ! नूनमस्मान् मधुरैस्त्वं […]

पादुकासहस्रम् परागपद्धतिः

पादुकासहस्रम् परागपद्धतिः पान्तु वः पद्मनाभस्य पादुकाकेळिपां सवः । अहल्यादेहनिर्माणपर्यायपरमाणवः।। 13.1 तव सञ्चरणाद्रजो विधूतं यदिदं रङ्गनरेन्द्रपादरक्षे ! । अलमेतदनाविलानि कर्तुं कतकक्षोद इवाशु मानसानि।। 13.2 पुनरुक्तपितामहानुभावाः पुरुषाः केचिदमी पुनन्ति विश्वम् । मधुवैरिपदारविन्दबन्धोः अपरागास्तव पादुके ! परागैः।। 13.3 अभियुक्तजनो निजार्भकाणां बहुशो रङ्गनरेन्द्रपादरक्षे ! । अवलेपपिशाचमोचनार्थं रजसा लिम्पति तावकेन देहान्।। 13.4 शिरसा परिगृह्य लोकपालाः तव रङ्गेश्वरपादुके ! रजां सि […]

पादुकासहस्रम् पुष्पपद्धतिः

पादुकासहस्रम् पुष्पपद्धतिः शौरेः सञ्चारकालेषु पुष्पवृष्टिर्दिवश्च्युता । पर्यवस्यति यत्रैव प्रपद्ये तां पदावनीम्।। 12.1 दैवतं मम जगत्त्रयार्चिता दिव्यदम्पतिविहारपादुका । पाणिपादकमलार्पणात् तयोः या भजत्यनुदिनं सभाजनम्।। 12.2 तव रङ्गराजमणिपादु ! नतो विहितार्हणः सुरसरित्पयसा । अवतं सचन्द्रकलया गिरिशो नवकेतकीदळमिवार्पयति।। 12.3 कुसुमेषु समर्पितेषु भक्तैः त्वयि रङ्गेशपदावनि ! प्रतीमः । शठकोपमुनेस्त्वदेकनाम्नः सुभगं यत् सुरभित्वमस्य नित्यम्।। 12.4 पदे परस्मिन् भुवने विधातुः पुण्यैः प्रसूनैः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.